सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 130, कुल 837 में से
संदर्भ में पढ़ेंषष्ठः परिच्छेदः
चातुरात्म्यबाह्याराधनम्
नारद उवाच
वक्ष्ये विप्रवराः सम्यग् य रक्तश्चक्रपाणिना ।
प्रसङ्गाद् बलदेवस्य द्रव्ययागोऽप्यनन्तरम् ॥ १ ॥
अथ षष्ठो व्याख्यास्यते । बहिर्यागं वक्ष्य इत्याह—वक्ष्य इति । द्रव्ययागः
द्रव्यैरर्घ्यादिभिः क्रियमाणो यागः । बाह्याराधनमित्यर्थः ॥ १ ॥
नारद जी ने कहा—भगवान् चक्रपाणि ने प्रसङ्ग उपस्थित होने पर बलदेव
से इसके बाद बाह्यसाधनभूत द्रव्ययाग (= बहिर्याग) इस प्रकार कहा ॥ १ ॥
भद्रपीठशोधनविधानम्
श्रीभगवानुवाच
यत्किञ्चित् पत्रपुष्पाद्यं परिदृश्येत पीठगम् ।
पाणिना तत्समाहृत्य शुचिस्थाने निधाय वै ॥ २ ॥
गव्यैर्वा चामरैर्वालैः शिखिपक्षैः कुशैरथ ।
संमार्ज्य भद्रपीठं तु वाससा सुसितेन वा ॥ ३ ॥
बहुना वस्त्रपूतेन वारिणा तदनन्तरम् ।
प्रक्षाल्य द्वादशार्णेन प्रणवाद्यन्तकेन तु ॥ ४ ॥
आदौ भद्रपीठशोधनप्रकारमाह—यत्किञ्चिदिति त्रिभिः । पत्रपुष्पाद्यं = पूर्वदिने
भगवद्भुक्ततुलसीपत्रादिकमित्यर्थः । प्रणवाद्यन्तकेन = प्रणवसम्पुटितेनेत्यर्थः । द्वाद-
शार्णेन = वासुदेवद्वादशाक्षरेणेत्यर्थः । एवं भद्रपीठशोधनादिकस्य कालान्तरकर्तव्य-
त्वमप्युक्तमीश्वरपारमेश्वर्योः—
यद्वा प्राग्यागभवनप्रवेशानन्तरं द्विजाः ॥
न्यस्य भद्रासनाद्यन्तमन्यदन्यत् समाचरेत् ।
यद्वा तदातने काले न्यस्य भद्रासनं ततः ॥
आद्यं मार्गत्रयं कृत्वा यथोक्तविधिना ततः ।
योगपीठार्चनारम्भे बिम्बोक्तं सर्वमाचरेत् ॥ इति ॥ २-४ ॥
—(ई०सं० ३।१६-१८; पा० सं० ६।३२-३४)