समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
विमानादिचतुष्षष्टिप्रासादलक्षणं नामैकोनषष्टितमोऽध्यायः । ४३९
मुक्तकोणे यथा तच्च भेदः कर्मविभेदनात् ।
चतुरश्रे स्मृतो¹ मध्ये कर्णशृङ्गे विचक्षणैः ॥ ५९ ॥
नलिनः ॥
ब्रूमोऽथ मणिकं तस्य शालालिङ्ग(न्द)समुद्गता ।
अलिन्दकार्धसीमायां सर्वतः स्याच्चतुष्किका ॥ ६० ॥
श्रेयःपुष्टिसुखार्थोऽयं मणिकोऽत्र विमानवत् ।
दशधा क्षेत्रसीम्नः स्याद् विभागः सर्वतोदिशम् ॥ ६१ ॥
रथ ³+ कर्णिकार्धं च जलवर्त्माथ भद्रकम् ।
मूलगर्भस्तथोत्सेधो घण्टा स्तम्भान्तविस्तृता ॥ ६२ ॥
भूमिजङ्घासमुत्सेधः कपोताद् द्वारनिर्गमः ।
सिंहकर्णा विमानानि स्तम्भचित्रादिकास्तथा ॥ ६३ ॥
तोरणान्यथ माल्यानि तस्यालङ्करणानि च ।
नीलोत्पलदलाकारा मञ्जर्यः सर्वशोभनाः ॥ ६४ ॥
विमानमपरं ह्येतद् योनिरेकैस्तयोर्द्वयोः ।
केवलं भद्रभेदेन मणिको⁴ द्राविडोऽप्ययम् ॥ ६५ ॥
मणिकः ॥
प्रासादमथ वक्ष्यामो गरुडं सर्वसुन्दरम् ।
दशधा क्षेत्रविस्तारं तस्य पूर्वं विभजयेत् ॥ ६६ ॥
द्वौ भागौ रथिकाः कार्या मूलकर्णाद् विनिस्स्रुताः ।
भद्रं षड्(भाग)विस्तारं पक्षवंशादिभेदितम् ॥ ६७ ॥
अलिन्दनिर्गमः कार्यः⁶ सीमार्थेन चतुर्दिशम् ।
मूलसीमा तु कर्तव्या सलिलान्तरवर्जिता⁷ ॥ ६८ ॥
स्यान्मूलसीमविस्तारात् स्कन्धः स्याद् द्विगुणोच्छ्रितिः ।
प्रासादस्य समुच्छ्रायात् त्रिभागेन समेखलाम् ॥ ६९ ॥
जङ्घामन्तरपत्रेण (९कुं+युक्तं कुर्व्वस्तनसा ?) ।
जी(ही)रकं वेदिबन्धं च भागत्रयसमुच्छ्रितम् ॥ ७० ॥
१ द. ˚ते मध्यः । २ द. ˚त्रे । ३ द. कं । ४ द. का तयोर्द्वयोः । ५ द. का द्र˚ । ६ द. र्याः ।
७ द. ताः । ८ द. ला । ९ द. कुं युक्तं कुर्वीत सो ।
४४० समराङ्गणसूत्रधारे
अलिम्बा(न्दा)नां समुत्सेधं शे(शि)खरार्धेन कारयेत् ।
षड्भागं स्कन्धविस्तारं विदधीत विचक्षणः ॥ ७१ ॥
ग्रीवार्धभाग(मुत्से)धाद् भागमामलसारकम् ।
कुमुदं चार्धभागेन कुम्भः स्यादेकभागिकः ॥ ७२ ॥
गरुडः ॥
अथोच्यते वर्धमानो दशधा तं विभाजयेत् ।
पादोनांशद्वयं कुर्यात् पार्श्वयोः कर्णविस्तृतिम् ॥ ७३ ॥
सपादपदविस्तारौ रथकौ वामदक्षिणौ ।
चतुर्भागोन्मितं भद्रं विस्तारेण प्रकीर्तितम् ॥ ७४ ॥
विस्तारो(राद्) द्विगुणोच्छ्रायं स्कन्धं यावत् प्रकल्पयेत् ।
खुरकस्याथ जङ्घाया मञ्जरीस्कन्धयोरपि ॥ ७५ ॥
ग्रीवामलसारकादेः प्रमाणं गरुडे यथा ।
वर्धमानः ॥
द्वाविंशतिकरायामः शङ्खावर्तोऽथ कथ्यते ॥ ७६ ॥
मूलसीमावृत्तनाहस्तस्य स्यात् पद्मके यथा ।
भित्तिगर्भस्य विस्तारः (पादेनार्धनवकमात् ? ) ॥ ७७ ॥
अलिन्दमग्रतः कुर्यात् सिंहकर्णविभूषितम् ।
उत्सेधत्र्यंशतो जङ्घा (वेद्यं ?) तत्र विभागतः ॥ ७८ ॥
आस्कन्धं वेदिकाबन्धाद् विस्तृतेर्द्विगुणोच्छ्रितिः ।
मेखलान्तरपत्रं च जङ्घामध्ये विधीयते ॥ ७९ ॥
भ्रमयेत् कर्णसूत्रेण बहिर्वृत्तं समन्ततः ।
कर्णदिक्पालयोर्मध्यं वृत्तसूत्रेण वर्तयन्(येत्) ॥ ८० ॥
अवशिष्टं त(ल)च्छन्दं स्वस्तिकस्येव कारयेत् ।
ग्रीवा(में)मलसारं च कलशं वारिनिर्गमम् ॥ ८१ ॥
कुर्वीत स्वस्तिकस्येव विस्तारोत्सेधमानतः ।
शू(मू)लसीमानुसारेण च्छेदे संचरणं भवेत् ॥ ८२ ॥
१ द. तथा मुद्रित पुस्तकेऽपि ‘पादेनार्धेन च क्रमात्’ पाठः । २ द. ण । ३ द. मा ।
विमानादिचतुष्षष्टिप्रसादलक्षणं नामैकोनषष्टितमोऽध्यायः । ४४१
तद्रूपमेव लतिनं वर्तयेद् वलनाकृतिम्¹ ।
शङ्खावर्तः ॥
ब्रूमोऽथ पुष्पकं स स्याद् विमानसदृशाकृतिः ॥ ८३ ॥
तावत्प्रमाणस्तद्वृद्धिः पञ्चभूश्चतुरश्रकः ।
(विमानेन मानयुक्त ?) यन्मञ्जर्या यच्च लक्षणम् ॥ ८४ ॥
तत् कार्यमत्र मञ्जर्या नतु कार्य जलान्तरम् ।
पुष्पकः ॥
गृहराजमथ ब्रूमः स स्यात् कैलाससन्निभः ॥ ८५ ॥
विटङ्कनिर्गमाधारनिर्यूहैः सर्वतो वृतः³ ।
वलभ्या भूषितो मध्ये गवाक्षद्वारसंयुतः ॥ ८६ ॥
कपोतस्तम्भपर्यन्तः शाला(ल)भञ्जीविराजितः ।
वेदिकाखण्डजालाद्यं क++ परितो भवेत् ॥ ८७ ॥
(कुर्वीत ?) मल्लकैश्छाद्यैः सिंहकर्णैश्च भूषितः ।
अलिन्दभेदतः प्राहु(गृह)राजमितं(मं) बुधाः ॥ ८८ ॥
कैलासस्येव संस्थानं स्यादस्योर्ध्वमधोऽपि च ।
