सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 135, कुल 837 में से
संदर्भ में पढ़ें७६ सात्वतसंहिता
गूढो यथैव दहनो मथनादुपैति
आवाहतोऽपि हि तथा त्वमुपैषि चार्चाम् ॥
—(सा० २५।१२१) इति ।
भावदर्पणसंक्रान्तं कृत्वेत्यनेन—
तमागतमिवाकाशात् तारकं कर्णिकान्तरे ।
भावयेदथ तन्मध्यादाराध्यमुदितं स्मरेत् ॥—(सा० ५।१०२)
इत्युक्तार्थः स्मारितो भवति । वेद्यामिति पदं बिम्बाद्युपलक्षकम् । सन्निरुध्य
पूजावसानिकां स्थितिं प्रार्थ्येत्यर्थः । अत्र सन्निधिसाम्मुख्यकरणमप्यपेक्षितमीश्वरादिषु
ग्राह्यम् । मन्त्रोच्चारावसानतः तत्तन्मूलमन्त्रावसान इत्यर्थः । किञ्च—
आवाहयामि लक्ष्मीशं परमात्मानमव्ययम् ॥
आतिष्ठतामिमां मूर्तिं मदनुग्रहकाम्यया ।
श्रिया सार्धं जगन्नाथो देवो नारायणः पुमान् ॥
—(ल० ३६।९४-९५)
इति लक्ष्मीतन्त्रोक्तो मन्त्रश्चात्र प्रकृतः । नन्वेतच्छ्लोकपञ्चकस्याप्यावाहनपरत्वे
पुराङ्कितमित्यादिश्लोकद्वयं सात्वतोपबृंहणेश्वरेपारमेश्वर्योः कुतो नोक्तमिति चेत्सत्यम्,
तत्र—
गन्धार्घ्यपुष्पैः सम्पूर्य मूलमन्त्रं समुच्चरन् ।
पीठोपरि हरेरग्रे मूर्ध्नि पुष्पाञ्जलिं क्षिपेत् ॥
—(ई०सं० ४।५९; पा०सं० ६।२२९)
इत्यनेनैव तच्छ्लोकद्वयार्थः संगृहीतो भवतीति बोध्यम्, तदावाहनपात्रस्थार्घ्य-
जलस्याञ्जलिद्वारेणैव बिम्बोपरि सेचनीयत्वात् । 'तिलान् सुमनसस्तस्मिन् दूर्वाः
सिद्धार्थकान् क्षिपेत्' (६।१४) इत्युक्तस्य द्रव्यचतुष्टयप्रक्षेपस्य प्रधानार्घ्यजलपूरणेनैव
चारितार्थ्याच्च ।
नन्वेवं तेनैव तद्द्रव्यचतुष्टयप्रक्षेपस्य चरितार्थ्ये सात्वते पुनः किमर्थं तदुपादान-
मिति चेत्, सत्यम्—
पाद्ये द्रव्यान्तरालाभे दूर्वा चार्घ्येऽथ सर्षपः ।
शस्तमाचमनीये तु तक्कोलं मार्जनाम्भसि ॥
इति पाद्मोक्तन्यायेनार्घ्यादिषु द्रव्यान्तरालाभेनेकैकद्रव्यप्रक्षेपेऽप्यावाहनार्घ्ये तिला-
दीनां चतुर्णामपि प्रक्षेपसिद्ध्यर्थं पुनरुपादानमिति ज्ञेयम् । एवं चैवमावाहनं चरबिम्ब-
कुम्भमण्डलाद्यर्चनविषयम्, न तु स्थिरबिम्बविषयम्,
स्थितमायतने वाऽथ साकारं परमेश्वरम् ।
शङ्खचक्रधरं विष्णुं सुरसिद्धावतारितम् ॥
ऋषिभिर्मनुजैर्वाथ भक्तियुक्तैः प्रतिष्ठितम् ।
तन्मूर्त्तौ च स्वमन्त्रेण यजेदावाहनं विना । —(१३।५८-६०)