सामग्री पर जाएँ
सर्वकोश
संस्कार विधि (महर्षि दयानन्द सरस्वती - षोडश वैदिक संस्कार एवं गुरुकुल विधान सटीक)

संस्कार विधि (महर्षि दयानन्द सरस्वती - षोडश वैदिक संस्कार एवं गुरुकुल विधान सटीक)

Sanskar Vidhi of Maharshi Dayananda Saraswati

महर्षि स्वामी दयानन्द सरस्वती द्वारा

DevanagariHindipublished318 पृष्ठ

पृष्ठ 23, कुल 318 में से

संदर्भ में पढ़ें
पृष्ठ 23

शान्तिकरणम् १९
शं नो॒ अदि॑तिर्भवतु व्र॒तेभिः॒ शं नो॑ भवन्तु म॒रुतः॒ स्वर्काः॑ ।
शं नो॒ विष्णुः॒ शमु॑ पू॒षा नो॑ अस्तु॒ शं नो॑ भ॒वित्रं॒ शम्व॑स्तु
वा॒युः ॥ ९॥
शं नो॑ दे॒वः स॑वि॒ता त्राय॑माणः॒ शं नो॑ भवन्तू॒षसो॑ वि॒भातीः॑ ।
शं नः॑ प॒र्जन्यो॑ भवतु प्र॒जाभ्यः॒ शं नः॒ क्षेत्र॑स्य॒ पति॑रस्तु
श॒म्भुः ॥ १० ॥
शं नो॑ दे॒वा वि॒श्वदे॑वा भवन्तु॒ शं सर॑स्वती स॒ह धी॒भिर॑स्तु ।
शम॒भि॒षाचः॒ शमु॑ रा॒तिषाचः॒ शं नो॑ दि॒व्याः पार्थि॑वाः॒ शं नो॒
अप्याः॑ ॥ ११ ॥
शं नः॑ स॒त्यस्य॒ पत॑यो भवन्तु॒ शं नो॒ अर्व॑न्तः॒ शमु॑ सन्तु॒ गावः॑ ।
शं न॒ ऋभवः॑ सु॒कृतः॑ सु॒हस्ताः॒ शं नो॑ भवन्तु पि॒तरो॒ हवे॑षु ॥ १२ ॥
शं नो॑ अ॒ज एक॑पाद् दे॒वो अ॑स्तु॒ शं नोऽहिर्बु॒ध्न्यः॑ । शं संमु॒द्रः ।
शं नो॑ अ॒पां नपा॑त् पे॒रुर॑स्तु॒ शं नः॒ पृश्नि॑र्भवतु दे॒वगो॑पा ॥ १३ ॥
—ऋ० मं० ७ । सू० ३५ । मं० १-१३ ॥
इन्द्रो॑ वि॒श्व॑स्य राजति । शं नो॑ऽअस्तु द्वि॒पदे॒ शं चतु॑ष्पदे ॥ १४ ॥
शं नो॒ वातः॑ पवता॒ञ्च्शं न॑स्तपतु॒ सूर्यः॑ ।
शं नः॑ कनि॑क्रदद्देवः प॒र्जन्यो॑ऽअ॒भि व॑र्षतु ॥ १५ ॥
अहा॑नि॒ शं भ॑वन्तु नः॒ शꣳरात्रीः॒ प्रति॑ धीयताम् ।
शं न॑ऽइन्द्रा॒ग्नी भ॑वता॒मवो॑भिः॒ शं न॒ऽइन्द्रावरु॑णा रा॒तह॑व्या ।
शं न॑ऽइन्द्रापू॒षणा॒ वाज॑सातौ॒ शमिन्द्रा॒सोमा॑ सुवि॒ताय॒ शं
योः ॥ १६ ॥