गृहराजः ॥
ब्रूमोऽथ स्वस्तिकं तस्य पूर्ववन्मानलक्षणम् ॥ ८९ ॥
तेनैव लतिनं सर्वं कुर्वीतैवं विचक्षणः ।
यथा मूले विभक्ताः स्युर्लतिनैस्वस्तिकादयः ॥ ९० ॥
तथैषां स्कन्धभक्तानां मध्ये रेखां प्रकल्पयेत् ।
प्रासादः स्वस्तिको नाम स्यादेवं लक्षणान्वितः ॥ ९१ ॥
(सुँधानासोदयैः ?) खस्य कर्तव्यः स+भागिकः ।
स्कन्धं यावत् समुत्सेधो विस्ताराद् द्विगुणो भवेत् ॥ ९२ ॥
(त्यवृ?) द्वागोच्छ्रिता जङ्घा मेखला⁷ चा+भागिकी ।
मध्यशाला द्विभागाश्च मूलसूत्रविभागत्ः ॥ ९३ ॥
१ द. तिः । २ द. द । ३ द. दतः । ४ द. का । ५ द नः । ६ द. मुद्रित पुस्तके
‘शुकनासोदयः’ इति पाठः स्यात् । ७ द. र्य । ८ द. लां ।
वा. ५६
४४२ समराङ्गणसूत्रधारे
कर्णा¹ द्विभागिकाश्चैव जलमार्गस्तु षोडश ।
अष्टौ शाला भवन्त्यस्मिन् कर्णाश्चाष्टौ समन्ततः ॥ ९४ ॥
प्राग्ग्रीवं बाह्यतः कुर्यात् ( ²मुखभाग³ ? ) विचक्षणः⁴ ।
कलशश्चण्डिका ग्रीवा तद्वदामलसारकः ॥ ९५ ॥
ऊर्ध्वं ऊर्ध्वप्रमाणं च यथैवाद्य(?)तथा भवेत् ।
स्वस्तिकः ॥
रुचकं ब्रूमहे तस्य विभागो दशधा भवेत् ॥ ९६ ॥
भागद्वयमितौ कर्णौ भद्रं षड्भागसम्मितम् ।
तेषां विनिर्गमं विद्या( ५दैस्तामात्रा ? ) प्रमाणतः ॥ ९७ ॥
कुर्यादुदकमार्गांश्च प्रासादे रुचके क्वचित् ।
स्कन्धावशिष्टमुत्सेधो विस्ताराद् द्विगुणो भवेत् ॥ ९८ ॥
वेदिकायास्तु विस्तारः स्कन्धे षड्भागिकः स्मृतः ।
तृतीयांशेन कुर्वीत जङ्घामूर्ध्वं सुरोदयान्⁷ ॥ ९९ ॥
जङ्घायाश्च त्रिभागेन कार्या खुरखरण्डिका ।
मेखलान्तरपत्रं च कुर्यादध्यक्षभागिकम् ॥ १०० ॥
सार्धत्रिगुणसूत्रेण पूर्वा कर्कटना भवेत् ।
( १०चतुर्गुणं मूलसूत्रेण मध्ये कर्कटना स्मृतौ ? ) ॥ १०१ ॥
विभज्य दशधा स्कन्धविस्तारं तैः प्रकल्पयेत् ।
भद्रं चतुर्भिः ११कर्णांशु(र्णांस्तु ) कुर्याद् भागैस्त्रिभिस्त्रिभिः ॥१०२॥
स्वच्छाया भूमिकाः कार्या या¹² वा मूलार्धभागिकीः¹³ (?) ।
भागेनामलसारं च कुमुदं चार्धभागिकम् ॥ १०३ ॥
कुम्भं भागेन कुर्वीत प्रासादे¹४ रुचके¹⁵ बुधः ।
साधारणोऽयं सर्वेषां प्रासादस्तु दिवौकसाम् ॥ १०४ ॥
रुचकः ॥
१ द. र्ण । २ मुद्रित पुस्तके 'मुखभागे' इति स्यात् । ३ द. गे । ४ द. णैः ।
५ मु. पु. 'हस्तमात्रम्' इति स्यात् । ६ द. न्धो । ७ द. विश । ८ द. न् । ९ द. ता ।
१० मुद्रित पु. 'चतुर्गुणेन सूत्रेण मध्यकर्कटना स्मृता' । इति स्यात् । ११ द. कर्णांशु कुं । १२ द.
ग्रीवा । १३ द. की । १४ द. द । १५ द. कं ।
विमानादिचतुष्षष्टिप्रासादलक्षणं नामैकोनषष्टितमोऽध्यायः । ४४०
पुण्ड्रवर्धनकं ब्रूमः प्रासादं वल्लभं हरेः ।
भ्रमयेन्मूलसीमाष्टग्वृत्तमादौ समन्ततः ॥ १०५ ॥
तच्छालाकर्णसंयुक्तं कर्तव्यं सर्वतोदिशम् ।
यच्छन्दः स्वस्तिकेऽस्य(स) स्याद् द्विगुणः पुण्ड्रवर्धने १०६ ॥
जङ्घोदकान्तभद्राणामुच्छ्रायो विस्तृतिश्च या ।
स्वस्तिके कथिता सैव विज्ञेया पुण्ड्रवर्धने ॥ १०७ ॥
पुण्ड्रवर्धनः ॥
अथाभिधीयते मेरुर्दशधा तत्र भाजयेत् ।
सीमा(नं) तस्य कुर्वीत शृङ्गं चापि (वि ?) भागिकम् ॥ १०८ ॥
१शेषं + भागिकं भद्र( २मांयमाने ? ) ३विधीयते ।
पदस्य षोडशौसेने(शांशेन ) कर्तव्यमुदकान्तरम् ॥ १०९ ॥
पदैः षोडशभिर्गर्भो विधातव्यः पदं पदम् ।
भित्तिरन्धारिका बाह्यभित्तिश्चास्य विधीयते ॥ ११० ॥
भागषट्कोच्छ्रिता जङ्घा मेखला चैकभागिकी५ ।
शृङ्गं च त्रिपदोत्सेधं शिखरं स्याद् दशोच्छ्रितम् ॥ १११ ॥
कर्तव्यं वास्तुशास्त्रज्ञैस्तरस्यैकादशभूमिकम् ।
अर्धपञ्चमविस्तारः स्कन्धो ग्रीवार्धभागिका ॥ ११२ ॥
उच्छ्रायेण विधातव्या भा(गि)क्रोत्सेधमण्डकम् ।
भागार्धि(र्ध)कं च कुमुदं भागिका कलशोच्छ्रितिः ॥ ११३ ॥
षड्गुणेनैव सूत्रेण रेखा तस्य प्रकीर्तिता ।
मेरुं मेरुगिरिप्रख्यमेवं यः कारयेदिमम् ॥ ११४ ॥
शिलाभिरिष्टकाभिर्वा स महत् पुण्यमाप्नुयात् ।
मेरुः ॥
लक्षणं मन्दरस्याथ प्रासादस्याभिधीयते ॥ ११५ ॥
१ द. शेषं षड्भागिकं भद्रमा° । २ 'मायामेन' इति मुद्रित पुस्तके पाठः स्यात् । ३ द. भि ।
४ द. षोडसांशेन । ५ द. तरां । ६ द. का । ७ द. च्छ्र । ८ द. र्धि । ९ द. षड्गुणो न च सू° ।
