सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

द्विशालगृहलक्षणं नाम द्वाविंशोऽध्यायः १२३
आद्याद्याभिस्तिसृभिः स्वामिघ्नं महिषं विदुः ।
प्रचण्डं दण्डभेदेषु पूर्वया सद्वितीयया ॥ ३४ ॥
गृहमादौ विजानीयाद् भर्तुर्नृपभयप्रदम् ।
चण्डमाद्यातृतीयाभ्यां चण्डदण्डभयप्रदम् ॥ ३५ ॥
दण्डं स्याद् द्वितृतीयाभ्यां राजदण्डाय दारुणम् ।
उद्दण्डमाद्यातुर्याभ्यां स्वामिनो दण्डभीतिदम् ॥ ३६ ॥
काण्डं द्वितीयातुर्याभ्यां काण्डवद्भेदकारकम् ।
कोटरं त्रिचतुर्थीभ्यां स्वामिनो विग्रहावहम् ॥ ३७ ॥
प्रथमा(द्वि)तृतीयाभिर्विग्रहं वधबन्धकृत् ।
आद्याद्वितीयातुर्याभिर्निग्रहं विग्रहावहम् ॥ ३८ ॥
आद्यातृतीयातुर्याभिर्धूम्रं सर्वधनापहम् ।
द्वितृतीयाचतुर्थीभिर्निर्धूमं धननाशनम् ॥ ३९ ॥
आद्याद्याभिस्तिसृभिर्दन्तिदारुणमर्थहृत् ।
आद्याद्वितीयामूर्षाभ्यां वातभेदेषु मन्दिरम् ॥ ४० ॥
मरुत्संज्ञं भवेत् तत्र वसतां कलहः सदा ।
उद्वेगकारि पवनं तृतीयाथोपलक्षितम् ॥ ४१ ॥
वाताख्यं द्वितृतीयाभ्यां सदा सन्तापकारकम् ।
सन्तापोद्भासकार्याद्यातुर्याभ्यामनिलं भवेत् ॥ ४२ ॥
प्रभञ्जनं द्वितुर्याभ्यां शोकसन्तापकारकम् ।
तृतीयया चतुर्थ्या च घनार्युद्वेगकारकम् ॥ ४३ ॥
आद्यया द्वितृतीयाभ्यां रोगं कार्यार्थनाशनम् ।
आद्याद्वितीयातुर्याभिः प्रलयं चित्ततापकृत् ॥ ४४ ॥
आद्याद्वितीयातुर्याभिः कलहं कलहावहम् ।
द्वितृतीयाचतुर्थीभिः केलिः सन्तापकारकम् ॥ ४५ ॥
१ द. ख. ॰मूषाभिः । २ क. द. कलिसं०

१२४ समराङ्गणसूत्रधारे
आद्याद्याभिश्चतसृभिः कलिचुल्ली धनापहा ।
रोगमाद्याद्वितीयाभ्यां चुल्लीभेदेषु शोकदमू ॥ ४६ ॥
स्याद् द्वितीयातृतीयाभ्यां चुल्ली वित्तविनाशनी ।
वसुघ्नमनेलं नाम त्रितुर्याभ्यां निवेशनम् ॥ ४७ ॥
वित्तघ्नमाद्यातुर्याभ्यां भस्मारुयं स्वामिनः सदा ।
उदङ्मुखाभ्यां मूषाभ्यां काचभेदेषु मन्दिरम् ॥ ४८ ॥
छलं नाम भवेन्नित्यं बन्धुवर्गापमानकृत् ।
दक्षिणोत्तरमूषाणां पौरस्त्ये वहतो यदि ॥ ४९ ॥
† काञ्चं नाम तदा वेश्म सज्जनानन्दकारकम् ।
मूषाभ्यां दक्षिणाभ्यां स्यात् कुलहं त्रिकुलक्षयम् ॥ ५० ॥
दक्षिणोत्तरमूषाणां पाश्चात्ये वहतो यदि ।
*विरोधं नाम तद्वेश्म सर्वलोकविरोधकृत् ॥ ५१ ॥
उक्तान्येवं द्विपञ्चाशद् द्विशालानां समासतः ।
ऐनाने मूषावहनप्रभेदात् फलप्रभेदाच्च निदर्शितानि ।
द्विशालवेश्मान्यथुनैकशालान्युदाह्रियन्ते भवनानि सम्यक् ॥५२॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
द्विशालगृहलक्षणं नाम द्वाविंशोऽध्यायः ॥
अथ एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः ।
गृहाणामेकशालानां वक्ष्यामो लक्षणान्यथ ।
शस्तानां निन्दितानां च यथावदनुपूर्वशः ॥ १ ॥
विन्यसेच्चतुरः पूर्वं गुरून् वर्णान् यथाविधि ।
एभ्य एव प्रसूयन्ते भेदाः षोडश वेश्मनाम् ॥ २ ॥
१ क. ॰नि॰ । २ क. ॰खी॰ । ३ द. एतानि । ४ क. ॰रुव॰ ।
† लक्ष्यपाठानुरोधात् काचमिति पाठ्यम् * लक्ष्ये विरोधीति पठ्यते ।

