संस्कार विधि (महर्षि दयानन्द सरस्वती - षोडश वैदिक संस्कार एवं गुरुकुल विधान सटीक)
Sanskar Vidhi of Maharshi Dayananda Saraswati
महर्षि स्वामी दयानन्द सरस्वती द्वारा
पृष्ठ 311, कुल 318 में से
संदर्भ में पढ़ेंअन्त्येष्टिप्रकरणम् ३०७
सूर्य॒ चक्षु॑षा गच्छ॒ वात॑मा॒त्मना॒ दिवं॑ च॒ गच्छ पृथि॒वीं च॒
धर्म॑भिः। अ॒पो वा॒ गच्छ॒ यदि॒ तत्र ते हि॒तमोष॑धीषु॒ प्रति॑
तिष्ठा॒ शरी॑रैः स्वाहा॑॥१॥
सोम॒ एके॑भ्यः पवते घृ॒तमेक॒ उपा॑सते ।
येभ्यो॒ मधु॑ प्र॒धाव॑ति॒ तांश्चि॑दे॒वापि॑ गच्छतात् स्वाहा॑॥२॥
ये चि॒त्पूर्व॑ ऋ॑तसाता ऋत॒जाता ऋ॒तावृध॑ः ।
ऋषीं॑स्तप॑स्वतो यम॒ तपो॑जाँ अ॒पि ग॑च्छतात् स्वाहा॑॥३॥
तप॑सा॒ ये अ॑नाधृ॒ष्यास्तप॑सा॒ ये स्व॒र्य॑युः ।
तपो॒ ये च॑क्रि॒रे मह॒स्तांश्चि॑दे॒वापि॑ गच्छतात् स्वाहा॑॥४॥
ये युध्य॑न्ते प्र॒धने॑षु॒ शूरा॑सो॒ ये त॑नू॒त्यज॑ः ।
ये वा॑ स॒हस्र॑दक्षिणा॒स्तांश्चि॑दे॒वापि॑ गच्छतात् स्वाहा॑॥५॥
स्यो॒नास्मै॑ भव पृथिव्यनृक्ष॒रा नि॒वेश॑नी ।
यच्छा॑स्मै॒ शर्म॑ स॒प्रथ॑ः स्वाहा॑ ॥६॥
अपे॒मं जी॒वा अ॑रुधन् गृ॒हेभ्य॒स्तं निर्व॑ह॒त परि॒ ग्रामा॑दितः।
मृ॒त्युर्यमस्या॑सीद्दू॒तः प्रचे॑ता॒ असूंन् पितृ॑भ्यो गम॒यां च॑कार॒
स्वाहा॑॥७॥
य॒मः परो॒ऽवरो॑ वि॒वस्वांस्तत॒ः परं नार्ति पश्या॒मि किं च॒न।
य॒मे अध्व॒रो अधि॑ मे निवि॑ष्टो भुवो॑ वि॒वस्वा॒न्वार्ततान्
स्वाहा॑॥८॥