सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

भागद्वयविनिष्क्रान्ता नन्दिका क्रियते यदि ।
तदा वदन्ति बीभत्ससंज्ञं प्रासादमत्तुमम् ॥ ५६ ॥
बीभत्सः२ ॥
यदा निर्गमविस्तारैंसमा भवति नन्दिका ।
श्रीतुङ्ग इति विज्ञेयस्तदा प्रासादसत्तमः ॥ ५७ ॥
श्रीतुङ्गः ॥
यदा त्वलिन्दकोऽस्यैव क्रियते न विनिर्गतः ।
प्रासादो मानतुङ्गाख्यस्तदानीमुपजायते ॥ ५८ ॥
मौनतुङ्गः ॥
ब्रूमोऽथ सर्वतोभद्रं दशधा तं विभाजयेत् ।
षड्विधान्या (विंशत्या) भवेज्ज्येष्ठः कनीयान् दशभिः करैः ॥ ५९॥
हस्तैस्तथाष्टादशभिर्मध्यमः परिकीर्तितः ।
कर्णा द्विभागिकाः कार्या अलिन्दाः षट्पदोन्मिताः ॥ ६० ॥
चतुर्भागानि भद्राणि वि(द्वि) भागस्तद्विनिर्गमः ।
गर्भभित्तिर्बहिर्भित्तिरन्धारी च पदं पदम् ॥ ६१ ॥
गर्भस्तु षोडशपद इत्येवं छन्द ईरितः ।
विस्तारार्धेन जङ्घा स्यान्मेखला चैकभागिका ॥ ६२ ॥
प्रथमं कल्पयेच्छृङ्गं विस्तारात् सार्धमुच्छ्रितम् ।
द्वितीयशृङ्गं तन्नाल्पं पूर्वशृङ्गस्य मध्यग॑म् ॥ ६३ ॥
प्राच्छ्रिता षडायाम्या सुरःशिखमिष्यते (?) ।
कर्तव्यं मूलशिखरं तद्द्वचोपरिशृङ्गयोः ॥ ६४ ॥
मञ्जर्या विभजेद् भागं विस्तारं दशधा बुधः ।
स्कन्धः षड्भागविस्तारो धनुर्ग्रीवाण्डकादिकम् ॥ ६५ ॥
श्रीवत्सस्येव तत् कार्य मञ्जरी भागमानतः ।
क्रमार्धं वा पञ्चसिंह ++रूपैर्विभूषिता ॥ ६६ ॥

१ द. नंदिकी। २ द. त्सं। ३ द. रा। ४ इत उनरं 'सौभाग्यादिषट्कम्' इति पदमादर्शे
लुप्तमिति पूर्वोत्तरप्रक्रमाद् विज्ञायते। ५ द. सिताः। ६ द. मं।

श्रीकूटादिषट्त्रिंशत्प्रासादलक्षणं नाम षष्टितमोऽध्यायः । ४६३
इत्युक्तः सर्वतोभद्रः + + कल्याणकारकः ।
सर्वतोभद्रः १ ॥
अलिन्दशोभितं भद्रं यदास्यैव विधीयते ॥ ६७ ॥
तदा बाह्योदरो नाम प्रासादप्रवरो भवेत् ।
बाह्योदरः ॥
यद्यलिन्दो न भवति भद्रमेकं तु निर्गतम् ॥ ६८ ॥
स्यान्निर्यूहोदरो नाम प्रासादप्रवरस्तदा ।
निर्यूहोदरः ४ ॥
यदा न तत्र भद्रं स्यान्नन्दिकानिर्गमो भवेत् ॥ ६९ ॥
भद्रैकोशं तदा ६विद्यात् षष्ठं प्रासादमुत्तमम् ।
७भद्रैकोशः ॥
सर्वतोभद्रषट्कम् ।
चित्रकूटमथ ब्रूमस्तं भजेदष्टभिः पदैः ॥ ७० ॥
कुर्यात् करेभ्योऽष्टाभ्यस्तं यावत् स्याद्धस्तविंशतिः ।
कर्णभागिकविस्ताराः शेषालिन्दतिं २विस्तृतिः (?) ॥ ७१ ॥
भद्रं चतुष्पदं १०विद्याद् भागेनैकेन निर्गतम् ।
भागेन निर्गतोऽलिन्दो भित्त्यन्धार्थः पदं पदम् ॥ ७२ ॥
द्विपदोऽस्य भवेद् गर्भ(स्तलच्छित्ति समै११श्शिख १२?)मिष्यते ।
अण्डकं भागिकं कार्यं क्रमाच्चै १३क्रमसंवृता ॥ ७३ ॥
ऊर्ध्वं द्वितीयशृङ्गस्य कर्तव्या मूलमञ्जरी ।
सप्तभागोदया प्राग्वद् भागषट्कं तथायत १४॥ ७४ ॥
प्रासादमीदृशं कुर्याच्चित्रकूटं प्रमाणतः ।
चित्रकूटः ॥
( भद्राङ्गैवविनिष्क्रां १६? ) तस्यैव यदा भवेत् ॥ ७५ ॥

१ द. प्रतौ नास्ति । २ द. तिं । ३ द. गृह । ४ द. प्रतौ नास्ति । ५ द. द्रं । ६ द. विं ।
७ समोदरनन्दिभद्रयोर्लक्षणं च्युतम् । ८ द. कः । ९ द. भ्योष्टभ्यस्तंभस्याद्धस्तविंशतिः । १० द. क ।
११ द. विं । १२ द. मं । १३ द. ॰श्च क्रमसंयुताः । १४ द. तः । १५ द. म । १६ द. क्रां ।

४६४ समराङ्गणसूत्रधारे
प्रासादो विमलो नाम तदानीमुपजायते ।
विमलः ॥
अलिन्दस्तु यदास्यैव भद्रहीनो विधीयते ॥ ७६ ॥
तदानीं हर्षणो नाम प्रासादः स विजायते ।
हर्षणः२ ॥
क्रियते तु यदास्यैव कूर्परं भागनिर्गमम्३ ॥ ७७ ॥
तदानीं भद्रसंकीर्णः प्रासादो जायते शुभः ।
३भद्रसंकीर्णः ॥
अस्यैव तु यदा भद्रं भागेनैकेन निर्गतम् ॥ ७८ ॥
भवेत् तदानीं प्रासादो नाम्ना भद्रविशालकः ।
भद्रविशालकः ।
४+++ भद्रैश्च विना यदा त्वेष विधीयते ॥ ७९ ॥
तदानीं भद्रविष्कम्भः प्रासादः स्यात् सुखप्रदः६ ।
भद्रविष्कम्भः ॥
चित्रकूटादिषट्कम् ।
चतुरश्रे समे क्षेत्रे विभक्तेऽष्टभिरष्टकैः ॥ ८० ॥
प्रासादं (चयेद्वा ?) उज्जयन्तं सुशोभनम् ।
पदमेकं भवेत् कर्णस्तिलकन्तावदेव च ॥ ८१ ॥
सभित्तिगर्भमानेन भद्रं कुर्याद् विचक्षणः ।
बाह्यभित्तिर्भवेद् भागं भागमेकं प्रदक्षिणा ॥ ८२ ॥
भागिका गर्भभित्तिश्च गर्भमध्ये९ चतुष्पदम् ।
पञ्चभागोन्मिता जङ्घा भागं तत्रैव मेखला ॥ ८३ ॥
कर्तव्यं भागिकं शृङ्गमण्डकं चार्धभागिकम् ।
द्वितीयं साण्डकं शृङ्गं तत्समं पदमध्यगम् ॥ ८४ ॥


