सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 128, कुल 837 में से
संदर्भ में पढ़ेंपञ्चमः परिच्छेदः ६९
(निः? स) शक्तिकस्य मन्त्रस्य प्रागादिदलेषु हृदयाद्यङ्गमन्त्रन्यासं कमलाद्
बहिस्तत्तत्परिवारन्यासं चाह—सशक्तिकस्येति । एवं दलेषु लक्ष्यादिशक्तिन्यास-
नियमस्य प्रायिकत्वं बोध्यम् । यतोऽत्रैव त्रयोदशे परिच्छेदे—
षट्कं केसरजालस्थं तत्र प्राक् पश्चिमे द्वयम् ॥
द्वयं द्वयं सौम्ययाम्ये तासां वामकरेषु च ।
—(सात्वत० १३।५२-५३)
इति केसरस्थानेऽपि शक्त्यवस्थानमुक्तम् । सप्तदशपरिच्छेदेऽपि—
नेमिभागे श्रियं देवीं पुष्टिमुत्तरतो न्यसेत् ।
पृष्ठदेशे स्थितां निद्रामग्रभागे सरस्वतीम् ॥—(सात्वत० १७।७०)
इति कमलाद् बहिरपि शक्तिन्यास उक्तः । किञ्च, सात्वतोपबृंहणे ईश्वरे
पारमेश्वरे च—
'देवस्य कर्णिकायां तु श्रियं पुष्टिं ततोऽपरे' (ई०सं० ४।७९; पा०सं०
६।२४९) इति कर्णिकायामपि देवस्य पार्श्वद्वये शक्त्यर्चनमुक्तम् ॥ १०५-१०६ ॥
अब पहले पद्म के आदि दलों में शक्ति के सहित हृदयाद्यङ्गमन्त्रों का न्यास
एवं कमल के बाहर उनके परिवार का न्यास कहते हैं—केशर स्थान में शक्ति का
अवस्थान कहा गया है । अतः पूर्व से आरम्भ करके दो-दो शक्तियों का पत्र के
मध्य में न्यास करे ॥ १०५-१०६ ॥
निःशक्तिको निरङ्गो यो मन्त्रनाथस्तु केवलः ॥ १०६ ॥
शब्दमात्रेण तं भूयो दलजालगतं यजेत् ।
निःशक्तिकत्वनिरङ्गकत्वोभयविशिष्टस्य भगवतस्तु केवलमन्त्रमात्रेण भाग-
स्थानेऽप्यर्चनमाह—निःशक्तिक इति ॥ १०६-१०७ ॥
शक्ति रहित एवं निराकार उभय विशिष्ट भगवान् का अर्चन केवल मन्त्र मात्र
से कमल निर्देशित भागस्थान पर करना चाहिए ॥ १०६-१०७ ॥
इत्येवमन्तर्यागस्तु देवस्य परमात्मनः ॥ १०७ ॥
समासेनोदितः सम्यगथ मूर्तेर्यजेद् बहिः ।
उक्तमर्थं निगमयति—इतीति ॥ १०७-१०८ ॥
इस प्रकार परमात्मा विष्णु देव के अन्तर्याग का विधान संक्षेप से किया गया
है । अब मूर्ति का पूजन बाहर करना चाहिए इसे कहते हैं ॥ १०७-१०८ ॥
बहिर्यागोपक्रमः
वेद्यां पुराहृतैर्भोगैर्बिम्बे वा चक्रपङ्कजे ॥ १०८ ॥
हेमादिद्रव्यजनिते चक्रे वा केवलाम्बुजे ।