४४४ समराङ्गणसूत्रधारे
गर्भ¹स्यार्धेन निष्क्रान्तं भद्रं कुर्वीत मन्द²रे ।
³+++ मेरुसङ्काशं विन्यस्येत् सर्वतोदिशम् ॥ ११६॥
वलभी⁴ मध्यदेशे तु शिखरोर्ध्वसमुद्भूता⁵ ।
सर्वमा(म)न्यत् प्रमाणं तु मेरोरिव भवेदिह ॥ ११७॥
मन्दरः ॥
कैलासमथ वक्ष्यामो दशधा तं विभाजयेत् ।
भद्रं षड्भागविस्तारं मध्यदेशे विनिःसृतम् ॥ ११८॥
कर्ण(र्णा) द्विभागविस्ताराः सलिलान्तरवर्जिताः ।
गर्भस्यार्धेन निष्कासः कार्यो भद्रस्य सर्वतः ॥ ११९॥
(लँतिस्याखरं ?) मध्ये शिखराधसमोदयम् ।
भित्तिगर्भभ्रमन्तीनां जङ्घामेखलयोरपि ॥ १२०॥
विस्तारमुदयं चास्मिन् विदध्यात् स्कन्धशृङ्गयोः ।
मेरोरिवास्मिन् प्रासादे (वैवचद्ध ?) ग्रीवाण्डकस्य च ॥ १२१ ॥
कैलासः ॥
ब्रूमोऽथ हंसक(म)स्य स्याद् विभागो रुचके यथा (?) ।
जलान्तरं विशेषोऽत्र शेषं⁹ भ(रु) चंकवद् भवेत् ॥ १२२॥
हंसः ॥
भद्रस्य लक्षणं ब्रूमो दशधा तं विभाजयेत् ।
गर्भविस्तारमानेन स्यादस्मिन् भद्रविस्तृतिः¹¹ ॥ १२३॥
सार्धद्विभागविस्तारौ रथकौ वामदक्षिणौ ।
गर्भाधा(?) तुल्यमायामात्¹² प्राग्ग्रीवं चेह(लं ?) कारयेत् ॥ १२४॥
प्राग्ग्रीवस्य समुत्सेधं शिखराधेन कारयेत् ।
वलभीं¹³ मध्यदेशेऽस्य सिंहकर्णसमन्विताम् ॥ १२५ ॥
१ द. र्गं । २ द. न्दिं । ३ द. मंदिरं । ४ द. भीं । ५ द. च्छ्रिता । ६ द. लतिः
स्याच्छिखरं मध्ये । ७ द. न्ता । ८ द. व बद्ध । ९ द. षे । १० द. व । ११ द. स्तृ । १२ द. सा ।
१३ द. भी ।
विमानादिचतुष्षष्टिप्रासादलक्षणं नामैकोनषष्टितमोऽध्यायः । ४४५
( १लताजलेगवाक्षाद्यैो ? )२श्चतुष्काभिश्चतुर्दिशम् ।
भद्रो भवति शेषं तु स्यादत्र रुचके यथा ॥ १२६ ॥
भद्रम् ॥
अथ ३तुङ्गं प्रवक्ष्यामो द्वितीयो ह्येष मन्दरः ।
भूषयेत् सिंहकर्णैस्तं लतामूर्ध्वं च कारयेत् ॥ १२७॥
भूमि४र्भूमिसमुत्सेधः स्तम्भचित्रौ५दिकं तथा ।
मेरोरिवात्र मध्ये तु मञ्जर्यः सर्वतोदिशम् ॥ १२८॥
तुङ्गः ॥
ब्रूमोऽथ मिश्रकं स स्यान्मानसंस्थानलक्षणैः ।
भौमो(?)६वि( मानव )न्मध्ये शृङ्गं कैलासवद् भवेत् ॥ १२९ ॥
मिश्रकः ॥
( अथ मालामाकारं तु तं कृत्वा गवाक्षैरुपशोभयेत् ?७) ।
यत्किञ्चिन्मानमध्यं तु तदाद्यस्येव ( प्र ?)कल्पयेत् ॥ १३० ॥
गवयः ॥
चित्रकूतमथ ब्रूमो दशधा तं विभाजयेत् ।
प्राग्ग्रीवा निर्गता(?) तस्य गर्भमानेन कारयेत् ॥ १३१ ॥
सार्धद्वर्यार्घो८विस्तारांस्तत्कर्णान् वामदक्षिणान् ।
उत्सेधस्य ९त्रिभागेन जङ्घोत्सेधं प्रकल्पयेत् ॥ १३२ ॥
जङ्घोत्सेधत्रि१०भागेन विन्यस्येत्११ खुरपिण्डिकाम् ।
कपोता१२न्तरपत्रं च तत्र स्यादधभागिकम् ॥ १३३ ॥
शिखरोत्सेधमानं यत् तत् त्रयोदशभिः पदैः ।
तत्र( भूमां१३स्तदुत्सेधं ? ) कल्पयेदनुसारतः ॥ १३४ ॥
( स्तास्तम्भसो भित्तिः १४ ?) कुर्यान्मुक्ताश्च परिकर्मणा ।
कूटच्छेदेन तत्कर्म विन्यस्येत्१५ सर्वतोदिशम् ॥ १३५ ॥
१ मु. पु. ‘लताजालगवाक्षाद्यैः’ इति स्यात् । २ द. प्रतौ यश्चचतुष्की । ३ मु. पु. ‘उन्नुङ्ग’
इति लक्ष्यनिर्देशे पश्यते । ४ द. भू । ५ द. विवा । ६ द. वि । ७ अत्र मालाधरप्रासादलक्षणस्यावसानं,
गवयप्रासादलक्षणस्यारम्भश्च मातृकायां नोपलभ्यते । ८ द. यां । ९ द. वि । १० द. वि । ११ द. से ।
१२ द. लासु । १३ द. मी । १४ द. तः । १५ द. से ।
भक्तमन्तरपत्रेण तलच्छन्दं तदूर्ध्वतः ।
द्वे द्वे कूटो ततो न्यस्येद् वामदक्षिणकर्णयोः ॥ १३६ ॥
शालामध्ये तु चत्वारि (नामे ?)कूटानि सर्वतः ।
भूमिकाः सिंहकर्णाश्च कपाटद्वारघटनाः ॥ १३७॥
शिखराणां समुत्सेधो त(य)थैवाद्ये तथा भवेत् ।
चित्रकूटः ॥
किरणः कथ्यते से स्यात् पद्मतुल्यः³ प्रमाणतः ॥ १३८ ॥
द्वात्रिंश(दनारा ?) नस्मिन् विदध्यात् षोडशाथवा ।
शालासु भेदः कर्णैः स्याच्छेषं मालाधरे यथा ॥ १३९ ॥
किरणः ॥
सर्वाङ्गसुन्दरं ब्रूमः कर्मभेदैरनेकता ।
नानाश्ल्पिलताधारं प्रासादैर्बहुभिर्युतम् ॥ १४० ॥
(तलच्छन्दतुल्यन्यासविरूक्तं ?) बहुलक्षणम् ।
ना ++++++ प्रासादे सर्वसुन्दरे ॥ १४१ ॥
तोरणैः सिंहकर्णैश्च संयुक्तं परिकर्मभिः ।
प्रमाणमिह यत्किञ्चित् सर्व विद्यात् तदाद्यवत् ॥ १४२ ॥
