सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

Sangita Darpana of Damodara Pandita (TMSSML Edition)

दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा

DevanagariSanskritpublished258 पृष्ठ

225
आन्ध्र कर्णाट भाषाभिर्युतं च ध्रुवधातुना
लास्यकैलमुरुमयं कलाकोविदरञ्जकम् ॥ २६१ ॥
वैपोतारुयं तदानृत्यं रसजं दृष्टिसौख्यदम् । इति वैपोतारुयम्
अथ बन्धनृत्यम् ।
यलपात्रे उभेयुक्ते नृत्येते करणैस्तदा ।
यथामिथो भुजौहस्तौ पादावपि तथा तयोः ॥ २६२ ॥
रमणीयाकृतिर्यद्वा त्रीणि चत्वारिवा तथा ।
यद्वासुन्दररूपाणि त्रीणि चत्वारि पञ्चच ॥ २६३ ॥
यलनृत्यन्ति तन्नृत्यं बन्धपूर्वकनृत्यकम् ।
बन्धनृत्ये विलासिन्याः प्राधान्यं तु विशेषतः ॥ २६४ ॥
इति बन्ध नृत्यम् ।
अथ कल्पनृत्यम् ।
किञ्चित्करणमाश्रित्य स्थानकं वा यथेप्सितम् ।
एषां न्यासविधिं कुर्यात्प्रायो नृत्यविचक्षणः ॥ २६५ ॥
प्रायशो गीतनृत्येतु कल्पतालौ बुधैर्मतौ ।
यतोविनाऽऽभ्यो नोभाति नृत्यं सर्वाङ्गसुन्दरम् ॥ २६६ ॥
यो गीताद्यपदस्यादौ तदन्तस्पर्शरञ्जकः ।
अपरस्यपरस्यादौ संकल्प इति कथ्यते ॥ २६७ ॥
इति कल्पनृत्यम् ।

226
यवन्याभाषया युक्तं यत्र गीतं धृताञ्चलम् ।
कौलादिगजरा युक्तं माहंगेन विभूषितम् ॥ २६८ ॥
विदध्यान्नर्तनं नानालयत्रय विचित्रितम् ।
कोमलाङ्गैर्यदानृत्यं अमर्यादिविराजितम् ॥ २६९ ॥
सशब्दादिक्रियायत ध्रुवझंपादिभेदतः ।
यत्र चेष्टाविरहितं नृत्यं तज्जकरिमतम् ॥ २७० ॥
पारसीकैः पण्डितैश्चोद्ग्राहादि स्वस्यभाषया
यद्गीतं जक्करीसंज्ञा यवनानामतिप्रियम् ॥ २७१ ॥
इति जक्करी
गीयमाने ध्रुवपदे गीतेहावमनोहरे ।
नर्तनं तनुयात्पात्रं कान्ताहास्यादिदृष्टिजम् ॥ २७२ ॥
नानागतिलसद्भाव मुखरागादिसंयुतम्
सुकुमाराङ्गविन्यासं दन्तोद्योतितहावकम् ॥ २७३ ॥
खण्डमानेन रचितं मध्ये मध्येचकम्पनम्
यत्र नृत्तं भवेदेवं द्रुपदाख्यं तदाभवेत् ॥ २७४ ॥
प्रायशोमध्यदेशीय भाषयायत्र धातवः ।
उद्ग्राह ध्रुवकाभोगास्त्रय एतेवदन्तिते ॥ २७५ ॥
उद्ग्राहवर्जितं केचित्परेत्वाभोगवर्जितम्
उद्ग्राहाभोगरहितमन्वर्थमपरेजगूः ॥ २७६ ॥

227
स्यादक्षिभ्रूविकारादि शृङ्गाराकृतिसूचकम्।
इति वैपोताख्यं नृत्यं।
अथ पेरणी।
भस्मादि श्वेतलिप्ताङ्गो बिभ्रन्मुण्डशिरश्शिखाम् ॥ २७७ ॥
आजङ्घर्धैरिकाजालजङ्घः शारीरपेशलः।
पञ्चाङ्गकुशलस्ताल कलालयविचक्षणः ॥ २७८ ॥
पद्धतामेवोच्चरन् पाटान् योनृत्यति सपेरणी।
अथ गोण्डली
वाद्यप्रबन्धैः कठिनैस्त्यक्तमेलादिभिस्तथा
गीते सालगसूडस्थैः प्रबन्धैश्चध्रुवादिभिः ॥ २७९ ॥
लास्याङ्गैरचितं यत्र नृत्यंचद्रुतमानतः।
स्वयंगायतिवाद्यंच त्रिवळींवादयेत्स्वयम् ॥ २८० ॥
तत्पात्रं गोण्डली, केचित् वादनं नास्यमन्वते।
त्रिवळीधारणं स्कन्धे ग्राम्यत्वंकुरुतेस्त्रियः ॥ २८१ ॥
अगायन्तीव शारीरा सैवस्यान्मूकगोण्डली।
इति गोण्डली
गोण्डल्यामण्डनं प्रोक्तं तदज्ञैःकर्णाटदेशजम् ॥ २८२ ॥
इति श्रीमत्पण्डितलक्ष्मीधरसुतचतुरदामोदरविरचिते
सङ्गीतदर्पणे नृत्ताध्यायः सप्तमः।
॥ समाप्तश्चायं ग्रन्थः ॥

Printed at
The Kalyan Press, Tiruchi.