१ द. प्रतौ नास्ति । २ द. र्मेमं । ३ द. प्रतौ नास्ति । ४ द. प्रतौ नास्ति । ५ द. भद्रैर-
लिंदैश्च । ६ द. दाः । ७ मु. पु. 'रचयेद् विद्वान्' इति पाठो भाति । द. चयेद्वा तु । ८ द. स्ता ।
९ द. ॰ध्ये । १० द. ङ्गं ।

श्रीकूटादिषट्त्रिंशत्प्रासादलक्षणं नाम षष्टितमोऽध्यायः । ४६५
मल्लुच्छाद्यं विधातव्यमुत्सेधेनार्धभागिकम् ।
पदोत्सेधं च शिखरं गर्भभित्तिसमं भवेत् ॥ ८५ ॥
भागिकः कलशः कार्यो ध्वजशं१+स्य तत्समः ।
एतस्य मूलशिखरं कुर्यात् षड्भागविस्तृतम् ॥ ८६ ॥
भागाधिकसमुत्सेधं कार्यं कल्याणमिच्छता ।
ऊर्ध्वं तिलकश्शृङ्गस्य शिखरं स्यात् पदोच्छ्रितम् ॥ ८७ ॥
पञ्चाशाद्विस्तृतं (?) शेषं श्रीवत्सस्येव कारयेत् ।
इत्येष कथितः सम्यगुज्जयन्तोऽभिधानतः ॥ ८८ ॥
कार्योऽयं ४सर्वदेवस्य प्रासादः शुभलक्षणः ।
उज्जन्तः ॥
चित्रकूटा(दू) यथोत्पन्नाः प्रासादा विमलादयः ॥ ८९ ॥
उज्जन्तात् तथा पञ्च मेरुप्रभृतयो मताः ।
मेरुश्च मन्दरश्चैव कैलासः कुम्भ एव च ॥ ९० ॥
गृहराज इति प्रोक्ताः प्रासादास्ते सुलक्षणाः ।
अष्टोत्तरमिहोद्दिष्टं प्रासादानां शतं बुधैः ॥ ९१ ॥
ज्येष्ठमध्यकनिष्ठानां साधारणां तथैव च ।
तेष्वलिन्दैर्युताः केचिद् भद्रैः केचिच्च वेष्टिताः ॥ ९२ ॥
केचिद् वर्णसमाः कार्याः प्रासादाः सर्वशोभनाः ।
सर्वेऽप्येते विधातव्या (रिजं ? ) भागप्रतिष्ठिताः ॥ ९३ ॥
क्रोणा न विषमाः कार्या वर्गभेदश्च नेष्यते ।
एकहस्ता द्विहस्ता ++++ ये प्रकीर्तिताः ॥ ९४ ॥
यक्षनारगृह्यादीनां (?) रक्षसां च भवन्ति ते ।
भागेन (धूमः ऋतु ?) त्रेधा विनिर्दिशेत् ॥ ९५ ॥
ज्येष्ठं मध्यं कनीयश्च ज्ञेयं तच्चांशमानतः ।
ज्येष्ठं सार्धत्रिहस्तं स्यात् त्रिहस्तं मध्यमं विदुः ॥ ९६ ॥
१ द. ध्वजवंशश्च तं० । २ द. पदु । ३ मु. पुस्तके 'पञ्चाशविस्तृतम्' इति स्यात् । ४ द.
सर्वदैव स्यात् प्रा० । ५ द. घु । ६ द. रिजुतामग्रं० । ७ क्ष ।
वा. ५९

सार्धहस्तद्वयमितं कनीयस्तद् विधीयते ।
त्रिहस्तं ज्येष्ठमपरं १मध्यं हस्तसमन्वितम् ॥ ९७ ॥
अर्धहस्तं कनीयश्च मानं भागस्य कीर्तितम् ।
ज्येष्ठो भागो द्विहस्तः स्यात् पादोनं मध्यमः करम् ॥ ९८ ॥
कनीयान् मध्यमार्थेन भागमानमिदं करैः ।
षडन्वितास्त्रिंशदमी विचित्राः
श्रीकूटका( यातितिथा ग्रवात् ? ) ।
प्रासादमुख्या इह षट्कप्रभेदा
भिन्ना +++ सह मण्डपैश्च ॥ ९९ ॥
इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे
श्रीकूटादिषट्त्रिंशत्प्रासादलक्षणं नाम षष्टितमोऽध्यायः ।!

अथ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः ।

इदानीं द्राविडान् ब्रूमः प्रासादाञ् शुभलक्षणान् ।
एकभूम्यादयस्ते स्युर्यावद् द्वादशभूमिकाः ॥ १ ॥
पीठान्यपि च कथ्यन्ते तेषां पञ्चैव लक्षणैः ।
तलच्छन्दाश्च पञ्चैव तेषां ये शुभलक्षणाः ॥ २ ॥
पीठमाद्यं भवेत् तेषु पादबन्धनमुत्तमम् ।
स्त्री(श्री)बन्धाख्यं द्वितीयं च तृतीयं वेदिबन्धनम् ॥ ३ ॥
प्रतिक्रममिति प्रोक्तं चतुर्थं पीठमुत्तमम् ।
पञ्चमं पीठमुद्दिष्टं नाम्ना क्षुरकबन्धनम् ॥ ४ ॥
एतानि पञ्च पीठानि प्रोक्तानीह समासतः ।
उत्सेधं भागविंशत्या विभजेत् पादबन्धने ॥ ५ ॥
१ द. र्धं । २ द. मध्यमर्हं । ३ द. ˚क˚ । मुद्रित पुस्तके ‘याः कथिता यथावद्’ इति स्यात् ।
४ द. ट्क । ५ द. पुस्तके ‘प्रासादलक्षणं’ इत्ययं पाठः नास्ति । ६ द. कः ।

पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः । ४६७
खुरकः पञ्चभागः स्याद् (द्वौ१) भागौ पद्मपत्रिका ।
भागिकी कणिका कार्या त्रिभागं कुमुदं भवेत् ॥ ६॥
कण्ठस्तु भागेनैकेन कण + श्र द्विभागिकः ।
पट्टिका भागमेकं स्याद् भागिकी पद्मपट्टिका ॥ ७॥
त्रिभागिकं कपोतं च कुर्यान्नासिकया सह ।
भागमेकं भवेच्छेद(:)पादबन्धाख्यपीठके ॥ ८॥
पद्मपत्र्याः प्रवेशः स्यात् खुरकादङ्गुलद्वयम् ।
ग्रासः षडङ्गुलस्तस्योः कुमुदं सप्तनिर्गमम् ॥ ९॥
प्रवेशमानं तावत् स्याद् यावद्दि( द्वि२)च्छेदपट्टिका ।
षडङ्गुलप्रवेशं च छेदपट्टस्य कारयेत् ॥ १०॥
समस्तैत्रं (?) विधातव्यं छेदस्य कणिकस्य च ।
निर्गमेण पुनस्तस्माद् द्वयङ्गुला कण्ठपट्टिका ॥ ११॥
अङ्गुलत्रितयं तस्याः पद्मपत्रीविनिर्गमः ।
(कपोतस्य ++++ तस्या?) स्यादङ्गुलत्रयम् ॥ १२॥
पट्टिकानां (सर्मसूत्रच्छेदानां च ७संष्ठिथः ?) ।
पादबन्धोऽयमाख्यातः श्रीबन्धः कथ्यतेऽधुना ॥ १३॥
८पीठच्छेदस्य मानं तु सप्तविंशतिधा भजेत् ।
(१०तीडवर्तिचतुर्भाग ?) द्विभागा पद्मपत्रिका ॥ १४॥
कणिकां भागिकां कुर्यात् त्रिभागं कुमुदं ततः ।
छेदमेकं पदं ११विद्याद् भागं (मेडथरार्थं ?) तथा ॥ १५॥
मकरं भागमेकं च भागं मकरपट्टिकाम् ।
छेदमेकं पदं विद्यात् कण्ठमेकं पदं तथा ॥ १६॥
पट्टिकां भागमेकं च वेदी१२ भागं ततः परा१३ ।
छेदमेकपढं कुर्यात् ततः कण्ठं द्विभागिकम् ॥ १७॥
१ द. द्वि । २ द. स्य । ३ द. सू°। ४ द. माः । ५ द. अंगुलकपोतस्य । ६ द. मं ।
७ द. संमष्ठिथः । ८ द. पीठस्थ्यो यस्य मा° । ९ द. ता । १० द. पी । ११ द. र्वि । १२ द. दीं ।
१३ द. रं ।