सर्वसुर्न्दरः ॥
श्रीवत्समथ वक्ष्यामो दशधा तं विभाजयेत् ।
भागत्रयेण कुर्वीत शालां तत्र विचक्षणः ॥ १४३ ॥
सार्धभागप्रविस्तारौ रथकौ वामदक्षिणौ ।
मूलकर्णा भवन्त्यत्र भागद्वितयविस्तृताः ॥ १४४ ॥
प्रासादहस्तमात्राभिः प्रत्येकं भद्रनिर्गमः ।
द्व्यङ्गुलं त्र्यङ्गुलं वापि चतुरङ्गुलमे(व वा) ॥ १४५ ॥
१ द. पु । २ द. स्वा । ३ द. त्याः । ४ द. विं । ५ द. ˚त्पं लाला˚ । ६ द. भ । ७ द. र्णेः संयुक्तः । ८ द. प्रतौ नास्ति । ९ इह श्रीवत्सः पद्मनाभः वैराजः वृत्तकः नन्द्यावर्तः वलभीः सुपर्णः
इत्येतेषां प्रासादानां क्रमेण लक्षणेषु वक्तव्येषु तानि आदर्शग्रन्थे तथा संकुलतया लिखितानि, यथा मिथो
विवेक्तुं न शक्येरन् । अतो यथास्थित एवादर्शपाटो मुद्रणीय आपतितः । किन्तु पद्मनाभ-वैराज-
वृत्तकानां लक्षणं परं क्रमिकं दृश्यते । १० द. ती ।
विमानादिचतुष्षष्टिप्रासादलक्षणं नामैकोनषष्टितमोऽध्यायः । ४४७
(भैली ?) मध्ये तु मञ्जर्यः कार्याः पद्मदलोपमाः ।
सर्वतः परिकर्म स्याद् रथिका कर्णसंश्रयौ ॥ १४६ ॥
आमलैँश्चन्द्रशालाभिः स्कन्धान्तं परिपूरयेत् (?) ।
खुरपिण्डौँ च जङ्घा च कुम्भायं शिखरादिँ च ॥ १४७ ॥
यत्किञ्चित् तत् प्रमाणेन वर्धमानसमं भवेत् ।
नन्द्यावर्तः ॥
ब्रूमो वलभ्यं स भवेद् गृहराजस्य सन्निभः ॥ १४८ ॥
आर्व(य)तश्चतुरश्रो वा प्रमाणैनैकतः समः ।
चतुरश्रंस्तु विस्तारादुदयो(ये) द्विगुणो भवेत् ॥ १४९ ॥
(आद्यतन्त्रस्य पुनः सार्धः स्कन्धोच्छ्रायो विधीयते ? ) ।
(विस्तारं दशधा समक्ष + तुरश्च समन्तः ?) ॥ १५० ॥
विभाजे (भागे) स्यात् ततो मानं पूर्वप्रासादसन्निभम् ।
स्वरूपं तस्य वक्ष्यामः श्रीवत्समिव तं भवे ( जे ) त् ॥ १५१ ॥
यद्वा विमानरुचकवर्धमानादिसद्मनां ।
छन्दे नैकस्य कस्यापि प्रासादस्य विभाजयेत् ॥ १५२ ॥
भूस्तम्भपरिकर्माणि विस्तारोत्सेधमेखलाः ।
सिंहकर्णरथा घण्टा तथा कुम्भाग्रषण्डकम् ॥ १५३ ॥
यत्किञ्चित् तत् प्रमाणेन यथैवाद्यं तथा भवेत् ।
वलभ्यः ॥
सुपर्णस्य (स्व) रूपं च प्रमाणं चाभिधीयते ॥ १५४ ॥
विभक्तं सिंहरूपेण सर्वभद्रं निवेशयेत् ।
भागैश्चतुर्भिर्निष्क्रान्तं भद्रं (गैँभयितः ?) समम् ॥ १५५ ॥
द्वौ भागौ मूलकर्णौ तु षड्भागा भद्रविस्तृतिः ।
पञ्चभागोच्छ्रिता जङ्घा मेखला तस्य भागिका ॥ १५६ ॥
१ द. शाला । २ द. यां । ३ द. लै । ४ द. ण्डी । ५ द. 'रोदिव । ६ द. प । ७ द. स्रस्य ।
८ द. पुरश्च समंततः । ९ द. विभजेत् । १० द. नां । ११ द. गर्भायतः; मुद्रित प्रतौ 'गवयत:'
इति स्यात। १२ द. द्वि ।
४४८ समराङ्गणसूत्रधारे
मूलजङ्घात्रिभागेन खुरवेदिसमुच्छ्रितिः¹।
( सच ?) मध्ये तु शृङ्गे द्वे कर्तव्ये² वामदक्षिणे ॥ १६७ ॥
उच्छ्रायाद् द्विपदे स्यातां विभक्ते सर्वतोदिशम् ।
मूलकर्णेषु शृङ्गाणां त्रिपदा स्यात् समुच्छ्रितिः ॥ १६८ ॥
+++++ सेवापि चतुरङ्गुलमेव वा ।
कुर्याज्जालौ( ध ?)विस्तारं श्रीवत्से नन्दने यथा ॥ १६९ ॥
विस्ताराद् द्विगुणोत्सेधः स्कन्धः षड्भागविस्तृतः ।
उत्सेधस्य त्रिभागेन जङ्घोत्सेधो विधीयते ॥ १७० ॥
तृतीयांशेन जङ्घायाः कुर्वीत खुरपिण्डिकाम् ।
मेखलान्तरपत्रं च विदध्यात् सार्धभागिकम् ॥ १७१ ॥
विभाज्या दशभिर्भागैः पूर्ववत् स्कन्धविस्तृतिः⁴।
सार्धद्वैगुणविस्तृत्या पूर्वा कर्कटना भवेत् ॥ १७२ ॥
चतुर्गुणेन सूत्रेण मध्या कर्कटना भवेत् ।
श्री( ग्री )वार्थभागमुत्सेधात् कुमुदं कुम्भकं पुनः ॥ १७३ ॥
अस्मिन्नामलसारं च यथा⁵ चाद्ये तथा भवेत् ।
श्रीवत्सः ॥
पद्मनाभंमथ ब्रूमः पद्मशालाभिरन्वितम् ॥ १७४ ॥
द्वितीयः⁶ पद्मकॊ ह्येष पद्ममालाधरः शुभः ।
सर्वमन्यत् प्रमाणं तु पद्मस्वस्तिकयोर्यथा ॥ १७५ ॥
पद्मनाभः ॥
वैराजमथ वक्ष्यामि⁷ स विज्ञेयो विमानवत् ।
( रूपशिखं + मुत्सेधस्तम्भग्रीव + रूपकम् ? ) ॥ १७६ ॥
संभातोरणनिर्यूहसिंहकर्णा( र्णै )श्च तादृशैः¹²।
साधारं चतुरश्रं च तं कुर्यात् पञ्चभूमिकम् ॥ १७७ ॥
१ द. तिं । २ द. व्यो । ३ द. जलाध । ४ द. तिं । ५ द. त्रि । ६ द. यथैवाद्ये ।
७ द. क । ८ द. यं । ९ द. मः । १० द. वे । ११ द. स्तंभ । १२ द. शः ।
