सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 117, कुल 837 में से
संदर्भ में पढ़ें५८ सात्वतसंहिता
मध्ये प्राग्दक्षिणस्यां च सितरक्तेन तेजसा ।
वासुदेवो जगन्नाथो भावनीयो महामते ॥ २५ ॥
पूर्व और दक्षिण के मध्य वाले दस में सित और रक्त कान्ति वाले भगवान्
जगन्नाथ वासुदेव की आराधना करे ॥ २५ ॥
अतिशुद्धाशयत्वेन स्फटिकोपलवद् विभुः ।
स्थानभेदं समासाद्य स च कान्तिद्वयात्तु वै ॥ २६ ॥
गृह्णाति शबलं रूपमुपसंहारलक्षणम् ।
अत्यन्त शुद्ध स्वरूप होने के कारण एवं स्फटिक मणि के समान वे प्रभु
स्थान भेद के कारण दो-दो रंग की कान्ति से संहार लक्षण शबल रूप धारण
करते हैं ॥ २६-२७ ॥
जाग्रतव्यूहमन्त्रचतुष्टयोद्धारः
क्रमशोऽथ चतुर्णां वै वक्ष्ये मन्त्रगणं शृणु ॥ २७ ॥
अक्षान्तर्गतमादाय नाभेः पूर्वमतः परम् ।
भि(त्रे? त्रं) नाभिद्वितीयेन नेमिपूर्वमतः परम् ॥ २८ ॥
नाभिपञ्चमसंयुक्तं दशमात् प्रथमं ततः ।
तृतीयं च द्वितीयं च नेमेरादाय चाङ्कयेत् ॥ २९ ॥
नाभिद्वितीयबीजेन नवमादपरं ततः ।
तदधो विनियोक्तव्यं द्वितीयं द्वादशात्तु यत् ॥ ३० ॥
पञ्चमेनाथ वै नाभेर्युक्तं कुर्यादनन्तरम् ।
अष्टमादपरं शुद्धं नेमिपूर्वं तथाविधम् ॥ ३१ ॥
युक्तं नाभिद्वितीयेन द्वितीयं नेमिमण्डलात् ।
भूयस्तत्केवलं दद्यात् पदं योगेश्वराय वै ॥ ३२ ॥
तदन्ते चक्रिणे शब्दमथ नेमेर्यदष्टकम् ।
पश्चिमेनान्वितं नाभेस्तदन्ते विनिवेश्य च ॥ ३३ ॥
शुद्धमेकादशात् पूर्वमाद्यं तदनु चाष्टमात् ।
नेमेस्तृतीयेनाक्रान्तं ध्वजायाथ पदं न्यसेत् ॥ ३४ ॥
भिन्नमेकादशात् पूर्वं नाभितुर्येण वै ततः ।
अष्टमादपरं शुद्धं पञ्चमं नेमिमण्डलात् ॥ ३५ ॥
द्वितीयं स्वरसंयुक्तं ससेऽथ द्व्यक्षरं पदम् ।
वासुदेवाय तदनु सनमस्कं पदं भवेत् ॥ ३६ ॥
ततस्तन्मन्त्रानाह—क्रमशोऽथ चतुर्णामित्यादिभिः ।