सामग्री पर जाएँ
सर्वकोश
सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

Sangita Darpana of Damodara Pandita (TMSSML Edition)

दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा

DevanagariSanskritpublished258 पृष्ठ

पृष्ठ 210, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 210

179
पङ्क्तौतदङ्कयोगाङ्कं तत्कोष्ठे संभवाल्लिखेत् ॥
लेख्यपङ्क्त्युपरिश्रेणी यातिरश्चीतदाश्रिताः ।
अङ्का दलगपानांस्युराद्यकोष्ठचतुष्टये ॥
तेषु प्रस्तुतभेदस्य द्रुतादिव्यक्तिसंश्रितान् ।
अङ्कान् गृहीत तेप्यन्त्यद्वितीयाद्या द्रुतादिषु ॥
प्रस्तुतेषु विपर्यस्ताः स्युरंकाऽसम्भवेतुखं ।
त्रियोगजाश्चयेभेदा चतुर्योगभवाश्चये ॥
तत्पङ्क्तीनामपिज्ञेयमेवमेवाङ्कपूरणम् ।
किन्तु त्रियोगजाभेदा येत्वापिस्युर्द्वियोगजाः ॥
तेषां सन्निहितानां प्रागुक्तोऽङ्कविपर्ययः ।
चतुर्योगे तु चत्वारो येस्युर्भेदास्त्रियोगजाः ॥
तदङ्केष्वेव पूर्वोक्तं स्याद्विपर्यासयोजनम् !
येचत्वारस्त्रियोगाश्च चतुर्योगोऽथपञ्चमः ॥
भेदास्ते पङ्क्तिषुज्ञेयाः क्रमादन्त्यासु पञ्चसु ।
दलगा दलपाश्चेति दलपा लगपाः क्रमात् ॥
त्रियोगजाश्चतुर्योगभवा दलगपा इति ।
एष संयोगमेरुः स्यादातो ज्ञेयमिहोच्यते ॥
तिर्यक्पङ्क्तिस्थकोष्ठाङ्क स्तै स्तैस्सर्वद्रुतादयः ।
लब्धं पङ्क्तिगतामेया स्तद्भावेतुशून्यता ॥
तावद्द्भुतोऽत्र तालः स्यात् पङ्किर्यावितिथीतिरः ।
उपरिष्टात्समारभ्य संख्यापङ्क्त्यधङ्गसङ्गतेः ॥