विमानादिचतुष्षष्टिप्रसादलक्षणं नामैकोनषष्टितमोऽध्यायः । ४४९
विमानसदृशाकारो वैराजोऽयमुदाहृतः ।
²वैराजः ॥
ब्रूमोऽथ वृत्तकं मूले चतुरश्रः प्रकीर्तितः ॥ १७८ ॥
जङ्घामूले ततोऽष्टाभिस्त्रि( त्रि )वृत्तो भागत्तृतीयेके ।
मूलमध्याग्रतः³ पूर्णं तं कुर्यात् सर्वतोदिशम् ॥ १७९ ॥
भद्राकारं च भद्रेषु विभागे४ चतुरश्रके ।
( अष्टाश्रिवज्र्रंकाकारा ? ) वृत्ते स्वस्तिकसन्निभम् ॥ १८० ॥
यथा मूलैविभागेन लतिनः स्वस्तिकोदयः ।
तथा वृद्धिप्रमाणाभयामयमप्याद्यवद् भवेत् ॥ १७१ ॥
वृत्तकः ॥
नन्द्यावर्तमथ ब्रूमो दशधा तं विभाजयेत् ।
( र्पादोमध्यंशविस्तारो ? ) कर्णौ कुर्वीत पार्श्वयोः ॥ १७२ ॥
चतुर्भागप्रविस्तारं भद्रमस्य प्रकल्पयेत् ।
सपादपदिकं कुर्याच्छालाकर्णान्तरे रथम् ॥ १७३ ॥
जलाधाररथं कर्णं( तः ? )शालान्तेषु यथेष्टितः ।
ष+सु शिखरायामास्तन्मध्ये वलभी भवेत् ॥ १७४ ॥
जलमार्गं चैं कुर्वीत शालाकर्णान्तमूलयोः ।
प्रमाणमन्यथा किञ्चिद् ( भूसिंहस्येव ? ) कारयेत् ॥ १७५ ॥
सुपर्णः ॥
प्रमाणमथ सिंहस्य लक्षणं चाभिधीयते ।
दशधा क्षेत्रविस्तारं विभजेत् सर्वतः समम् ॥ १७६ ॥
द्विभागौ मूलकर्णौ तु कर्तव्यौ वामदक्षिणौ ।
मूलभद्रस्य विस्तारः षड्भिर्भागैर्विधीयते ॥ १७७ ॥
१ द. वि । २ द. वि । ३ द. तत् । ४ द. गं। ५ मुद्रित पु. ' अष्टाश्रौ वज्रकाकारम् ' इति
स्यात् । ६ द. ज्ञ । ७ द. ला । ८ मुद्रित पुस्तके ' पा दोनब्यंशविस्तारौ ' इति पाठः स्यात् । द. प्रतौ
च इत्येव पाठः । ९ द. लां । १० द. र्णन्तिः । ११ द. यथोष्टितः । १२ द. र्गाश्च ।
वा. ५७
४५० समराङ्गणसूत्रधारे
विस्तारो द्विगुणैः कार्यः स्कन्धोत्सेधप्रमाणतः ।
पञ्चभागोच्छ्रिता जङ्घा मेखला सार्धभागिकी ॥ १७८ ॥
खुरकं वेदिबन्धं च तैत्त्रिभागेन कल्पयेत् ।
भागत्रयोच्छ्रितानि स्युः शृङ्गाणि च चतुर्दिशम् ॥ १७९ ॥
सिंह(स्य) कर्णवन्मध्ये वलभी भूषयेद् बुधः ।
सर्वमन्यत् प्रमाणं च सर्वतोभद्रवद् भवेत् ॥ १८० ॥
सिंहः ॥
विचित्रकूटं वक्ष्यामो दशधा तं विभाजयेत् ।
(४द्विभागिको मूलभद्रस्य ?) हस्ततुल्याङ्गुलो भवेत् ॥ १८१ ॥
शालामध्यप्रदेशे तु वलभीं सन्निवेशयेत् ।
कूटे द्वे सर्वतो न्यस्येच्छ्लिष्टे + मूलक + योः ॥ १८२ ॥
एष भेदः समुद्दिष्टः शाला स्यात् कूटवर्जिता ।
प्रमाणमन्यत् सर्वं तु विज्ञेयं चित्रकूटवत् ॥ १८३ ॥
६विचित्रकूटः ॥
योगपीठमथ ब्रूमात्रिविष्टपमिवोत्तमम् ।
विभजेद् भागविंशत्या चतुरश्रं समन्ततः ॥ १८४ ॥
(कोष्ठान्यद्भागविस्तारा ?) कुर्याद् दिक्षु विदिक्षु च ।
भागिकौ जलमार्गौ च विदध्याद् वामदक्षिणौ ॥ १८५ ॥
विस्तारात् तेषु गर्भः स्याद् भागत्रितयसंमितः ।
पञ्चभागोच्छ्रिता जङ्घा कपोतान्तरवर्जिता ॥ १८६ ॥
खुरकं वेदिबन्धं च कुर्याद् भागत्रयोच्छ्रितम् ।
विस्तारात् (कुर्याद् दिक्षु ?) द्विगुणोच्छ्रायः कार्योऽयं पञ्चभूमिकः ॥
सिंहकर्णै रथैर्घण्टाभ्रमिकास्तम्भतोरणैः ।
रचनास्य विधातव्या कथिता पुष्पके तथा ॥ १८८ ॥
१ द. रा । २ द. णा । ३ द. त्रि । ४ द. द्विभागिकौ मूलकर्णौ षड्भागाद्द्रुद्विविस्तृतिः ।
निर्गमो मूलभद्रस्य हस्ततुल्यांगुलो भवेत् । ५ द. न्यस्येत्संश्लिष्टे मूलकर्णयोः । ६ द. मुद्रित पुस्तके 'विचित्र'
इति लक्ष्य निर्देशे पठितः । ७ द. य ।
विमानादिचतुष्षष्टिप्रासादलक्षणं नामैकोनषष्टितमोऽध्यायः । ४५१
सान्धारः केवलं कार्यः प्रासादोऽयं विचक्षणैः ।
योगपीठः ॥
घण्टानादमथ ब्रूमः सं भवेत् पञ्चभूमिकः ॥ १८९ ॥
अष्टाश्रिःकोणः कर्तव्यः संस्थानात् पुष्पकोऽपरः ।
भैरवो भद्रकाली च (स्थाप्यै चात्र पाठैको ?) ॥ १९० ॥
घण्टानादः ॥
पताकिनमथ ब्रूमो वातोद्भूतमिवार + ।
लतिनं लतिनाकारं ( ? ) विभक्तं सर्वतोदिशम् ॥ १९१ ॥
तं चण्डिकायाः कुर्वीत रुचकं वर्धमानकम् ।
( वृक्षपताकिनं वक्ष्यामि + भृतं शाखिनं यथा ? ) ॥ १९२ ॥
पताकिनः ॥
गुहाधरमथ ब्रूमः श्रीपुष्टिसुखदायिनम् ।
विभक्ते दशधा क्षेत्रे भद्रं स्याद् गर्भमानतः ॥ १९३ ॥
अर्धेन मूलगर्भस्य कार्यों भद्रस्य निर्गमः ।
सार्धभागप्रविष्टारौ कर्णौ द्वौ द्वौ च पार्श्वयोः ॥ १९४ ॥