एकशाललक्षणफलादि नाम त्रयोविंशोऽध्यायः । १२५
गुरोरधो लघुं न्यस्येत् पूर्वं शेषं यथोपरि ।
गुरुभिः पूरयेत् पश्चाद् यावत् स्युर्लघवोऽखिलाः ॥ ३॥
विद्यादलिन्दान् सर्वेषु लघुस्थानेषु पण्डितः ।
संख्यावर्तं गृहमुखादेतांश्च विनियोजयेत् ॥ ४ ॥
एषामलिन्दसंयोगाद् भवनानां पृथक् पृथक् ।
नामानि गुणदोषांश्च वक्ष्यन्तेऽनुक्रमादतः ॥ ५ ॥
ध्रुवं धन्यं जयं नन्दं खरं कान्तं मनोरमम् ।
सुमुखं दुर्मुखं क्रूरं सुपक्षं धनदं क्षयम् ॥ ६ ॥
आक्रन्दं विपुलं चैव विजयं गृहमुत्तमम् ।
ध्रुवे जैयमवाप्नोति धन्ये धान्यागमो भवेत् ॥ ७ ॥
जये सपत्नाञ् जयति नन्दे सर्वाः समृद्धयः ।
खरमायासदं वेश्म कान्ते च लभते श्रियम् ॥ ८ ॥
आयुरारोग्यमैश्वर्यं तथा वित्तस्य सम्पदः ।
मनोरमे मनस्तुष्टिर्गृहभर्तुः प्रकीर्तिता ॥ ९ ॥
सुमुखे राज्यसन्मानं दुर्मुखे कलहः सदा ।
क्रूरव्याधिभयं क्रूरे सुपक्षं गोत्रवृद्धिकृत् ॥ १० ॥
धनदे हेमरत्नादि गाश्चैव लभते पुमान् ।
क्षयं सर्वक्षयं गेहमाक्रन्दं ज्ञातिमृत्युदम् ॥ ११ ॥
आरोग्यं विपुले ख्यातिर्विजये सर्वसम्पदः ।
यदि धन्ये द्वितीयोऽपि मुखालिन्दः प्रयुज्यते ॥ १२ ॥
तद् गृहं रम्यनामेह भर्तुः सौभाग्यकारकम् ।
मुखालिन्देन नन्दाख्यं द्वितीयेन सुयोजितम् ॥ १३ ॥
तच्छ्रीधरमिति ख्यातं तस्मिन् श्रीर्नित्यमाविशेत् ।
अलिन्दश्चेद् द्वितीयोऽपि कान्तस्यास्ये निवेश्यते ॥ १४ ॥
१ द. सव्यावृत्तं । २ ख. ॰वं । ३ द. ख. ध्रुव॰ ।

२. राज-प्रासाद, मन्दिर-वास्तु व स्तम्भ लक्षण (अध्याय १६-३५)

१२६ समराङ्गणसूत्रधारे
मुदितं तद् भवेद् भर्तुर्भूतिकृद् भवनोत्तमम् ।
सुमुखस्य यदालिन्दो वक्त्रेऽन्यो विनिवेश्यते ॥ १५ ॥
वर्धमानं तदा तत् स्यात् स्वामिलक्ष्मीविवर्धनम् ।
क्रूरं युक्तं द्वितीयेन मुखालिन्देन मन्दिरम् ॥ १६ ॥
करालं तद् विजानीयाद् भर्ता तस्य विनश्यति ।
अलिन्देन द्वितीयेन धनदं योजितं पुनः ॥ १७ ॥
सुनाभं तद् भवेत् तस्मिन् पशून् पुत्रानवाप्नुयात् ।
आक्रन्दस्य पुरोभागे यद्यलिन्दः कृतोऽपरः ॥ १८ ॥
ध्वाङ्क्षसंज्ञं गृहं तज्ज्ञा निन्दितं प्रवदन्ति तत् ।
द्वितीयालिन्दघटना विजयस्य मुखे यदि ॥ १९ ॥
तत् समृद्धीमिति ख्यातं गृहं स्यात् पुण्यकर्मणाम् ।
यान्युक्तानि ध्रुवादीनि पूर्ववेश्मानि षोडश ॥ २० ॥
शालाविभागं ज्ञात्वैषां तिर्यक् षड्दारु विन्यसेत् ।
षोडशान्ये च भेदाः स्युः संज्ञाश्चैषामनुक्रमात् ॥ २१ ॥
सुन्दरं वरदं भद्रं प्रमोदं विमुखं शिवम् ।
सर्वलाभं विशालं च विलक्षमशुभं ध्वजम् ॥ २२ ॥
उद्योतं भीषणं शून्यमजितं कुलनन्दनम् ।
नामभिर्वेश्मनामेषां गुणदोषान् प्रकल्पयेत् ॥ २३ ॥
यथार्थनामान्येतानि यस्मात् प्रोक्तान्यविस्तरात् ।
एभ्य एवापराणि स्युर्वेश्मान्यन्यानि षोडश ॥ २४ ॥
शालापुरोविनिर्युक्ततिर्यक्‌षड्दारुकारणात् ।
हंसं सुलक्षणं सौम्यं जयन्तं भव्यमुत्तमम् ॥ २५ ॥
रुचिरं सम्भृतं क्षेममाक्षेमं सुकृतं वृषम् ।
उच्छन्नं व्ययमानन्दं सुनन्दं चेति कीर्तितम् ॥ २६ ॥
एषामपि यथार्थत्वाद् गुणदोषान् निरूपयेत् ।
शालामध्ये च तिर्यक्स्थं षैड्दारु विनिवेशयेत् ॥ २७ ॥


