सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 120, कुल 837 में से
संदर्भ में पढ़ेंपञ्चमः परिच्छेदः ६१
'अथादायाक्षगम् ... षड्वर्णं षष्ठमेव हि' पर्यन्त तृतीय मन्त्र का उद्धार कहते
हैं । मन्त्र का स्वरूप—'ॐ अं शार्ङ्गिधृते मकरध्वजाय रक्तवाससे सनत्कुमाराय
जगत्प्रियाय प्रद्युम्नाय नमः' । यह चौंतीस अक्षर का मन्त्र है ॥ ५०-५५ ॥
आद्यं षडक्षरं ज्ञेयं द्वितीयं तद्वदेव हि ।
पञ्चाक्षरं तृतीयं तु चतुर्थं तु षडक्षरम् ॥ ५६ ॥
पञ्चार्णं पञ्चमं विद्धि षड्वर्णं षष्ठमेव हि ।
इसमें पहला पद ६ अक्षर का, द्वितीय पद भी ६ अक्षर का, तृतीय पद
पाँच अक्षर का, चौथा पद ६ अक्षर का, पाँचवाँ पद पाँच अक्षर का, छठाँ पद ६
अक्षर का कहा गया है । यहाँ तक तृतीय मन्त्र का उद्धार कहा गया ॥ ५६-५७ ॥
अक्षस्थं षोडशं नाभेर्द्वितीयं दशमात्तु वै ॥ ५७ ॥
केवलं ह्यथ तेनैव चाक्रान्तं नवमात् परम् ।
अथादाय च तस्यान्ते प्रथमात् प्रथमं परात् ॥ ५८ ॥
युक्तं नाभिद्वितीयेन वर्णमेकं महामते ।
वर्णद्वयं पदस्यादौ तदेवान्तेऽस्य वै पुनः ॥ ५९ ॥
अथ द्वितीयं नवमात् प्रथमात् प्रथमं ततः ।
तृतीयमथ वै नेमेर्द्वितीयस्वरसंयुतम् ॥ ६० ॥
द्वितीयं केवलं बाह्यात् सप्तमं नाभिमण्डलात् ।
अथ षष्ठेन वै नेमेराक्रान्तं द्वितीयं न्यसेत् ॥ ६१ ॥
प्राग्वर्णं दशमान्नेमेः पञ्चमस्योर्ध्वगं त्वथ ।
चतुर्थादपरं वर्णं द्वितीयं नेमिमण्डलात् ॥ ६२ ॥
द्वाभ्यां नाभिद्वितीयं तु योजयेत् तदनन्तरम् ।
दशमादपरं वर्णं तृतीयस्वरसंयुतम् ॥ ६३ ॥
तृतीयमथ वै नेमेर्नाभिपञ्चमसंयुतम् ।
द्वितीयस्वरसंयुक्तं द्वितीयं नवमादरात् ॥ ६४ ॥
अस्यैवाधो नियोक्तव्यं दशमात् प्रथमं हि यत् ।
शुद्धं नेमिद्वितीयं तु पदं त्वसितवाससे ॥ ६५ ॥
विष्वक्सेनाय तदनु नमस्कारसमन्वितम् ।
द्वात्रिंशार्णो ह्ययं मन्त्रः पदभेदेन वै पुनः ॥ ६६ ॥
एकाधिकस्तु भवति पदान्यथ निबोध मे ।
द्व्यक्षरं तु पदं पूर्वं द्वितीयं तु नवाक्षरम् ॥ ६७ ॥
त्रीणि पञ्चाक्षराण्यन्यत् षष्ठं सप्ताक्षरं स्मृतम् ।