सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 535, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 535

४७४ समराङ्गणसूत्रधारे

कूटं तदूर्ध्वं कुर्वीत विचित्रं नासिकान्वितम् ।
छेदान्तं पूर्वमानेन सर्वमेतद् विधीयते ॥ २४ ॥
तस्योपरि पुनर्जङ्घा सर्वाभरणभूषिता ।
ततो मालाथ (ल) शुनं तोरणं कलशस्ततः ॥ २५ ॥
वीरगण्डस्ततो (थो) च्छालं पत्रकं वीरगण्डकः ।
हीरकं पट्टिका तद्वद्वसन्तपट्टिका पुनः ॥ २६ ॥
कपोतच्छेदमेहाश्च (मँकरोऽस्य ?) च पट्टिका ।
छेदः करपट्टिका च (?) वेदीच्छेदोऽथ कण्ठकः ॥ २७ ॥
पट्टिका पद्मपूर्वा च कर्तव्या पट्टिका ++।
ततश्छेदो विधातव्यः सर्वैराभरणैर्युतः ॥ २८ ॥
ततश्छित्त्वा तथा कार्यं यथा शोभा प्रजायते ।
पुनः कण्ठ्यं(?) प्रदातव्यः पट्टिका पद्मपट्टिका ॥ २९ ॥
ततः कण्ठं विधातव्यं चन्द्रमालाविभूषितम् (?)।
प्रकुर्वीत ततःच्छेदमपरिष्टाद् विचक्षणः ॥ ३० ॥
कण्ठपट्टिकया युक्तं तदूर्ध्वं कण्ठपट्टिकाम् ।
सप्ताङ्गुलानि कर्तव्यस्ततो घण्टाविनिर्गमः ॥ ३१ ॥
भागार्धं विस्तृतैस्तस्या विस्तारार्धं समुच्छ्रितिः ।
एवं द्विभूमिकं प्राज्ञः प्रासादं परिकल्पयेत् ॥ ३२ ॥
द्विभूमिकः ॥
त्रिभूमिकस्तृतीयोऽथ प्रासादोऽस्माभिरुच्यते ।
तस्यैकादश विस्तारो हस्तः पञ्चदशोच्छ्रयः ॥ ३३ ॥
चतुर्दशाङ्गुलान्येषां भवेदस्याधिकापि(नि) च ।
+++भूमिकस्यैतत् कर्णमानमसंशयम् ॥ ३४ ॥
पीठं द्विहस्तं कुर्वीत तत्रादौ पूर्वसूचितम् ।
जङ्घां त्रिभागिकोत्सेधां कूटोच्छ्रायं तु भागिकम् ॥ ३५ ॥

१ द. भ । २ द. ंदं मेहांश्च । ३ मुद्रित पुस्तके 'मकराख्या' इति स्यात् । ४ द. भूमिकः ।
५ द. रा । ६ द. च्छिृत्वाः ।