४६८ समराङ्गणसूत्रधारे
पट्टिका भागमेकं च +++ पद्मपत्रिका ।
कपोतं नालिकायुक्तं विदधीत पदत्रयम् ॥ १८ ॥
छेदं च भागिकं कुर्यात् पीठे^२ श्रीबन्धनामनि ।
श्रीबन्धोऽयं समाख्यातो वेदीबन्धोऽथ कथ्यते ॥ १९ ॥
भागैरेकान्नविंशत्या (^४पीठस्याच्छोतिं ?) भजेत् ।
नीडवर्तिश्चतुर्भागा ^५द्विभागा पद्मपत्रिका ॥ २० ॥
कणिकां पदिकां ^६विद्यात् कुमुदं त्रिपदं तथा ।
कुर्वीत पदिकं छेदं तदुन्मेणदँस्तरं (?) बुधः ॥ २१ ॥
भागेनैकेन मकरं तथा मकरपट्टिकाम् ।
छेदं पदं ^८++कण्ठं भागिका^९ पद्मपत्रिका^१० ॥ २२ ॥
(कर्तव्या ?) भागिकीं^११ कुर्यात् कुमुदं च त्रिभागिकम् ।
छेदमेकपदं ^१२विद्यात् ततः कण्ठं द्विभागिकम् ॥ २३ ॥
पट्टिकां भागिकीं कुर्याद् भागिकीं ^१३++पट्टिकाम् ।
द्विभागो रसनापट्टाइछादस्तु पट्टिको भवेत् (?) ॥ २४ ॥
इति प्रतिक्रमं पीठं खुरबन्धोऽथुनोच्यते ।
वि(भजेद्) भागविंशत्या पीठोच्छ्रायं विचक्षणः ॥ २५ ।
नीरवर्तिश्चतुर्भागा +++ पद्मपत्रिका ।
कणिका भागमेकं स्याद् द्विभागं कुमुदं ततः ॥ २६ ॥
(^१५भागं मेदथाक्षेपो ?) मकरो भागिकस्तथा ।
भागमेकं विधातव्या ततो मकरपट्टिका ॥ २७ ॥
(^१६छेदा मकरपदं ?) कुर्यात् कण्ठमेकं पदं ततः ।
पट्टिकां भागिकीं विद्याद् भागिकी पद्मपत्रिका ॥ २८ ॥
कपोतं त्रिपदं कुर्यात् ततो नासिकया सह ।
छेदश्च भागिकः कार्यः खुरबन्धोऽयमीरितः ॥ २९ ॥
१ द. पद्मपत्रं° । २ द. ठं । ३ द नु । ४ मुद्रित पुस्तके 'पीठकस्योच्छ्रितिम्' इति स्यात् ;
द. पीठस्यास्योच्छ्रतं । ५ द. विभा° । ६ द. र्दि । ७ द. ण्ड । ८ द. पदं । ९ द. कीं । १० द. कां ।
११ द. वां । १२ द. र्दि । १३ द. पद्म । १४ द. स्तु । १५ द. भागामडधरोक्षेपो । १६ मु. पु.
'छेदमेकं पदं' इति स्यात् ।

पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः । ४६९
पीठंपञ्चकमित्युक्तं सूत्रितं पूर्वमेव यत् ।
पीठादूर्ध्वं तु विज्ञेया प्राज्ञैः खुरवरण्डिका ॥ ३० ॥
सन्ति चान्यानि पीठानि लक्ष्मभेद़ादनेकधा ।
तेषां मध्ये प्रकृष्टत्वादेतत् पञ्चकमीरितम् ॥ ३१ ॥
प्रासादानथ वक्ष्यामस्तलच्छन्दादनन्तरम् ।
तत्र पद्मो महापद्मो वर्धमानस्तथापरः ॥ ३२ ॥
स्वस्तिकः सर्वतोभद्रः प्रासादाः पञ्च कीर्तिताः ।
चतुरश्रीकृते क्षेत्रे कर्णसूत्रं प्रसारयेत् ॥ ३३ ॥
कर्णस्यार्धं ततः कृत्वा (गर्भाद्वह् ? ) बहिर्नयेत् ।
तदग्रयोः सूत्रपातात् स्यादन्यच्चतुरश्रकम् ॥ ३४ ॥
⁴कूटं कुर्याद् द्विभागेन ( संमस्तत्राद् ? ) विचक्षणः ।
सूकराननसंस्थानं कुर्वीत सलिलान्तरम् ॥ ३५ ॥
एवं सर्वेषु कूटेसु सलिलान्तरमिष्यते ।
यदायतं भवेत् सूत्रं चतुर्भागविभाजिते ॥ ३६ ॥
गर्भो द्विभागिकस्तेन भागिका⁶ भित्तिरुच्यते ।
गर्भकर्णार्धमादाय कोणास्तं( न्तं )लाञ्छयेत् पुनः ॥ ३७ ॥
अष्टसु ++ मध्ये स्यादेवं ++++ बहिः ।
एवं पद्मतलच्छन्दो विधातव्यो विचक्षणैः ॥ ३८ ॥
महापद्मतलच्छन्दमधुना सम्प्रचक्ष्महे ।
पूर्वं यः कीर्तितश्छन्दः ( सम्पाता सूत्रयेत्कृताः ? ) ॥ ३९ ॥
¹⁰तेषु संपादयेद् ++++ दिग्विदिगन्तरे ।
कर्णार्धं दापयेत् तत्र बाह्यभागविनिर्मिता( र्गतम् ) ॥ ४० ॥
( ¹²ण्डीग्रेय्यो ? )दिशोर्मध्ये लाञ्छनं यद् व्यवस्थितम् ।
नैर्ऋतीयाम्ययोर्मध्ये तस्मात् तन्त्र¹³ प्रसारयेत् ॥ ४१ ॥

१ द. पीठ कंचपंचक° । २ द. चि । ३ द. श्य । ४ द. च । ५ द. कूटं कुर्याद्ध्यर्धेगेन सम-
सूत्राद्धिं । ६ मुद्रित पुस्तके ‘समसूत्रादि’ति स्यात् । ७ द. त्रं । ८ द. की । ९ द. मध्यमे । १० द.
तेषु संपातये द्वे खे द्वे द्वेग्विदिमं ( गं )तरे । ११ द. तां । १२ द. ऐंद्राम्रेयो दिशोमंध्ये; मुद्रित पुस्तके
‘ऐन्द्र्याग्नेय्यो’ इति पाठः स्यात् । १३ द. सूत्रं ।