१ क. ख. द. समृद्धिं । २ द. ˚न्येतानि । ३ द. भित्तिश्चैव निवेशयेत् ।

विहाय मर्मणां वेधानमीषामेव वेश्मनाम् ।
षोडशैव परेऽपि स्युर्भेदास्तांश्च यथाक्रमम् ॥ २८ ॥
कथयामः समासेन यथार्थैरेव नामभिः ।
अलङ्कृतमलङ्कारं रमणं पूर्णमम्बरम् ॥ २९ ॥
पुण्यं सुगर्भं कलशं दुर्गतं रिक्तमीप्सितम् ।
सुभद्रं वन्दितं दीनं विभवं सर्वकामदम् ॥ ३० ॥
शालान्तः स्थितषड्दारुपश्चादपवरैः कृतैः ।
एभ्योऽपरेऽपि निर्दिष्टा भेदाः षोडश वेश्मनाम् ॥ ३१ ॥
प्रभवं भाविकं क्रीडं तिलकं क्रीडनं सुखम् ।
यशोदं कुमुदं कालं भासुरं सर्वभूषणम् ॥ ३२ ॥
वसुधारं धनहरं कुपितं वित्तवृद्धिदम् ।
कुलोदयं च विज्ञेयं गुणदोषास्तु पूर्ववत् ॥ ३३ ॥
अनन्तरमिहोक्तानि यानि वेश्मानि षोडश ।
प्रत्येकं तान्यलिन्देन परिकु(ष्कु)र्याच्चतुर्दिशम् ॥ ३४ ॥
तद्भेदेभ्यः प्रसूतानि कथयामो विधानतः ।
चूडामणिं प्रभद्रं च क्षेमं शेखरमद्भुतम् ॥ ३५ ॥
विकाशं भूतिदं हृष्टं विरोधं कालपाशकम् ।
निरामयं सुशालं च रौद्रं मोघं मनोरथम् ॥ ३६ ॥
सुभद्रं चेति सदनं संज्ञाभिरुपलक्षयेत् ।
वेश्मनामेकशालानां शतं स्याच्चतुरुत्तरम् ॥ ३७ ॥
कथितं तच्च संस्थानैर्नामभिश्च यथाक्रमम् ।
हस्तिनी महिषी गावी छागली च यथाक्रमम् ॥ ३८ ॥
तद्द्रव्येन द्विपूर्वाणि ब्रूमो नामानि वेश्मनाम् ।
द्विहंसकं द्विचक्राह्वं द्विसारसमथापरम् ॥ ३९ ॥


१ द. ख. वञ्चितं । २ द. वृत्तिं । ३ द. परिकुर्याच्च तिर्यकम् ।

१२८ समराङ्गणसूत्रधारे
द्विकोकिलं बुधैः ख्यातं हस्तिन्यादेः क्रमाद् गृहम् ।
त्रीण्यायुःपशुधान्यानां क्रमादाद्यानि वृद्धये ॥ ४० ॥
एतेषामेव नाशाय भवेद् वेश्म द्विकोकिलम् ।
इत्येकशालभवनान्युदितान्यलिन्द-
षड्दारुकापवरकावरणादिभेदैः ।
संज्ञा च लक्षणफलैः करिणीमुखाभिः
शालाभिरेवमपराणि च र्युग्मजानि ॥ ४१ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
एकशाललक्षणफलद्विहंसादिलक्षणफलानि नाम त्रयोविंशोऽध्यायः ।
अथ द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः ।
कर्णशालानिबद्धानि मण्डपैरन्तरस्थितैः ।
असम्बाधाजिराणि स्युर्ह्लानि दश पञ्च च ॥ १ ॥
ईश्वरं वृषभं चन्द्रं रोगं पापं भयप्रदम् ।
नन्दनं खादकं ध्वाङ्क्षं विकृतं विलयं क्षयम्² ॥ २ ॥
याम्यं च विपरीतं च भद्रकं चेति नामतः ।
एतानि हलकाख्यानि विद्याद् गेहानि यत्नतः ॥ ३ ॥
अग्निरक्षोनिलेशानकोणं³ङ्गानां यथाक्रमम् ।
एकद्वित्रिचतुर्थाख्या हलकानां प्रकल्पयेत् ॥ ४ ॥
अनेन क्रमयोगेन च्छन्दोभेदा भवन्ति च ।
तत्राद्येनेश्वरं नाम हलकेन गृहं भवेत् ॥ ५ ॥
सर्वलक्षणसंयुक्तं सर्ववृद्धिफलप्रदम् ।
वृषभं तु द्वितीयेन पुत्रदारविवर्धनम् ॥ ६ ॥
१ क. युग्मलाभिः, द. ख. युग्मितानि । २ द. क्षमम् । ३ द. ख. कोणे भागां ।