( जैलाधा ? ) मूलकर्णान्ते कर्तव्यः पार्श्वयोर्द्वयोः ।
तद्द्वारमध्यदेशे तु विन्यस्येत् स्तम्भतोरणम् ॥ १९५ ॥
विस्तारद्विगुणोत्सेधश्चतुःशृङ्गश्चतुर्मुखः ? ।
भूग्रीवामेखलाजङ्घाः कुम्भकामलसारके ॥ १९६ ॥
सिंहस्येव प्रकुर्वीत गुहाधारस्ततो भवेत् ।
द्वारभेदेन नामास्य प्रासादस्य विनिर्मितम् ॥ १९७ ॥
गुहाधरः ॥
कथयामोऽथ शालाकं दशधा नं विभाजयेत् ।
द्विभागिकौ मूलकर्णौ षड्भागा भद्रविस्तृतिः ॥ १९८ ॥
द्वाराणि भद्रमध्ये स्युर्मूलद्वारसमानि तु ।
चतुर्बाहुश्चतुर्द्वारो द्वितीयो रुचको ह्यसौ ॥ १९९ ॥
१ द. सं । २ द. श्रि । ३ द. प्या । ४ द. पीठके । ५ द. वृक्षं पंतान वं° । ६ द. मु ।
७ द. जलधो । ८ द. था ।
४५२ समराङ्गणसूत्रधारे
द्वारमानेन नामास्य शालाक इति कीर्तितम् ।
प्रमाणमन्यद् यत्किञ्चिद् भद्रकस्येव तद् भवेत् ॥ २००॥
शालाकः ॥
इदानीं वेणुकं ब्रूमश्चतुरश्रं समं शुभम् ।
न कुर्याद् भद्रनिष्क्राममात्रच्छत्रात्मनः( ? ) शुभम् ॥ २०१ ॥
विस्तारद्विगुणोच्छ्रायः कुम्भाग्रं¹ (यचेदिष्यत् ?)।
शिखाद्विगुणमानस्य जङ्घा त्र्यंशेन कल्पते ॥ २०२ ॥
जङ्घात्रिभागमुत्सेधात् कार्या खुरवरण्डिका ।
कपोतान्तरपत्रं च कर्तव्यं सार्धभागिकम् ॥ २०३ ॥
चतुर्भागो(गे)न सूत्रेण वेणुकोशं समालिखेत् ।
सर्वतः शोभनं कुर्यात् तं कपोतविनिर्गमै² ॥ २०४ ॥
मुखेऽस्य सिंहकर्णाः स्युश्चन्द्रशालाविवर्जिताः ।
प्रमाणमस्य यत्किञ्चिद् वेणुकं च विधीयते ? ॥ २०५ ॥
वेणुकम् ॥
इदानीं कुञ्जरं ब्रूमो गजलक्षणलक्षितम् ।
अर्धसूत्रेण तत्सा(सी)म्नः पृष्ठतो वृत्तमालिखेत् ॥ २०६ ॥
चतुर्भागा भवेज्जङ्घा मेखला सार्धभागिका ।
वृत्ताकारं पृष्ठदेशे तं कुर्वीत विचक्षणः ॥ २०७॥
शालासु सिंहकर्णाः स्युः पार्श्वतः पृष्ठतोऽग्रतः ।
कर्णाश्च तस्य कर्तव्याः शृङ्गैः सर्वैर(वै³)ऽपि पूरिताः ॥ २०८ ॥
मध्यप्रदेशे वलभी कर्तव्या चातिशोभना ।
यत्किञ्चित् तत्प्रमाणं तु यथैवाद्ये४ तथा भवेत् ॥ २०९॥
कुञ्जरः ॥
अथ हर्षं प्रवक्ष्यामश्चतुरश्रं मनोरमम् ।
विस्तारात् सार्ध उत्सेधः (स्गौँद्धूयटां ?) मस्तकावधेः ॥ २१० ॥
१ द. 'ग्रं यावदिष्यति । २ द. मैः । ३ द. पुस्तके नास्ति । ४ द. द्यं । ५ द. स्याद्वर्धटाम-
स्तकावधे ।
विमानादिचतुष्षष्टिप्रासादलक्षणं नामैकोनषष्टितमोऽध्यायः । ४९३
छाद्यरूपं च कुर्वीत चतुरश्रं चतुर्दिशम् ।
शुकनासं सुखातेन शोभितं परिकर्मणा ॥ २११ ॥
जङ्घामेखलयोश्च + सुरपिण्डस्य चोच्छ्रितिः ।
घण्टाग्रं चन्द्रशाला च च्छाद्यकं च यदृच्छया ॥ २१२ ॥
कुर्यात् प्रमाणमन्यच्च यथैव मनसः १प्रियम् ।
हर्षणः ॥
इदानीं विजयं ब्रूमः प्रासादं (सार्थ ?) शोभनम् ॥ २१३ ॥
लतिनो वर्धमानेन³ ++++ विभाजयेत् ।
शुकनासोदयं न्यस्येदंशोनशिखरोदयम् ॥ २१४ ॥
अग्रप्राग्ग्रीवकौ कार्यों रथकौ वामदक्षिणौ ।
(कर्तव्योर्ध्वलतश्चापं पूर्णः ?) सर्वतोदिशम् ॥ २१५ ॥
विजयो वर्धमानश्च प्रमाणेन समावुभौ ।
अलिन्दभेदान्नामास्य कृतं विजय इत्यदः ॥ २१६ ॥
महापद्मः ॥
ब्रूमोऽथ हर्म्यं प्रासादं ४तं कुर्यादेकभूमिकम् ।
दारुजं चतुरश्रं च (पट्टर्तुलांभित्तिभिः ?) ॥ २१७ ॥
दण्डच्छाद्यं च कुर्वीत समन्ताच चतुष्किकाम् ।
ऊर्ध्वतस्तुम्बिकाक्रान्तं पद्मखण्डै⁷र्विभूषितम् ॥ २१८ ॥
मुखैः(खे) पत्रैर्गवाक्षैश्च वेदिकास्तम्भतोरणैः ।
वलभीशालभञ्जीभिः सिंहकर्णैश्च भूषयेत् ॥ २१९ ॥
विस्तारमस्य हर्म्यस्य कुर्यादुच्छ्रयसंमितम् ।
हर्म्यः ॥
इदानीमुज्जयन्तस्य लक्षणं सम्प्रचक्ष्महे ॥ २२० ॥
कुर्याद् ⁸भूर्म्यमानेऽत्र द्वारि मण्डपभूषितम् ।
चतुर्द्वारं च कुर्वीत सर्वतो मण्डपान्वितम् ॥ २२१ ॥
१ द. ला । २ द. पू । ३ द. नेनं विदाजं । ४ इह 'विजयः' इति लेख्यं भाति । महापद्म
इति लेखनेन च विजयानन्तरक्रमलक्षणीयानामुदकुम्भमोदकमहापद्मानां लक्षणश्लोका गलिता इत्यनुमीयते ।
५ द. तत् । ६ द. त्यामिदिभिः । ७ द. ण्डे । ८ द. कुर्यास्तं हं ।
४५४ समराङ्गणसूत्रधारे
प्रमाणमन्यदप्यस्य हर्म्यस्यैवाखिलं भवेत् ।
उज्ज्यन्तः^{२} ॥
इदानीमभिधास्यामो गन्धमादनलक्षणम् ॥ २२२ ॥