४७० समराङ्गणसूत्रधारे
नैरृतीयाम्ययोर्मध्याद् वाय्वम्बुपदिगन्तरौ (रे) ।
वाय्वम्बुपदिशोर्मध्यादीशसोमदिगन्तरे१ ॥ ४२ ॥
तृतीयां +++++ कूटस्य जलान्तरम् ।
कूटयोरुभयोर्मध्ये सूक२राननसन्निभम् ॥ ४३ ॥
महापद्मतलच्छन्दः प्रोक्तोऽयं राजपूजितः ।
इदानीं वर्धमानस्य तलच्छन्दोऽभिधीयते ॥ ४४ ॥
चतुरश्रं ५भजेत् पञ्चदशधा क्षेत्रमादितः ।
कूटं३ द्विभागिकं +++++ सलिलान्तरम् ॥ ४५ ॥
पञ्जरं सार्ध ६+++ भागिकं सलिलान्तरम् ।
चतुर्भागा७ भवेच्छाला (द्विविद्ध्या र्व पञ्जरे मः ?) ॥ ४६ ॥
अर्धभागं प्रवेशस्तु शालास(स्व)८त्रं जलाध(ध्व)नः ।
अष्टाङ्गुलविनिष्क्रान्ते बाह्यतः शुभदर्शने ॥ ४७ ॥
भागपादं प्रवेशः स्यात् पञ्जरान्तज(र्ज)लाध्वै११नः ।
अर्धभागं प्रवेशस्तु ++++++++ ॥ ४८ ॥
जलान्तरं तृतीयं च कर्तव्यं भागसम्मितम् ।
अनन्तरं प्रकुर्वीत पञ्जरं सार्धभागिकम् ॥ ४९ ॥
१२भागमेकं तलच्छन्दो यथौवदमभिधीयते१३ ।
चतुरश्रं समं क्षेत्रमष्टाविंशतिधा भजेत् ॥ ५० ॥
कुर्यात् कूटं चतुर्भागं +++ सलिलान्तरम् ।
त्रिभागं पञ्जरं तद्वद् द्विभागं सलिलान्तरम् ॥ ५१ ॥
शालां षड्भागिकीं कुर्याज्जलमार्गं द्विभागिकम् ।
त्रिभागं पञ्जरं भूयश्चन्द्रशालाविभूषितम् ॥ ५२ ॥
पुनर्द्विभागिकं कुर्याच्चतुर्थं सलिलान्तरम् ।
विदधीत चतुर्भागं रथकं १४चै सुशोभनम् ॥ ५३ ॥
१ द. इतःपरं 'ईशशो मध्यादिन्द्रवह्निदिगंतरे ।' इत्यधिक पाठः । २ द. को । ३ द. भां । ४ द.
त्य । ५ द. क्षेत्रं । ६ द. भागं च । ७ द. गां । ८ द. श्व । ९ द. दे । १० द. न्न । ११ द. धनः ।
१२ वर्धमानतलच्छन्दलक्षणापरिसमाप्तावेव छन्दान्तरस्य लक्षणोपक्रमादादर्श ग्रन्थपातोऽनुमीयते । मुद्रित
पुस्तके पाठः । १३ द. दा । १४ द. वस्तु ।

पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः । ४७१
एवं दिक्षु समस्तासु समैर्भागैः प्रकल्पयेत् ।
चतुर्भागे ततः क्षेत्रे गर्भं कुर्याद् द्विभागिकम् ॥ ५४ ॥
स्वस्तिके¹ वर्धमाने च भागिक्यो भित्तयः स्मृताः ।
स्वस्तिकोऽयं तलच्छन्दः कथितोऽतिमनोहरः ॥ ५५ ॥
इदानीं सर्वतोभद्रतलच्छन्दोऽभिधीयते ।
चतुरश्रीकृते क्षेत्रे गर्भं कुर्याद् द्विभागिकँम् ॥ ५६ ॥
कुर्यात् त्रिभागिकं कूटं जलमार्गं द्विभागिकम् ।
त्रिभागिकं ततः कूटं तोयमार्गं द्विभागिकम् ॥ ५७ ॥
शालाष्टभागिकी कुर्याज्जलव(र्त्म)द्विभागिकम् ।
भूयस्त्रिभागिकं कूटं द्विभागं सलिलान्तरम् ॥ ५८ ॥
त्रिभागिकी³ च रथिका⁴ भवेद् दिक्षु (चतुर्दश?) ।
चतुरश्रीकृते(तं)क्षेत्रे(त्रम्) अष्टाविंशतिधा भजेत्⁷ ॥ ५९ ॥
कुर्यात् त्रिभागिकं कूटं चतुर्धा प्रविभाजिते ।
भागिक्यो भित्तयः कार्यास्तथा गर्भो द्विभागिकः ॥ ६० ॥
इत्येष सर्वतोभद्रस्तलच्छन्दो विधीयते ।
एते प्रोक्ता निरन्धाराः सान्धारांस्तु प्रचक्ष्महे ॥ ६१ ॥
चतुरश्रीकृतं क्षेत्रं भजेद् द्वादशभिः पदैः ।
चतुर्भागो भवेद् गर्भो भागिक्यो भित्तयः स्मृताः ॥ ६२ ॥
भागिकान्धारिका तद्वद् द्विभागा बाह्यभित्तयः ।
एवमेते तलच्छन्दाः पञ्चार्याः परिकीर्तिताः ॥ ६३ ॥
पीठान्युक्तान्येवमेतानि पञ्च
प्रासादानां नामभिर्लक्षणैश्च ।
पञ्च प्रोक्ता ये तलच्छन्दभेदा-
स्तैर्विज्ञातैः पूज्यतामेति लोके ॥ ६४ ॥
इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे
पीठपञ्चकाध्यायो नामैकषष्टितमोऽध्यायः ॥
१ द. 'केर्वे°। २ द. मू। ३ द. कां। ४ द. कीं। ५ द. कां। ६ द. र्दिशं। ७ द. भवेत्।
८ द. रा। ९ द. क्ष्म्यहे। १० द. याः।