द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः । १२९
प्रथमं च द्वितीयं च गृहे तु हलकं यदि ।
चन्द्रं वृद्धिकरं नृणां सर्वलक्षणसंयुतम् ॥ ७ ॥
वायव्यं हलकं यत्र रोगं रोगविवर्धनम् ।
प्रथमं च तृतीयं च गृहे तु हलकं यदि ॥ ८ ॥
पापं तन्नामतो वास्तु सर्वपापप्रयोजकम् ।
पित्रूरोगोक्तकोणाभ्यां भयदं रोगमृत्युवे ॥ ९ ॥
पित्रूरोगानिकोणेषु नन्दनं गृहमादिशेत् ।
सुखमर्थप्रदं शान्तं हलकं परिकीर्तितम् ॥ १० ॥
ईशान्यां तु चतुर्थेन खादकं खादकं गृहम् ।
लाङ्गलाद्या यदा शाला ईशान्यां च यदापरा ॥ ११ ॥
ध्वाङ्क्षं तन्नामतो वास्तु दरिद्राणां विधीयते ।
द्वितीया च चतुर्थी च शाला लाङ्गलके यदि ॥ १२ ॥
विकृतं विकृतावासं प्रवासोऽत्र कुटुम्बिनः ।
आद्या शाला द्वितीया च चतुर्थी च यदा पुनः ॥ १३ ॥
विलयं हानिदं नित्यं गृहं तद् वित्तनाशनम् ।
वायव्यं हलकं यस्मिन्नैशान्यां च यदा पुनः ॥ १४ ॥
क्षयं क्षयकरं नित्यं हलकेषु गृहं भवेत् ।
अग्निवायुमहेशानां शाला लाङ्गलके यदि ॥ १५ ॥
याम्यं मृत्युकरं नृणां न तत् कुर्यात् कदाचन ।
मारुते नैर्ऋतैशान्योः शालाकर्णेषु लाङ्गलम् ॥ १६ ॥
विपरीतं व्याधिकरं नृणां नाशकरं तथा ।
चतस्रो हलके यत्र प्रादक्षिणयमुखाः स्थिताः ॥ १७ ॥
भद्रकं नाम तद् वास्तु सर्वभद्रप्रयोजकम् ।
द्वारोच्छ्रायं सविस्तारं तलोच्छ्रायं च वेश्मनाम् ॥ १८ ॥
१ ख. रोगभयप्रदम् । २ क. पापकं नामतो । ३ क. यस्मिन्नीशान्यां । ४ द. ख. ज्ञेयं ।
५ द. ख. मुखास्तथा ।
वा, १७

१३० समराङ्गणसूत्रधारे
पीठस्य च समुत्सेधं भित्तिविस्तारमेव च ।
तथा दारुकलां(ला) चैव या प्रोक्ता गृहकर्मणि ॥ १९ ॥
एकशालाविधानं च तेषां नामानि यानि च ।
तत् संप्रति प्रवक्ष्यामो यथावदनुपूर्वशः ॥ २० ॥
षोडशानां समुद्देश्यो विंशतेरपि चापरः ।
विंशतेः^१ सचतुष्कायास्तथाष्टाविंशतेरपि ॥ २१ ॥
द्वात्रिंशतोऽपरश्चेति † पञ्च वर्गाधिपा मताः ।
शालाचतुर्थभागेन भित्तिविस्तार इष्यते ॥ २२ ॥
वर्गेषु भित्तिलक्ष्मोक्तं षोडशादिषु पञ्चसु ।
मर्मपीडा भवेद् यत्र भित्तिस्तम्भतुलादिभिः ॥ २३ ॥
कुर्वीत ह्रासं वृद्धिं वा तत्र मर्मव्यथां त्यजँन् ।
अतिसंवृतं^५विस्तारं कार्यमुद्दिश्य बुद्धिमान् ॥ २४ ॥
शालाप्रविष्टं कुर्वीत ‡ हीनवास्तुष्वलिन्दकम् ।
चतुरश्रीकृते क्षेत्रे भूमिभागे समीकृते ॥ २५ ॥
उपरिष्टाद् भवेत् पीठं * तलार्धसमुच्छ्रितम् ।
नियुक्ते तु ततः पीठे वास्तुविस्तारतोऽङ्गुलम् ॥ २६ ॥
प्रतिहस्तं समुद्धृत्य सप्तत्या सह योजयेत् ।
द्वारोच्छ्रायाः समाख्याता वर्गेषूक्तेषु पञ्चसु ॥ २७ ॥
उच्छ्रायार्धेन वैपुल्यमष्टांशेन विवर्जितम् ।
द्वारविस्तारपादांशो पट्टविस्तार इष्यते ॥ २८ ॥
विस्ताराध्र्धेन बाहल्यं सार्धं वेद्या तलोपरि ।
^७उत्तरोत्तरवैपुल्यं कुर्याच्छाखावशाद् बुधः ॥ २९ ॥
१ द. ख. समुदायाे । २ द. ख. विंशतेरपि चतुष्कायां । ३ क. ह्रासवृद्धिं । ४ क. त्यजेत् ।
५ क. ॰तं । ६ द. ख. विस्तरार्धेन बाहल्यं सार्धपेद्यातलोम्बरे (द. reads वेद्या) ।
७ द. उत्तरोम्बर॰
† ‘पञ्चसमुदायाः विप्रादीनां व्युत्क्रमेण यथा (यथं) योज्याः । व्यासस्येदं चेष्टमानम्’ इति,
‡ ‘पञ्च++++हीनवास्तुप्रमाणं तद्गृहं शालाख्यं तदन्तर्गतं षड्दारुकं कुर्यात्’ इति, * ‘तलशब्देन
प्रथमभूम्युच्छ्रायः’ इति च टिप्पणानि सन्ति क पुस्तके ।

