सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 110, कुल 837 में से
संदर्भ में पढ़ेंचतुर्थः परिच्छेदः ५१
परिच्छेदपरिसमाप्ति । तथा च—'ॐ अं नमो भगवते वासुदेवाय ।' 'ॐ आं नमो
भगवते सङ्कर्षणाय ।' 'ॐ अं नमो भगवते प्रद्युम्नाय ।' 'ॐ अः नमो भगवते
अनिरुद्धाय' इति मन्त्रचतुष्कमुद्धृतं भवति ॥ ३५-४६ ॥
॥ इति श्रीमौज्यायनकुलतिलकस्य यदुगिरीश्वरचरणकमलार्चकस्य
योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते
सात्वततन्त्रभाष्ये चतुर्थः परिच्छेदः ॥ ४ ॥
— ❦*❧ —
अब चारों मन्त्रों के स्वरूप को कहते हैं, जो सितादि वर्ण वाले देवों के
क्रमशः वाचक हैं, उसे सुनिए ॥ ३५-३६ ॥
अक्षस्थं नाभिपूर्वं च वर्णं यद् दशमात् परम् ॥ ३६ ॥
नेमिपूर्वमधो नाभेस्त्रयोदशसमन्वितम् ।
द्वितीयं द्वादशाद् वर्णं द्वितीयात् परमं ततः ॥ ३७ ॥
पञ्चमं च बहिष्ठेभ्यस्त्रीनेतान् विद्धि केवलान् ।
ततोऽष्टमाद् द्वितीयं तु नाभ्येकादशभेदितम् ॥ ३८ ॥
पञ्चार्णं वासुदेवाय पदं च तदनन्तरम् ।
त्रयोदशाक्षरो ह्येष प्रथमं परिकीर्तितः ॥ ३९ ॥
'अक्षस्थं ... ... प्रथमं परिकीर्तितः' (३६-३९) पर्यन्त प्रथम मन्त्र का
स्वरूप इस प्रकार है—'ॐ अं नमो भगवते वासुदेवाय' । इस मन्त्र में अक्षरों की
संख्या तेरह है ॥ ३६-३९ ॥
क्रमेण वक्ष्याम्यन्येषामुद्धारं तु यथा स्थितम् ।
अक्षस्थमक्षरं नाभेर्द्वितीयं तदनन्तरम् ॥ ४० ॥
पूर्वमन्त्रानुसारेण ततो दद्यात् पदत्रयम् ।
'अक्षस्थमक्षर ... ... ततो दद्यात् पदत्रयम्' पर्यन्त (३९-४१) द्वितीय मन्त्र
का स्वरूप इस प्रकार है—'ॐ आं नमो भगवते सङ्कर्षणाय' । यह तेरह अक्षर
का दूसरा मन्त्र है ॥ ४०-४१ ॥
अथात्र पञ्चदशमं नाभेरोङ्कारपूर्वकम् ॥ ४१ ॥
पदत्रयेण तेनैव संयुक्तं विद्धि मन्त्रपम् ।
'अथात्र पञ्चदशं ... ... विद्धि मन्त्रपम्' (४१-४२) पर्यन्त तृतीय मन्त्र का
स्वरूप इस प्रकार है—'ॐ अं नमो भगवते प्रद्युम्नाय' । यह बारह अक्षर का
तीसरा मन्त्र है ॥ ४१-४२ ॥