४७४ समराङ्गणसूत्रधारे

कूटं तदूर्ध्वं कुर्वीत विचित्रं नासिकान्वितम् ।
छेदान्तं पूर्वमानेन सर्वमेतद् विधीयते ॥ २४ ॥
तस्योपरि पुनर्जङ्घा सर्वाभरणभूषिता ।
ततो मालाथ (ल) शुनं तोरणं कलशस्ततः ॥ २५ ॥
वीरगण्डस्ततो (थो) च्छालं पत्रकं वीरगण्डकः ।
हीरकं पट्टिका तद्वद्वसन्तपट्टिका पुनः ॥ २६ ॥
कपोतच्छेदमेहाश्च (मँकरोऽस्य ?) च पट्टिका ।
छेदः करपट्टिका च (?) वेदीच्छेदोऽथ कण्ठकः ॥ २७ ॥
पट्टिका पद्मपूर्वा च कर्तव्या पट्टिका ++।
ततश्छेदो विधातव्यः सर्वैराभरणैर्युतः ॥ २८ ॥
ततश्छित्त्वा तथा कार्यं यथा शोभा प्रजायते ।
पुनः कण्ठ्यं(?) प्रदातव्यः पट्टिका पद्मपट्टिका ॥ २९ ॥
ततः कण्ठं विधातव्यं चन्द्रमालाविभूषितम् (?)।
प्रकुर्वीत ततःच्छेदमपरिष्टाद् विचक्षणः ॥ ३० ॥
कण्ठपट्टिकया युक्तं तदूर्ध्वं कण्ठपट्टिकाम् ।
सप्ताङ्गुलानि कर्तव्यस्ततो घण्टाविनिर्गमः ॥ ३१ ॥
भागार्धं विस्तृतैस्तस्या विस्तारार्धं समुच्छ्रितिः ।
एवं द्विभूमिकं प्राज्ञः प्रासादं परिकल्पयेत् ॥ ३२ ॥
द्विभूमिकः ॥
त्रिभूमिकस्तृतीयोऽथ प्रासादोऽस्माभिरुच्यते ।
तस्यैकादश विस्तारो हस्तः पञ्चदशोच्छ्रयः ॥ ३३ ॥
चतुर्दशाङ्गुलान्येषां भवेदस्याधिकापि(नि) च ।
+++भूमिकस्यैतत् कर्णमानमसंशयम् ॥ ३४ ॥
पीठं द्विहस्तं कुर्वीत तत्रादौ पूर्वसूचितम् ।
जङ्घां त्रिभागिकोत्सेधां कूटोच्छ्रायं तु भागिकम् ॥ ३५ ॥

१ द. भ । २ द. ंदं मेहांश्च । ३ मुद्रित पुस्तके 'मकराख्या' इति स्यात् । ४ द. भूमिकः ।
५ द. रा । ६ द. च्छिृत्वाः ।

द्राविडप्रासादलक्षणं नाम द्विषष्टितमोऽध्यायः । ४७५
भवेजङ्घा तृतीया च सार्धभागद्वयं ततः ।
भागं च कूटप्रसरश्चन्द्रशालाविभूषितः ॥ ३६ ॥
पुनस्तृतीया जङ्घा (स्याद् भाग) द्वय (स) मुच्छ्रिता ।
नतश्च (शो ?) कू (ट) प्रस्तारो भागिको भूषणान्वितः ॥ ३७॥
भागं स्याद् वेदिबन्धः + सगुणद्वारकण्ठकः ।
चतुर्द (र्दि) शमसौ कार्यों भूषायुक्तो यथोचितम् ॥ ३८ ॥
घण्टाच्छेदस्तु भागौ३ (द्वौ) द्वयङ्गुलद्वयसंयुतौ ।
एकादशस्तरा४ (कुरु ?) स्तस्योपरि विधीयते ॥ ३९ ॥
इदानीं प्रविभागोऽस्य पीठादूर्ध्वं विधीयते ।
हस्तमेकं भवेजङ्घा (यद्येपि च ?) तया समा ॥ ४० ॥
माला तु द्विस्तरा प्रोक्ता लशुनं भागिकं ततः ।
भरणं स्तरमेकं स्यात् कलशोऽपि च तत्समः६ ॥ ४१ ॥
वीरगण्डसमायुक्तमुच्छालं द्विस्तरं ततः ।
ततस्तरं वीरगण्डो ७++++++++ ॥ ४२ ॥
हीरकं द्विस्तरं विद्यात् स (स्त) रं वासन्तपट्टिका ।
कपोतं८ नासिकायुक्तं त्रिस्तरं कारयेत् ततः ॥ ४३ ॥
छेदं प्रस्तप्रमाणं च मेढं च तत्सम्मितम् (?) ।
स्तरं कुर्वीत मकरं तदर्धेनास्य पट्टिका९ ॥ ४४ ॥
छेदं तथैव कुर्वीत कण्ठमेकंस्तरं ततः ।
पट्टिका वेदिका चैव स्तरमेकं विधीयते ॥ ४५ ॥
छेदमर्धस्तरं ११विद्यात् कण्ठं सार्धस्तरं ततः ।
पट्टिका स्यात् स्तरं पद्म स्तरमेकं ततो भवेत् ॥ ४६ ॥
शेषे१२ च सुन्दरं कण्ठं विधातव्यं(?) विचक्षणैः ।
अनन्तरं द्वितीया च जङ्घा कार्या नवस्तरा ॥ ४७ ॥
१ द. द्वि । २ द. श । ३ द. ˚ग द्वयङ्गुल˚ । ४ द. रः । ५ द. टा । ६ द. मम् । ७ द. हीरकं
द्विस्तरं ततः । पट्टसूरस्ततः कार्यस्तरमेकं च पट्टिका । वसन्त द्विस्तरं विद्यात्सरं वासन्तपट्टिकां । ८ द. ता ।
९ द. कां । १० द. कं । ११ द. विं । १२ द. षं ।

४७६ समराङ्गणसूत्रधारे
मध्ये च सा प्रकर्तव्या तदूर्ध्वं तां विभाजयेत् ।
ततस्तरं भवेच्छाला स्तरार्धं लशुनं ततः ॥ ४८ ॥
तथैव भरणं ज्ञेयं पूर्वनिर्दिष्टलक्षणम् ।
वीरगण्डेन सहितः कलशोऽपि तथा भवेत् ॥ ४९ ॥
पद्मपत्रिकया युक्तं स्तरमुच्छालकं विदुः ।
वीरगण्डं स्तरं विद्यादर्धभागं च हीरकम् ॥ ५० ॥
पट्टं तथैव कुर्वीत स्तरस्यार्धेन पट्टिका ।
वसन्तः स्तरमेकं स्याद् स्तरं वासन्तपट्टिका ॥ ५१ ॥
कपोतं त्रिस्तरं कुर्यान्नासिकासहितं बुधः ।
छेदमर्धस्तरं विद्यान्मेढं तत्तुल्यमेव च ॥ ५२ ॥
मकरं स्तरमेकं च भागार्धं पट्टिकां ततः ।
³भागमेकं भवेच्छेदः स्तरं कण्ठस्तदूर्ध्वतः ॥ ५३ ॥
पट्टिका वेदिका चैव स्तरमेकं विधीयते ।
छेदं भागार्थिकं कुर्यात् कण्ठकं सार्धभागिकम् ॥ ५४ ॥
भागेन पट्टिकां कुर्यात् तथा कमलपत्रिकाम् ।
कूटं ततः परं कुर्यान्नासिका च (सु) विभूषितम् ॥ ५५ ॥
तृतीयजङ्घामद्वा (तद्वत्) स्याच्चतुर्भिः कल्पिता स्तरैः ।
स्तरमेकं भवेन्माला स्तरं च लशुनं विदुः ॥ ५६ ॥
भरणं स्तरमेकं च कुम्भमेकस्तरं तथा ।
वीरगण्डसमोपेतमुच्छालं स्यात् तदूर्ध्वतः ॥ ५७ ॥
स्तरमेकं प्रकुर्वीत वीरगण्डसमु(च्छ्रि)तिम् ।
ततश्च हीरकं कुर्याद् भागेनैकेन बुद्धिमान् ॥ ५८ ॥
सार्धभागेन पट्टिः⁴ स्यात् पट्टिकार्थं स्तरं तथा ।
स्तरमेकं वसन्तं स्यात् स्तरं वासन्तपट्टिका ॥ ५९ ॥
कपोतो द्विस्तरश्छेदोऽर्धस्तरो मेण्ढकः स्तरः ।
भागिको मकरः कार्यः पट्टिका चार्धभागिकों ॥ ६० ॥


