सर्वदर्शनसंग्रह (षोडश दर्शन विमर्श - हिन्दी अनुवाद)
Sarva-Darshana-Sangraha with Hindi Commentary
माधवाचार्य (विद्यारण्य स्वामी) / पं. उमाशंकर शर्मा ऋषि द्वारा
पृष्ठ 168, कुल 316 में से
संदर्भ में पढ़ेंर्शनम् ] भाषाटीकासमेतः । ( २६१ )
शिवप्रसादसे मुक्तभी शिव है केवल पूर्वोक्त पञ्चमन्त्रात्मक शरीर एक अनादि मुक्त
शिव है ॥ १२ ॥
पशुस्त्रिविधः विज्ञानाकलप्रलयाकलसकलभेदात् तत्र प्रथमो
विज्ञानयोगसंन्यासैर्भोगेन वा कर्मक्षये सति कर्मक्षयार्थस्य
कलादिभोगबन्धस्याभावात् केवलमलमात्रयुक्तो विज्ञानाकल
इति व्यपदिश्यते । द्वितीयस्तु प्रलयेन कलादेरुपसंहारात् मल-
कर्मयुक्तः प्रलयाकल इति व्यवह्रियते । तृतीयस्तु मलमाया-
कर्मात्मकबन्धत्रयसहितः सकल इति संलप्यते ॥ १३ ॥
उक्त पशु विज्ञानाकल प्रलयाकल और सकल भेदसे तीन प्रकार हैं । प्रथम विज्ञान, -
योग, संन्यासद्वारा या भोगसे कर्मक्षय होनेपर कर्मनाशोपयोगी भोगबन्ध शून्य
होनेसे केवल मलयुक्त विज्ञानाकल है । द्वितीय प्रलयादिसे कलाका उपसंहार होनेपर
मल और कर्म दोनोंसे युक्त प्रलयाकल है । तृतीय मलमायाकर्मात्मक बन्धत्रयसहित
होनेसे सकल ऐसा व्यवहार योग्य होता है ॥ १३ ॥
तत्र प्रथमो द्विपकारो भवति समाप्तकलुपासमाप्तकलुपभेदात् ।
तत्राद्यान् कालुष्यपरिपाकवतः पुरुषधौरेयान् अधिकारयोग्या-
ननुगृह्यानन्तादिविद्येश्वराष्टपदं प्रापयति । तद्विद्येश्वराष्टकं
निर्दिष्टं बहुदैवत्ये—"अनन्तश्चैव सूक्ष्मश्च तथैव च शिवोत्तमः ।
एकनेत्रस्तथैवैकरुद्रश्चापि त्रिमूर्त्तिकः । श्रीकण्ठश्च शिखण्डी
च प्रोक्ता विद्येश्वरा इमे ॥” अन्त्यान् सप्तकोटिसङ्ख्यातान् मन्त्रा-
ननुग्रहकरणान् विधत्ते । तदुक्तं तत्त्वप्रकाशे—"पशवस्त्रिविधाः
प्रोक्ता विज्ञानप्रलयकेवलौ सकलः । मलयुक्तस्तत्राद्यो मलकर्मयुतो
द्वितीयः स्यात् ॥ मलमायाकर्मयुतः सकलस्तेषु द्विधा भवेदाद्यः ।
आद्यः समाप्तकलुषोऽसमाप्तकलुषो द्वितीयः स्यात् ॥ आद्या-
ननुगृह्य शिवो विद्येशत्वे नियोजयत्यणौ । मन्त्रांश्च करोत्य-
परान् ते चोक्ताः कोटयः सप्त ॥ ” इति ॥ १४ ॥