हर्म्यमानेन कर्तव्यः प्रासादो गन्धमादनः ।
अग्रतः पृष्ठदेशे च मण्डपं तस्य कारयेत् ॥ २२३ ॥
चतुष्कीजालपक्ष्माद्या वामदक्षिणभागयोः ।
प्रमाणमस्य कर्तव्यं यथा हर्म्यस्य कीर्तितम् ॥ २२४ ॥
गन्धमादनः ॥
ब्रूमोऽथ शतशृङ्गं स त्रिविष्टपंसमो भवेत् ।
विभजेद् भागविंशत्या पञ्चभौमं च कारयेत् ॥ २२५ ॥
+द्विभागानि कूटानि सैकमण्डशतं भवेत् ।
भूमौ भूमौ च शृङ्गाणि भूविस्तारदशांशतः ॥ २२६ ॥
प्रमाणमस्य यत्किञ्चित् तत् त्रिविष्टपवद् भवेत् ।
निरवद्यः^{६} ॥
विश्रान्तमथ वक्ष्यामः सर्वतोभद्रसन्निभम् ॥ २२७ ॥
सान्धारं तं प्रकुर्वीत सर्वतो मण्डपैर्युतम् ।
गवाक्षां वेदिजालाद्याः(?) कुर्याद् दिक्षु चतुष्किकाः ॥ २२८ ॥
विश्रान्तः ॥
मनोहरमथ ब्रूमः स भवेन्मण्डपो यथा ।
साच्छाद्यतोरणैर्दिक्षु चतुर्द्वारः समण्डपः ॥ २२९ ॥
वेदिर्षण्डाम्बुमार्गाद्यैः^७ प्रतोलीद्वारजालिकैः ।
सिंहपीठतलन्यासैः कलशैः परिपूरितः ॥ २३० ॥
वृत्तस्तम्भस्तुलाच्छेन्नो बहिश्चाद्येन भूषितः ।
सिंहव्यालगजैः पत्रैर्मुखे सस्तम्भतोरणैः ॥ २३१ ॥
१ द. स्यै । २ द. प्रतौ नास्ति । ३ द. ऽथ सततं शृंगं । ४ द. पस्य । ५ द. त । ६ इद
'शतशृङ्ग' इति लेख्यम् । निरवद्यस्य लक्षणमपि गलितम् । ७ द. क्षं । ८ द. ख । ९ द. यः ।
१० द. च्छेद्रो ।
विमानादिचतुष्षष्टिप्रसांदलक्षणं नामैकोनषष्टितमोऽध्यायः । ४५९
पुनः कार्यं प्रमाणं तु यथाशोभं विधीयते ।
मनोहरः ॥
वृत्तवृत्तायतौ ब्रूमस्तयोः कम्बुसमाकृतिः ॥ २३२ ॥
वृत्तस्तत्र तलन्यासचतुरस्रोऽशपञ्चकम् (?)।
वृत्तायन्मूर्ध्वतो वृत्तं यथाशोभं समुत्थितम् ॥ २३३ ॥
कुर्यान्मुखायतं चान्यं सिंहकर्णान्वितं मुखे ।
वृत्तवृत्तायतौ ॥
चैत्यस्य लक्षणं ब्रूमः स स्याच्छा(थ)त्रयान्वितः ॥ २३४ ॥
अस्याकारः प्रमाणं च यथा वृत्ते तथा भवेत् ।
चैत्यः ॥
किङ्किणीकमथ ब्रूमः पञ्चाण्डं नवभूमिकम् ॥ २३५ ॥
वृत्तकूटाः शुभाः कार्याः सर्वेऽमी शुभलक्षणाः ।
किङ्किणीकः ॥
इदानीं लयनं ब्रूमः स शैलखननाद् भवेत् ॥ २३६ ॥
निःश्रेण्यारोहसोपाननिर्यूहकगवाक्षकान् ।
वेदीभ्रमविटङ्कांश्च प्रतोलीद्वारसंयुतान् ॥ २३७ ॥
( उत्कीर्णान्नाचरे तैरप्राग्रीवन्मानं च ? ) ।
लयनम् ॥
इदानीं पट्टिसं ब्रूमः प्रासादं वस्त्रसम्भवम् (?) ॥ २३८ ॥
( ⁴बोहातो ? ) जालपादैश्च वेदीषण्डैश्च मण्डितम् ।
कूर्मपृष्ठं प्रदातव्यमिच्छता शुभलक्षणम् ॥ २३९ ॥
पट्टिसः ॥
विभवः कथ्यते स स्यात्⁵ ( सुर्यामन्यसमाश्रयः ? ) ।
दारवे दारवो योज्यः शैलजे शैलसम्भवः ॥ २४० ॥
मृन्मये मृन्मयः कार्यश्चयने ⁶चयनोद्भवः ।
प्रत्यन्तग्रामखेटेषु दारुस्तम्भैर्विधीयते ॥ २४१ ॥
१ द. चित्रा । २ द. च्छि्र । ३ द. त्त । ४ द. बाह्यतो जाँ । ५ द. नं (नां) । ६ द. त्यु ।
७ द. म । ८ द. न ।
४९६ समराङ्गणसूत्रधारे
विभवस्यानुसारेण स कार्यों धार्मिकैस्त्रिभिः ।
विभवः ॥
तारागणमथ ब्रूमः स भवेन्मण्डपाकृतिः ॥ २४२ ॥
वस्त्रचीरतुलाशाण्डो (?) डोलाक्रीडाभ्रमैर्गृहैः ।
वस्त्रजैश्चित्ररूपाद्यैर्घण्टादर्पणतोरणैः ॥ २४३ ॥
ध्वजच्छत्रविमानाद्यैः किङ्किणीभिर्विराजितम् ।
यत्किञ्चित् सुन्दरं सर्वं तदत्र विनिवेशयेत् ॥ २४४ ॥
तारागणः ॥
अष्टाष्टकैर्द्वे च विशेषयोगात्
प्रासादषष्टिश्चतुरन्वितेषा ।
विमानमुख्याः कथिता य एतान्
(जोनायस्यैस ?) शिल्पिगणाग्रणीः स्यात् ॥ २४५ ॥
इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
विमानादिचतुःषष्टिनामैकोनषष्टितमोऽध्यायः ॥
अथ श्रीकूटादिषट्त्रिंशत्प्रासादलक्षणं नाम षष्टितमोऽध्यायः ।
षड्त्रिं(द्त्रिं)शतमथ ब्रूमः प्रासादान् नागरक्रियान् ।
साधारणान् प्रथमैस्तेषु श्रीकूटः श्रीमुखस्ततः ॥ १ ॥
श्रीधरो बर्दरश्चैव तथाभ्यः(न्यः) प्रियदर्शनः ।
कुलनन्दोऽन्तरिक्षश्च पुष्पभासो विशालकः ॥ २ ॥
सङ्कीर्णोऽथ महानन्दो नन्द्यावर्तस्तथापरः ।
सौभाग्यश्च विभङ्गश्च विभवस्तदनन्तरम् ॥ ३ ॥
वीभत्सकोऽथ श्रीतुङ्गो मानतुङ्गस्तथापरः ।
(भेवतो र्भद्र ?) संज्ञश्च (भैवद्वाह्योदरस्तचः ?) ॥ ४ ॥
१ द. एषां । २ मु. पु. ‘जानात्यसौ’ इति स्यात् । ३ द. र्गणा । ४ द. मा । ५ मु.