१ द. ण्ड । २ द. कां । ३ द. ‘भागमेकं......सार्धभागिकम्’ इति पाठः नास्ति । ४ द. ट्टः ।
५ द. की ।

द्राविडप्रासादलक्षणं नाम द्विषष्टितमोऽध्यायः । ४७७
('मेदो ?)ऽर्धभागिको भागमेकं कण्ठः प्रकीर्तितः ।
पट्टिकावेदिका( भेदा ? )स्त्रयोऽप्यर्धस्तरं पृथक् ॥ ६१ ॥
कण्ठश्चार्धस्तरः कार्यः पीठिका चार्थभागिका ।
अर्धभागेन कर्तव्या तदूर्ध्वं पद्मपत्रिका ॥ ६२ ॥
विचित्रलक्षणोपेतं ततः कूटं विधीयते ।
स्तरमेकं भवेच्छेदः स्यात् कण्ठोऽप्येवमेव ( च ?) हि ॥ ६३ ॥
पट्टिका स्तरमेकं स्यात् ततो वेदी स्तरद्वयम् ।
छेदः स्तरं भवेद् भूयः कण्ठः स्याद् द्विस्तरं³ ततः ॥ ६४ ॥
कर्तव्ये स्तरमेकैकं पट्टिका पद्मपत्रिका४ ।
घण्टा ततःक( प )रं कार्या मानतो विंशतिस्तरा ॥ ६५ ॥
एकादशस्तरः कुम्भः सर्वेषां सर्वतो भवेत् ।
त्रिभूमिकोऽयमाख्यातश्चतुर्भूमिरथोच्यते ॥ ६६ ॥
त्रिभूमिकः ॥
हस्तान् पञ्चदश क्षेत्रं ५विस्तारा( त्तु )प्रकल्पयेत् ।
उच्छ्रायेण६ तु हस्तानां स्यात् ( पादैकविंशतिः ? )७ ॥ ६७ ॥
द्विहस्तं कारयेत् पीठं जङ्घां हस्तत्रयोच्छ्रिताम् ।
सार्धहस्तं भवेत् कूटं सर्वालङ्कारभूषितम् ॥ ६८ ॥
द्वितीयजङ्घा कर्तव्या पादहीनं करत्रयम् ।
सपादहस्तं कुर्वीत कूटमन्यत् तदूर्ध्वतः ॥ ६९ ॥
तृतीयजङ्घा कर्तव्या सार्धं हस्तद्वयं ततः ।
ततश्च कूटप्रस्तारो हस्तमेकं विधीयते ॥ ७० ॥
९जङ्घा चतुर्थी कर्तव्या सार्धहस्तद्वयं ततः ।
ततश्च कूटप्रस्तारो हस्तमेकं विधीयते ॥ ७१ ॥
जङ्घा चतुर्थी कर्तव्या सपादद्विकरोच्छ्रितां८ ।
हस्तं च कूटप्रस्तारो वेदीबन्धस्तथाविधः ॥ ७२ ॥

१ द. 'मेदो ?......चार्धभागिका' इति पाठः नास्ति । २ द. त्रं । ३ द. रस्ततः । ४ द. के । ५ द. विस्तारेण प्र° । ६ द. च्छ्र । ७ मुद्रित पुस्तके 'पादोनैकविंशतिः' इति स्यात् । ८ द. त ।
९ द. 'जङ्घा......विधीयते ॥' इति पाठः नास्ति । १० द. ताः ।

४७८ समराङ्गणसूत्रधारे
गर्भार्धविस्तृता घण्टा कार्या हस्तत्रयोच्छ्रिता ।
चतुर्दशस्तरः कुम्भः सर्वेषामुपरि स्थितः ॥ ७३ ॥
सूचिका(ता)हस्तसङ्ख्यैषा विभागः कथ्यतेऽधुना ।
पीठं हस्तद्वयोत्सेधं जङ्घालङ्कृतिरुच्यते ॥ ७४ ॥
दशभागो १भवेदेकमुच्छालं द्विस्तरं ततः ।
वीरगण्डं स्तरं विद्याद् द्विस्तरं हीरकं भवेत् ॥ ७५ ॥
पट्टस्तथैव विज्ञेयो(त्सेधकी ?)पट्टिका ततः ।
वसन्तं द्विस्तरं ++++ वासन्तपट्टिका ॥ ७६ ॥
कपोतस्त्रिस्तरः कार्यों भागं छेदो विधीयते ।
मेढं स्तरं प्रकुर्वीत २स्तरं कण्ठस्य पट्टिका ॥ ७७ ॥
३कुर्वीत भागिकीं देवा(वेदीं)ततच्छे(छे)दे च भागिकम् ।
पुनः कण्ठं प्रकुर्वीत द्विस्तरं पट्टिकां ततः ॥ ७८ ॥
स्यात् पद्मपत्रिकाय्येवं घण्टा पञ्चस्तरा ततः ।
विचित्रं लक्षणोपेतं ततः कुम्भं निवेशयेत् ॥ ७९ ॥
जङ्घास्तम्भं द्वितीया(याँ) विदध्यादष्टभागिकम् ।
मालां ४+ द्विस्तरं कुर्याद् भागिकं ५त(ल)शुनं ततः ॥ ८० ॥
भर(णं) स्तरमेकं च कलशं तत्प्रमाणतः ।
वीरगण्डेन संयुक्तं (७तावांश्रो ?)च्छालकं भवेत् ॥ ८१ ॥
द्विस्तरं तन्तु विज्ञेयं वीरगण्डः स्तरं भवेत् ।
हीरकं द्विस्तरं विद्यात् पद्मं८ चैव तथाविधम् ॥ ८२ ॥
पट्टिका स्तरमेकं स्याद् वसन्तं द्विस्तरं ततः ।
वसन्तपट्टिकां भागं कपोतं त्रिस्तरोच्छ्रितम् ॥ ८३ ॥
कुर्वीत भागिकं (९भेदं ?) स्तरमेकं च मेढकम् ।
मकरं स्तरमेकं च तथा मकरपट्टिकाम् ॥ ८४ ॥
१ द. इतः पूर्वं 'भवेत् स्तंभो मालाबुद्धितस्तरा ततः । एकस्तरंस्याल्लशुनं भरणं सूरमेव च ॥
कुंभस्तरं' इति अधिकः पाठः । २ द. इतः पूर्वं 'मकरं च तथाविधि ॥ पट्टिकां स्तरमेकं च छेदं
कुर्वीत भागिकं । कंठं तथैव कुर्वीत' इति अधिकः पाठः । ३ द. कुर्वीत भागिकी देवी संध्यां ततः छेदं
च भागिकां । ४ द. या । ५ द. ला तु । ६ द. ते । ७ द. ततो । ८ द. टं । ९ द. छेद ।

द्रविडप्रासादलक्षणं नाम द्विषष्टितमोऽध्यायः । ४७९
भेदः स्तरं भवेत् कण्ठः स्तरं भागं च पट्टिका ।
वेदिका स्तरमेकं च च्छेदमर्धेन कारयेत् ॥ ८५ ॥
कण्ठं सार्धस्तरं कुर्यात् स्तरमेकं च पट्टिकाम् ।
आभा(अम्भो)जपत्रिकां भागं कुर्याद् घण्टां चतुःस्तराम् ॥ ८६ ॥
प्राग्ग्रीवभूषिता सा स्यात् कुम्भं कुर्यात् तदूर्ध्वतः ।
जङ्घास्तम्भस्तृतीयायां सप्तांशश्चतुर^१+कः ॥ ८७ ॥
ततो मालाथ लशुनं भरणं कुम्भकाण्डकौ ।
उच्छांलं गण्डको हीरं प्रत्येकं स्युः स्तरं स्तरम् ॥ ८८ ॥
पैद्मं सार्धस्तरं विद्याद् भागेऽर्धे पट्टिकां तथा ।
भागमेकं वसन्तः स्याद् भागं वासन्तपट्टिका ॥ ८९ ॥
कपोतं त्रिस्तरं कुर्याच्छेदमेकस्तरं ततः ।
ततश्च मे(ढैंकं^३ मरं ?) विदधीत स्तरं स्तरम् ॥ ९० ॥
तत्पट्टिका तु भागार्धं (४भेदं ?) भागार्धमेव च ।
कण्ठो वेदि पट्टिका (च) त्रीण्येतानि स्तरं स्तरम् ॥ ९१ ॥
स्तरस्यार्धं भवेच्छेदः कण्ठः सार्धस्तरं ततः ।
भागार्धं पट्टिका कार्या तावती पद्मपत्रिका ॥ ९२ ॥
चतुर्भागा भवेद् घण्टा गुणद्वारसमन्विता ।
द्विस्तरं कारयेत् कुम्भं घण्टायाः स्थितमूर्ध्वतः ॥ ९३ ॥
एवं भूमिस्तृतीयेषा चतुर्थी कथ्यतेऽधुना ।
कर्तव्या(पट्टरा ?)जङ्घा महास्तम्भसमन्विता ॥ ९४ ॥
मालाथ लशुनं तद्वद् भरणं कुम्भ एव च ।
उच्छांलं गण्डकं हीरमिति प्रा^६+पृथक् पृथक् ॥ ९५ ॥
सार्धभागं भवेत् पादः(पट्टः) पट्टिकार्धस्तरं ततः ।
वसन्तं (स्तै)रमेकं स्यात् तत्संज्ञः(?) पट्टिका स्तरमं ॥ ९६ ॥
कपोतं द्विस्तरं विद्याच्छेदं चार्धस्तरं ततः ।
मेढं तथैव कुर्वीत मकरं च स्तरं बुधः ॥ ९७ ॥
१ द. र्थो । २ द. पट्टस्यार्द्धं । ३ मु. पु. ‘ढं मकरम्’ इति स्यात् । ४ द. छे । ५ द. मे ।
६ द. क् । ७ द. ह । ८ मु. पु. ‘तत्संज्ञा’ इति स्यात् । ९ द. रा ।

पट्टिकां मकराख्यां च छेदमेकस्तरं विदुः ।
स्तरमेकं भवेत् कण्ठः स्तरस्यार्धं च पट्टिका ॥ ९८ ॥
तथैव वेदिकां कुर्याच्छेद मर्धस्तरं पुनः ।
सार्धभागं प्रकुर्वीत कण्ठदेशं विचक्षणः ॥ ९९ ॥
पट्टिका (मंध ?)संज्ञा तु स्तरमेकं विधीयते ।
घण्टा स्तरद्वयं कार्या गुणद्वारविभूषिता ॥ १०० ॥
कुम्भं विदध्यादुपरि द्विस्तरं पङ्कजाननम् ।
भागमेकं भवेच्छेदस्ततः कण्ठः स्तरद्वयम् ॥ १०१ ॥
पट्टिका स्तरमेकं तु वेदिका तु स्तरावुभौ ।
पुनश्छेदो भवेद् भागं + + कण्ठो विधीयते ॥ १०२ ॥
पट्टिका स्तरमेकं तु तदूर्ध्वम्भोजपत्रिका ।
स्तराणां विंशतिर्घण्टा भवेद् गर्भार्धविस्तृता ॥ १०३ ॥
चन्द्रशालाश्च कर्तव्या दर्शनीयाश्चतुर्दिशम् ।
एवं पद्मे महापद्मे स्वस्तिके वर्धमानके ॥ १०४ ॥
तथैव सर्वतोभद्रे कुर्याद् घण्टामिमां बुधः ।
कुम्भं तु पञ्चदशभिः स्तरैः कार्या(कुर्यात्) समुन्ननम् ॥ १०५ ॥
स्याच्चतुर्भूमिको ह्येवं तलच्छन्दस्तु कामतः ।
चतुर्भूमिकाः ॥
पञ्चभौममथ ब्रूमः प्रासादं राजपोजितम् ॥ १०६ ॥
विस्तारेण विधातव्यः स हस्त्व(स्ता)नैकविंशतिम् ।
विभाजयेत् तथोत्सेधं पादोनँस्त्रिशतं करान् ॥ १०७ ॥
पीठं भागद्वयं सार्धं जङ्घा (साराग्ना ?)त्रिभागिकी ।
कुर्वीत कूटप्रस्तारं ३ सार्धहस्तं च बुद्धिमान् ॥ १०८ ॥
जङ्घा द्वितीया कर्तव्या हस्तत्रितयमुच्छ्रिता ।
भूयोऽपि कूटप्रस्तारं सार्धहस्तं प्रकल्पयेत् ॥ १०९ ॥
१ मु. पु. 'पद्म' इति स्यात् । २ द. का । ३ द. स्ता । ४ द. नं । ५ द. र ।

द्राविडप्रासादलक्षणं नाम द्विषष्टितमोऽध्यायः । ४८१
जङ्घा तृतीया कर्तव्या पादहीनं करत्रयम् ।
सार्धहस्तसमुत्सेधः कूटप्रस्तार इष्यते ॥ ११० ॥
चतुर्थभूमिजङ्घा च सार्धहस्तद्वयोच्छ्रिता ।
कूटप्रस्तारकं कुर्यात् पूर्वमानेन बुद्धिमान् ॥ १११ ॥
पञ्चम्यां भुवि कुर्वीत (जङ्घा सा?) हि करद्वयम् ।
कुर्वीत कूटप्रस्तारं तथा प्रागा(गु)दितो यथा ॥ ११२ ॥
कुर्याद्धस्तद्वयोत्सेधं कपोतमपि बुद्धिमान् ।
चतुर्भागसमुत्सेधा महागघण्टा विधीयते ॥ ११३ ॥
उपरिष्टाद् भवेत् तत्र³ प्रासादे पञ्चभूमिके ।
कुम्भं तदूर्ध्वं कुर्वीत स्तरान्नैकोनविंशतिम् ॥ ११४ ॥
संस्थानमेतत् कर्तव्यं सर्वतोभद्रसंज्ञकौ(के) ।
विभाजयेद् विशेषेण ततः स्तरविभाजनात् ॥ ११५ ॥
श्रीबन्धै पीठं कर्तव्यं सार्धहस्तद्वयोच्छ्रितम् ।
चतुर्दशस्तरं जङ्घा कर्तव्या स्तम्भसंयुता⁵ ॥ ११६ ॥
कर्तव्या द्विस्तरा माला लशुनं स्तरसम्मितम् ।
विदधीत स्तरं पद्मकुम्भगण्डसमन्वितम्(?) ॥ ११७ ॥
उच्छाालं द्विस्तरं कुर्या(६दिडो?) भागं विधीयते ।
द्विस्तरं हीरकं कार्यं पट्टांश्चैव तथाविधाः ॥ ११८ ॥
पट्टिको स्तरमेकं च वसन्तं द्विस्तरं ततः ।
वसन्तपट्टिका भागं कपोतं त्रिस्तरं ततः ॥ ११९ ॥
छेदमेकस्तरं कुर्यात् स्तरमात्रं च मेठंकम् ।
मकरं भागमेकं च भागं (वैराल?)पट्टिका(म्) ॥ १२० ॥
कुर्वीत भागिकं छेदं ततः कण्ठं च भागिकम् ।
कण्ठं छेदं ततः कण्ठं च ++++ भागिकम् ॥ १२१ ॥
१ द. प । २ द. सात्र । ३ द. न्न । ४ द. न्थं पीठ । ५ मु. पु. श्लोकान्ते 'पुनर्भूषणैः'
इत्यधिकं पठ्यते । द. पुनर्भूषयितव्या सा सर्वैरपि विभूषणैः । इत्यधिकं पठ्यते । ६ द. द्रण्डो । ७ द. ट्ट ।
८ द. धः । ९ द. कां । १० द. मेडुकं । ११ द. वा । १२ द. पुस्तके 'कण्ठं छेदं......भागिकम्'
इत्ययं पाठः नास्ति ।
वा. ६१