पुस्तकानुसारेण ‘वरद’ इति लक्षणे दृश्यते । ६ द. ष्पा । ७ द. र्णाय । ८ द. भाग । ९ मु. पु.
‘सर्वतोभद्र’ इति स्यात् । १० द. भ । ११ मु. पु. ‘भवेद् बाह्योदरस्ततः’ इति पाठः स्यात् ।;
द. भवेद्वाह्योदरस्तवः ।
श्रीकूटादिषट्त्रिंशत्प्रासादलक्षणं नाम षष्टितमोऽध्यायः । ४१७
निर्व्यूहोदर(संज्ञोऽन्य)स्ततो ज्ञेयः समोदरः ।
नन्दिभद्रो भद्रकोशश्चित्रकूटस्ततः परम् ॥ ५ ॥
विमलो हर्षणो भद्रसङ्कीर्णस्तदनन्तरम् ।
ततो भद्रविशालाख्यो भद्रविष्कम्भे एव च ॥ ६ ॥
उज्जयनताभिधानश्च सुखे(मे)रुरथ मन्दरः ।
कैलासः कुम्भकाक्ष(क्ष्य)श्च गृहराजश्च नामतः ॥ ७ ॥
एतेषां(षट्)त्रिंशादुद्दिष्टा लक्षणं कथ्यतेऽधुना ।
चतुरश्रीकृते क्षेत्रे द्वादशांशविभाजिते ॥ ८ ॥
प्रासादं विभजेत् प्राज्ञः श्रीकू(टं) नाम शोभने(नम्) ।
ज्येष्ठः स्याद् विंशतिर्हस्ता मध्यमो दश पञ्च च ॥ ९ ॥
कनीयान् दश विज्ञेयः प्रमाणं हस्तसङ्ख्यया ।
भद्रं षड्भागिकायामं(मं) कर्णाः कार्या द्विभागिकाः ॥ १० ॥
तिलकं भागिकं कार्यं भागेनैकेन निर्गतम् ।
तस्माद् भागेन निष्क्रान्तं भद्रमस्य विधीयते ॥ ११ ॥
भागिकी बाह्यभित्तिः स्याद् द्विपदा चान्धकारिका ।
भागिकी गर्भभित्तिश्च गर्भः कार्यश्चतुष्पदः ॥ १२ ॥
अधश्छन्दः समुद्दिष्ट ऊर्ध्वच्छन्दोऽभिधीयते ।
विस्तारार्धेन जङ्घा स्यान्मेखला चैकभागिका ॥ १३ ॥
भागत्रयोच्छ्रितं शृङ्गं द्वितीयमपि तादृशम् ।
पूर्वशृङ्गस्य मध्ये तद् विधातव्यं विचक्षणैः ॥ १४ ॥
सार्धभागोदयः कार्यस्तिलकोऽन्यश्च तादृशः ।
द्वितीयतिलकस्योर्ध्वं सुश्लिष्ट(ष्टा) रूपसंयुता ॥ १५ ॥
स्यादुरोमञ्जरी सप्तभागोत्सेधा षडायता ।
स्याद् भागिकमूर्च्छा(ध्छ्र्छा)यं मञ्जर्या या तु विस्तृतिः ॥ १६ ॥
१ द. नामाभ्य । २ द. न्व । ३ द. मागतः । ४ द. ते । ५ द. या । ६ द. °दः बाध्र° ।
७ द. य । ८ द. वस्था ।
वा. ५८
४. चित्र-कर्म, षडङ्ग व प्रतिमा लक्षण (अध्याय ५१-६५)
४९८ समराङ्गणसूत्रधारे
दशधा प्रविभाज्यासौ शेषं श्रीवत्सवद् भवेत् ।
स्कन्धः षड्भागविस्तारो ग्रीवा भागार्धमुच्छ्रिता ॥ १७ ॥
अण्डकं भागिकं कार्यं कुमुदं चार्धभागिकम् ।
सार्धभागेन कलशो बीजपूरकसंयुतः ॥ १८ ॥
द्वितीयकर्णशृङ्गस्य स्यादूर्ध्वं मूलमञ्जरी ।
++++++++ १अष्टभागंसमुच्छ्रिता ॥ १९ ॥
श्रीवत्सवद् विभागोऽस्याः स्कन्धग्रीवादिके भवेत् ।
एवं श्रीकूटसंक्षेपं (ज्ञोऽयं) प्रासादः परिकीर्तितः ॥ २० ॥
यं कृत्वा त्रिसहस्राणि दिव्यानि दिवि मोदते ।
श्रीकूटः ॥
अथ लक्ष्म २+++++++ स्याभिधीयते ॥ २१ ॥
तुल्यं प्रासादमानेन विदध्यादिह मण्डपम् ।
मुखायामेन तिर्यक् तु चतुरश्रं ३++++ ॥ २२ ॥
४+++ भद्रविस्तारः कर्णाश्च तिलकास्तथा ।
मध्ये चतुष्किका कार्या भद्रविस्तारसम्मिता ॥ २३ ॥
नि५++++++ विधातव्यस्तु मण्डपे ।
जङ्घाप्रासादजङ्घायाः समोत्सेधा(?)विधीयते ॥ २४ ॥
मेखलं भागिकं ६++++++ च पूर्ववत् ।
स्तम्भं त्र्यंशोच्छ्रितं भागं वेदी घण्टा त्रिभागिका ॥ २५ ॥
क्रमाश्रयो यवाः पञ्च ७सिंहक +++++ ।
शोभिताः सिंहकर्णैश्च ८वृच्छाद्याङ्गातिभूषिताः (?) ॥ २६ ॥
मण्डपं कारयेदेवं श्रीकूटस्य विचक्षणः ।
श्रीकूटस्यं मण्डपः समाप्तः ।
अलिन्दे तु यदास्यैव क्रियते ११ भद्रवेदिका १२ (यदा ?) ॥ २७ ॥
१ द. इतः पूर्वं ‘प्रविस्तारा दशभाग स°’ इत्याधिकः पाठः । २ द. °मां तदीयस्य मंडपास्या° ।
३ द. °सं समंततः । ४ द. तथैव । ५ द. निर्गमस्तेन मानेन वि° । ६ द. °कां कुर्यान्मन्वच्छाद्यं ।
७ द. सिंहव्याघ्रविभूषिताः । ८ द. वृ । ९ द. य । १० द. श्रीकूटस्य विक्षणं भूषणं समण्डपः समाप्तः
पाठः । ११ द. न्ते । १२ काः ।