४८२ समराङ्गणसूत्रधारे

( वोख्यापट्टिकां १? ) भागं वेदीं विचक्षणः ।
कुर्वीत भागिकं छेदं ततः कण्ठं स्तरद्वयम् ॥ १२२ ॥
स्तरं स्तरं प्रकुर्वीत पट्टिका पद्मपट्टिका ।
कूटप्रस्तारके कुर्यान्मकराननपञ्चकम् ॥ १२३ ॥
विचित्ररूपं सर्वासु दिक्षु सर्वगुणान्वितम् ।
ऊर्ध्वतः पट्टिकायास्तु घण्टा पञ्चस्तरा भवेत् ॥ १२४ ॥
नासिकाभिर्विचित्राभिरत्युदाराभिरन्विता ।
भद्राणि यस्य दृश्यन्ते कूटे कूटे समन्ततः ॥ १२५ ॥
स सर्वतोभद्र इति प्रासादः शिल्पिनां मतः ।
अवलम्बेन तदनु स्तम्भच्छेदं प्रकल्पयेत् ॥ १२६ ॥
स्तम्भत + + +^२ त्रेण समानं भुवि सूत्रयेत् ।
^३मेढस्य निर्गमे^४ दद्यादङ्गुलैद्वितयं बुधः ॥ १२७॥
पञ्चाङ्गुलानि कर्तव्यस्ततो मकरनिर्गमः ।
सूत्रयेत् समसूत्रेण ततो मेढंक( स्य ? ) पट्टिका ॥ १२८ ॥
षडङ्गुलप्रवेशस्तु कार्यश्छेदस्य धीमता ।
यथा प्रवेशं + + + छेदस्यापि तथा भवेत् ॥ १२९ ॥
अङ्गुलद्वितयं कार्यः पट्टिकाया विनिर्गमः ।
विनिर्गमो वेदिकाया विधातव्यः षडङ्गुलः ॥ १३० ॥
अङ्गुलद्वयनिष्क्रान्ता विधेया कण्ठपट्टिका ।
पद्माख्यानिर्गमं कुर्यादङ्गुलत्रितयं ततः ॥ १३१ ॥
अङ्गुलानि ततः पञ्च योनि + निर्गमो भवेत् ।
घण्टा त्विह विधातव्या सर्वालङ्कारभूषिता ॥ १३२ ॥
( ^५भेद ? )स्ततः स्याद् भवति भूमिका तस्य चोपरि ।
द्वितीया( य )भूमिकाजङ्घा ( सद्यः ? ) स्यादष्टभिः स्तरैः ॥ १३३ ॥
मालाद्यैर्लशुनं चैकं भरणं कलशस्तथा ।
यथा माला तथोच्छां वीरगण्डं स्तरं भवेत् ॥ १३४ ॥
१ द. कंठाख्यपट्टिका भागं । २ द. सू । ३ द. में । ४ द. में । ५ द. लं । ६ द. में ।
७ द. रुंछं । ८ द. शः । ९ द. छे ।

द्राविडप्रासादलक्षणं नाम द्विष्टितमोऽध्यायः । ४८३
उच्छांलहीरके पट्टसमे कुर्याद् विचक्षणः ।
पट्टिका भागिकोत्सेधा वासन्तं ++ का तथा ॥ १३५ ॥
कपोतं त्रिस्तरोत्सेधं (१छेदो ?) सञ्यंशवर्जितम् ।
छेदस्यार्धे३ भवेन्मेढो मकरः पट्टिका तथा ॥ १३६ ॥
ततश्छेदं (च) कण्ठं च +++ पट्टिकां तथा ।
मालार्धेन प्रकुर्वीत च्छेदमेव ततो बुधैः ॥ १३७ ॥
पुनः कण्ठं प्रकुर्वीत हीरकेगो(ण) समन्वितम् ।
पट्टि(का) पद्मपूर्वा च त्रिभागो(गे)न कपोतके ॥ १३८॥
कुर्याच्चतुःस्तरां घण्टां द्वाभ्यां कुम्भं तथोपरि ।
पुनश्छेदो भवेद् भागं जङ्घां कुर्वीत सप्तभिः ॥ १३९ ॥
(६सीतमाठा ?) विधातव्या मालोच्चु(चो) द्विस्तरो भवेत् ।
लशुनं भरणं कुम्भो गण्डश्चेति स्तरं स्तरम् ॥ १४० ॥
गण्डद्विगुणमुच्छालं हीरपट्टस्तथैव च ।
पट्टिका स्तरमेकं स्याद् वसन्तपट्टिकास्य च ॥ १४१ ॥
९पीठं द(श)गुणं कुर्याच्छेद्मेष्ठौ१० स्तरं स्तरम् ।
स्तरं कुर्वीत (११रौकर ?) (तथा) मकरपट्टिकाम् ॥ १४२॥
स्तरं छेदं च कण्ठं च पट्टिकां वेदिकां तथा ।
छेदं कुर्यात् पुनर्भागं कण्ठं तद्विगुणं ततः ॥ १४३॥
पट्टिका स्तरमेकं स्याद् वसन्तपट्टिका स्तरम् ।
चतुःस्तरा भवेद् घण्टा (१२प्राग्ग्राचकभूषिता ?) ॥ १४४ ॥
तस्योपरि पुनः कुम्भं घण्टार्धेनैव कारयेत् ।
छेदं१३ भागं विजानीयाज्जङ्घा सप्तांशिका स्मृता ॥ १४५ ॥
माला द्विभागिका कार्या भागिकं लशुनं१५ भवेत् ।
भरणं कुम्भकं गण्डं कुर्याल्लशुनवद् बुधः ॥ १४६ ॥
१ द. छं । २ द. तः । ३ द. र्धं । ४ द. में । ५ द. धैः । ६ द. सा तु माय । ७ द. माला
बुद्धिस्तरा भवेत् । ८ द. न्तं । ९ द. कपोतं । १० द. ष्ठो । ११ द. राकारं । परन्तु मुद्रित पुस्तके
तु 'मकरम्' इति स्यात् । १२ द. ष्टा प्राग्रीवकभूषितां; मुद्रित पुस्तके 'प्राग्रीवकविभूषिता' इति
स्यात् । १३ द. द । १४ द. की । १५ द. ना ।