द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः । १३१
वेद्या विस्तारंबाहल्ये विधेये शाखयोरपि ।
द्वारविस्तारपादेन मूले स्तम्भस्य विस्तृतिः ॥ ३० ॥
दशभागविहीनाग्रे पट्टः स्तम्भेन सम्मितः ।
स्तम्भाग्रस्य त्रिभागेने पट्टकोटिर्विधीयते ॥ ३१ ॥
हीरग्रहणमायामे स्तम्भाग्रात् तु चतुर्गुणम् ।
पट्टान्यान्युद्गवेत्(?) तत्र व्यासबाहुल्ययोस्तथा ॥ ३२ ॥
पट्टकोट्यर्थमुत्सेधादुत्सेधार्धेन निर्गतम् ।
तन्त्रकस्य प्रमाणं स्यादिति शास्त्रविदो विदुः ॥ ३३ ॥
द्रव्याण्युपर्युपर्यस्य परापरविभागतः ।
पट्टकोट्याश्चतुर्थेन प्रविभागेन हासयेत् ॥ ३४ ॥
पूर्वामुखं गृहं यत्तु द्वारं माहेन्द्रसंयुतम् ।
हस्तिनी च भवेच्छाला तद् गृहं भद्रसंज्ञितम् ॥ ३५ ॥
भद्रं भद्रकरं भर्तुर्यशोबलविवर्धनम् ।
सिध्यन्ति चास्य कार्याणि भद्राख्ये वसतो गृहे ॥ ३६ ॥
दक्षिणाभिमुखं वेश्म द्वारं चास्य गृहक्षतम् ।
महिषी च भवेच्छाला तद् गृहं नन्दपीठकम् ॥ ३७ ॥
नन्दपीठगृहं पुंसा नित्यानन्दकरं स्मृतम् ।
सर्वसम्पद्गुणोपेतं धनधान्यविवर्धनम् ॥ ३८ ॥
वारुण्यभिमुखं सद्म द्वारं च कुसुमाह्वयम् ।
गावी चैव भवेच्छाला सौरभं तद्विदुर्बुधाः ॥ ३९ ॥
सौरभे नित्यहृष्टत्वं वसतां गृहमेधिनाम् ।
सफलं कृषिवणिज्यं पुत्राश्च वशवर्तिनः ॥ ४० ॥
उत्तराभिमुखं धिष्ण्यं द्वारं भल्लाटसंयुतम् ।
छागली च भवेच्छाला पुष्कराख्यं तदुच्यते ॥ ४१ ॥
१ द. बाहुल्ये । २ द. ख. त्रिभागोनां ३ द. ख. पदान्यान्याङ्कवेत् । ४ द. ख. संमुखम् ।

१३२ समराङ्गणसूत्रधारे
शीलवान् नित्यसन्तुष्टः सुहृत्सुजनवत्सलः ।
सुभगः पुष्कराख्ये च बहुपुत्रधनान्वितः ॥ ४२ ॥
भद्रं च नन्दपीठं च सौरभं पुष्करं तथा ।
प्रथमार्धे तु वर्गस्य प्रथमस्य प्रयोजयेत् ॥ ४३ ॥
सर्वभद्रादिकाः सर्वेkey? सर्वभद्रादिकाः सर्वे निवेशा ये प्रकीर्तिताः ।
उत्पन्नास्ते विमानेभ्यः पञ्चभ्यः पञ्चपञ्चके ॥ ४४ ॥
द्वारस्य पीठस्य च मन्दिरेषु भित्तेश्च मानं कथितं क्रमेण ।
तथोदिता दारुकलास्तु सम्यक् प्रहीणवास्तोः सकलं च लक्ष्म ॥ ४५ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
द्वारपीठभित्तिमानदारुकलाहीनवास्तुलक्षणं नाम चतुर्विंशोऽध्यायः ॥
अथ समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः ॥
वेश्मनां पञ्चशालानां कथ्यन्ते लक्षणान्यथ ।
चतुर्विंशतिसंयुक्तं सहस्रं तानि सङ्ख्यया ॥ १ ॥
गुरूणां दशसङ्ख्यानां प्रस्तारस्य च कल्पनात् ।
गृहाणां पञ्चशालानां भेदा लघुविभागतः ॥ २ ॥
पञ्चशालं भवेद् योगाद् गृहयोर्द्वित्रिशालयोः ।
यद्वा योगाद् भवेदेतच्चतुःशालैकशालयोः ॥ ३ ॥
चतुर्णामपि वर्णानामिदं सद्म प्रशस्यते ।
हिरण्यनाभप्रभृति वर्णानामिह वेश्मनाम् ॥ ४ ॥
सिद्धार्थादिसमायोगान्निष्पद्येत गृहाष्टकम् ।
योगाद्धिरण्यनाभस्य सिद्धार्थेन गृहं भवेत् ॥ ५ ॥
१ ख. संहृष्टसुहृत्स्वजन°, द. संहृष्टमुहृत्स्वजन° । २ द. उत्पन्ना ये । ३ द. ख. अयंश्रोको नास्ति ।
४ द. ख. चतुर्णांमि° ।

समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः । १३३
हेमकृटाख्यमस्यैव वातेन स्वर्णशेखरम् ।
सुक्षेत्रस्य च सिद्धार्थसंयोगेन श्रियावहम् ॥ ६ ॥
तस्यैव यमसूर्येण भवेद् वेश्म महानिधिः ।
चुल्लयास्तु यमसूर्येण सदादीप्तं प्रजायते ॥ ७ ॥
दण्डसंयोगतस्तस्य चित्रभान्वभिधं भवेत् ।
पक्षघ्नस्य तु दण्डेन सदा॑दोषं विनिर्दिशेत् ॥ ८ ॥
पक्षघ्नस्यैव वातेन योगात्रिर्विघ्नमुच्यते ।
न काचचुल्लीसंयोगस्त्रिशालादिषु शस्यते ॥ ९ ॥
अन्योन्यवीक्ष्यमाणानां भेदास्तेनेह नोदिताः ।
एकशालयुतै (ते) र्भेदाः स्युश्चतुश्शालवेश्मनि ॥ १० ॥
चत्वारः पञ्चशालानां ब्रूमस्तेषां च विंशतिः ।
यदा भवत्यजा शाला सर्वतोभद्रवेश्मनो ॥ ११ ॥
सुदर्शनमिति प्राहुः पञ्चशालं तदा गृहम् ।
तदेव करिणीयोगात् सुरूपमिति कथ्यते ॥ १२ ॥
सुन्दरं महिषीयोगाद् गावीयोगात्तु शोभनम् ।
वर्धमानस्य चैतासां शालानां योगतः क्रमात् ॥ १३ ॥
सुनाभं सुप्रभं योग्यं विनोदं च भवेद् गृहम् ।
नन्द्यावर्तेऽप्येवमेव शालायोगेन जायते ॥ १४ ॥
सुखदं नन्दनं नन्दं पुण्डरीकं च मन्दिरम् ।
रुचकस्याप्यजादीनां योगेन स्युरनुक्रमात् ॥ १५ ॥
नामतो भद्ररुचिररोचिष्णूनि प्रहर्षणम् ।
स्वस्तिकेऽप्यनया युक्त्या भवेद् गृहचतुष्टयम् ॥ १६ ॥
घोषं सुघोषणं नन्दिघोषं श्रीपद्ममेव च ।
विंशतिः सर्वतोभद्रप्रभृत्यालययोगतः ॥ १७ ॥
१ द. ख. स्वक्षेत्रस्य तु । २ द. ख. सदातोषं । ३ द. वक्ष्यमाणानां । ४ ख. नाम् ।
५ द. सुनंदं । ६ शा. निन्दिं ।

१३४ समराङ्गणसूत्रधारे
जातानि पञ्चशालानि योग्यानि पृथिवीभुजाम् ।
पूर्वोक्तैरष्टभिः सार्धं स्यादष्टाविंशतिर्गृहैः ॥ १८ ॥
† कथ्यते पञ्चशालानां मूषाभेदक्रमोऽधुना ।
विभद्रमेकं तत्रैकं१भद्राणि दशसङ्ख्यया ॥ १९ ॥
द्विभद्राणि पुनः पञ्चचत्वारिंशत् प्रचक्षते ।
त्रिभद्राणां शतं विंशत्युत्तरं द्वे दशोत्तरे ॥ २० ॥
चतुर्भद्रगृहाणां तु द्विपञ्चाशच्छतद्वयम् ।
गृहाणां पञ्चभद्राणां षड्भद्राणां दशोत्तरे ॥ २१ ॥
द्वे शते सप्तभद्राणां स्याद् विंशत्युत्तरं शतम् ।
गृहाणामष्टभद्राणां चत्वारिंशच्च पञ्च च ॥ २२ ॥
दश स्युर्नवभद्राणि तथैकं दशभद्रकम् ।
एवं सहस्रमेकं स्याद् विंशतिश्च चतुर्युता ॥ २३ ॥
गृहाणां पञ्चशालानां मूषावहनसङ्ख्यया ।
अथ लक्ष्म च संख्यां च ब्रूमः षट्शालवेश्मनाम् ॥ २४ ॥
एकद्वित्रिचतुश्शालगृहाणां योजनान्मिथः ।
द्विशालस्यैकशालस्य त्रिशालस्य च योगतः ॥ २५ ॥
षट्शालं जायते वेश्म भेदास्तस्य तु षोडश ।
पक्षघ्नावतयोर्योगादेकशालगृहस्य च ॥ २६ ॥
स्यात् पङ्कजाङ्कुरं नाम गृहं षट्शालमुत्तमम् ।
हिरण्यनाभं सिद्धार्थं चैकशालेन वेश्मना ॥ २७ ॥
संयोज्यं तु य३दा गेहं तदा स्याच्छ्रीगृहं शुभम् ।
संयोगादेकशालेन सुक्षेत्रयमत्सूर्ययोः ॥ २८ ॥
धनेश्वरं नाम गृहं जायते धनवृद्धये ।
दण्डाख्यचुल्ल्योः संयोगादेकशालगृहस्य च ॥ २९ ॥
१ क. तत्रैव । २ क. शाले सुयोजितम् । ३ क. सदा ।
† ' अमीषामष्टाविंशतीनां (?) मध्ये एकतमस्य मूषाभेदे कृते एतावन्ति रूपाणि भवन्ति' इति
टिप्पणमस्तिकपुस्तके ।

समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चत्रिंशोऽध्यायः । १३५
प्रभूतकाञ्चनकरं गृहं स्यात् काञ्चनप्रभम् ।
द्वादशान्यानि जानीयाद् भवनान्यनया दिशा ॥ ३० ॥
एतेषामेव भेदेषु शुभान्यखिलवर्णिनाम् ।
तुल्यात् त्रिशालद्वितयात् षट्शालकचतुष्टयम् ॥ ३१ ॥
स्याद् द्विशालचतुःशालयोगादन्यच्चतुष्टयम् ।
सिद्धार्थेन चतुःशालं वेश्मनां संयुतिर्य?(यं) दा ॥ ३२ ॥
गृहं तदा स्यात् षट्शालं त्रैलोक्यान्दकं शुभम् ।
यमसूर्येण संयुक्तं विलासचयमुच्यते ॥ ३३ ॥
दण्डयुक्तं चतुःशालं सुखदं नामतो भवेत् ।
वातेन च चतुःशालं संयुक्तं श्रीपदं भवेत् ॥ ३४ ॥
चतुर्विंशतिरेन्यानि षट्शालान्यन्ययोगतः ।
पञ्च यानि चतुश्शालान्युचितानि महीभृताम् ॥ ३५ ॥
तेषां द्विशालयोगेन षट्शालान्यभिदध्महे ।
सिद्धार्थे सर्वतोभद्रयुक्ते स्याच्छ्रीपुरं गृहम् ॥ ३६ ॥
श्रीवासं सर्वतोभद्रे यमसूर्यान्विते भवेत् ।
दण्डाख्ये भद्रयुक्ते श्रीभूषणं जायते गृहम् ॥ ३७ ॥
वाताख्यं सर्वतोभद्रयोगाच्छ्रीभाजनं विदुः ।
सिद्धार्थे वर्धमानेन युक्ते स्याद् भूतिमण्डनम् । ३८ ॥
यमसूर्ये तु तेनैव संयुक्ते भूतिभाजनम् ।
भूतिमानं तु दण्डाख्ये वाताख्ये भूतिभूषणम् ॥ ३९ ॥
नन्द्यावर्तस्य योगेन सिद्धार्थादि चतुष्टयम् ।
श्रीमुखं श्रीधरं श्रीमूँच्छ्रीध(क)रं चेति जायते ॥ ४० ॥
सिद्धार्थादिचतुष्कस्य भवेद् रुचकयोगतः ।
श्रियाकारं श्रियोवासं श्रीद्यानं श्रीमुखं तथा ॥ ४१ ॥
१ द. ख. त । २ द. ख. युक्तं तु वि० । ३ द. ख. रेतानि । ४, ५ द. ख. स्त्री ।
६ क. संयुक्ते भूति० । ७ क. ख. द. धीकृन् ।

१३६ समराङ्गणसूत्रधारे
सिद्धार्थादिचतुष्कस्य भवेत्१ स्वस्तिकयोगतः ।
धनपालधनानन्तधनप्रदधनाह्वयम् ॥ ४२ ॥
भवन्त्येवं राजवेश्मयोगतो विंशतिर्गृहाः ।
प्राक् चतुर्विंशतिश्चेति चत्वारिंशच्चतुर्युता ॥ ४३ ॥
मृषाव्यूढिवशादेकभद्रादीन्यभिदध्महे ।
भिँदाभिरेकं(?)२मृषाभिरभद्रं द्वादशैकया ॥ ४४ ॥
द्वाभ्यां षट्षष्टिरुद्दिष्टा विंशे द्वे निस्तृभिः शते३ः(ते) ।
स्याद् व्यूढाभिश्चतसृभिः पञ्चोनं शतपञ्चकम् ॥ ४५ ॥
शतानि पञ्चभद्राणां सप्त द्वानवतिस्तथा ।
चतुर्विंशा नवशती षड्भद्राणामुदाहृता ॥ ४६ ॥
जानीयात् सप्तभद्राणि संख्यया पञ्चभद्रवत् ।
गृहाणामष्टभद्राणां पञ्चोनं शतपञ्चकम् ॥ ४७ ॥
द्वे विंशे नवभद्राणां भवनानां शते विदुः ।
षट्षष्टिर्दशभद्राणि तथा द्वादशसङ्ख्यया ॥ ४८ ॥
स्युरेकादशभद्राख्यान्येकं द्वादशभद्रकम् ।
एवं षट्शालगेहानां स्यात् साहस्रचतुष्टयम् ॥ ४९ ॥
षण्णवत्यधिकं ब्रूमः सप्तशालानि साम्प्रतम् ।
तुल्यं त्रिशालद्वितयमेकशालेन युज्यते ॥ ५० ॥
यदा स्युः सप्तशालानि तदा द्वादशसङ्ख्यया ।
एकशालं द्विशालं चं४ चतुःशालेन युज्यते ॥ ५१ ॥
यदा तदा सप्तशालमपरं वेश्म जायते ।
सैकशालं चतुःशालं यमसूर्येण संयुतम् ॥ ५२ ॥
तँदा५ भवेद् विभेदः (?) स्यात् तद्गृहं श्रीप्रदायकम् ।
वातेन श्रीपदं तद्वद् दण्डेन श्रीप्रदं भवेत् ॥ ५३ ॥
१ द. ख. स्वस्तिकालययोगतः । २ द. ख. तुद्वाभिरेकम् । ३ क. तैः । ४ क. वा ।
५ द. ख. यदा । ६ द. ख. प्र.°

समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः । १३७
सिद्धार्थकेन श्रीमालं तद्भूदेव प्रजायते ।
पञ्चानां राजयोग्यानां स्युश्चतुश्शालवेश्मनाम् ॥ ५४ ॥
सप्तशालानि संयोगादेकशालद्विशालयोः ।
युज्यते सर्वतोभद्रं सिद्धार्थं च यदा गृहम् ॥ ५५ ॥
एकशालेन जायेत श्री१पदं श्री२पदं तथा ।
सर्वतोभद्रगेहस्य यमसूर्यैकशालयोः ॥ ५६ ॥
योगेन श्रीफलं नाम स्याद् गृहं श्रीफलावहम् ।
सर्वतोभद्रदण्डाभ्यामेकशालं युतं यदा ॥ ५७ ॥
श्रीस्थलं नाम भवनं तदा स्यादास्पदं श्रियः ।
स्यादेकशाले मिलिते सर्वतोभद्रवातयोः ॥ ५८ ॥
लक्ष्मीनिवासभवनं गृहं श्रीतनुसंज्ञितम् ।
यदैकशालं सिद्धार्थं वर्धमानं च युज्यते ॥ ५९ ॥
श्रीपर्वताभिधानं स्यात् तदानीं भवनोत्तमम् ।
यमसूर्यस्य योगेन वर्धमानैकशालयोः ॥ ६० ॥
श्रीवर्धनं नाम गृहं श्रियो वृद्धिकरं भवेत् ।
दण्डं च वर्धमानं चै३सैकशालं यदा भवेत् ॥ ६१ ॥
तदा श्रीसँङ्गमं नाम भवेद् भवनमुत्तमम् ।
यदैकशालं वातारूयं वर्धमानं च युज्यते ॥ ६२ ॥
भवनं श्री४प्रैसङ्गाख्यं नृपयोग्यं तदा भवेत् ।
सिद्धार्थमेकशालेन नन्द्यावर्तेन चान्वितम् ॥ ६३ ॥
श्रीभारं नाम भवनं भवेद् भूपालसेवितम् ।
नन्द्यावर्तस्य योगेन यमसूर्यैकशालयोः ॥ ६४ ॥
राज्ञां सुखावहं वेश्म श्रीभारमिति च स्मृतम् ।
श्रीशैलमेकशालेन स्यान्नन्द्यावर्तदण्डयोः ॥ ६५ ॥
१, २ द. ख. प्र.°, ३ द. ख. तु । ४, ५ द. ख. स्त्री ।
व', १८

१३८ समराङ्गणसूत्रधारे
योगाद् भोगावहं राज्ञां सप्तशालं गृहोत्तमम् ।
एकशालस्य योगेन स्यान्नन्द्यावर्तवातयोः ॥ ६६ ॥
श्रीखण्डं नाम भवनं भूभृतां भूतिकृद् भवेत् ।
सिद्धार्थस्यैकशालेन संयोगाद् रुचकस्य च ॥ ६७ ॥
श्रीषण्डं नामतो वेश्म भवेद् योग्यं महीभृताम् ।
रुचकस्यैव योगेन यमसूर्यैकशालयोः ॥ ६८ ॥
स्याच्छ्रीनिधानं श्रीकुण्डं तस्य दण्डैकशालयोः ।
वातैकशालरुचकैर्युक्तैः श्रीनाभमुच्यते ॥ ६९ ॥
भवनं भूमिपालानां तद् भवेद् भूतिदायकम् ।
एकशालेन युज्येते सिद्धार्थस्वस्तिके यदा ॥ ७० ॥
श्रीप्रियं स्यात् तदा वेश्म सन्ततं वल्लभं श्रियः ।
यमसूर्यैकशालाभ्यां स्वस्तिकं युज्यते यदा ॥ ७१ ॥
तदा श्रीकान्तमित्याहुर्भवनं भूभृतां हितम् ।
एकशालेन संयोगो दण्डस्वस्तिकयोर्यदा ॥ ७२ ॥
श्रीमंतं नामतो वेश्म तदा स्याद् विजयावहम् ।
वातस्वस्तिकसंयोगमेकशालं यदा व्रजेत् ॥ ७३ ॥
श्रीप्रदत्तमिति प्राहुस्तदा वेश्म महीभृताम् ।
एकैकस्य द्विभेदत्वाच्चत्वारिंशादियं भवेत् ॥ ७४ ॥
एवमत्र प्रकाराः स्युश्चत्वारिंशद् युताष्टभिः ।
यदा त्रिशालं भवनं चतुश्शालेन युज्यते ॥ ७५ ॥
तदापि सप्तशालं स्याच्चतुर्भेदं समासतः ।
पञ्चानां राजगेहानां मिलत्येकतमस्य चेत् ॥ ७६ ॥
त्रिशालं स्यात् तदा सप्तशालं विंशतिभेदवत् ।
हिरण्यनाभं भो(यो)गेन सर्वतोभद्रमन्दिरम् ॥ ७७ ॥

१ द. ख. श्रीघण्टं नां । २ द. ख. स्त्री । ३ क. ख. द. भागेन ।

समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः । १३९
श्रीवत्सं जनयेद् वेश्म नरेन्द्राणां हितावहम् ।
श्रीवृक्षं सर्वतोभद्रे सुक्षेत्रे मिलिते भवेत् ॥ ७८ ॥
चुल्लीयुक्ते पुनस्तस्मिन् श्रीपालं नाम जायते ।
पक्षघ्ने सर्वतोभद्रयुक्ते श्रीकण्ठमुच्यते ॥ ७९ ॥
हिरण्यनाभे श्रीवासं वर्धमानयुते भवेत् ।
श्रीनिवासं तु सुक्षेत्रे वर्धमानेन मिश्रिते ॥ ८० ॥
वर्धमानेन चुल्ल्या च गृहं श्रीभूषणं विदुः ।
पक्षघ्नं वर्धमानेन यदा संयोगमृच्छति ॥ ८१ ॥
तदा श्रीमण्डनं नाम जायते भवनोत्तमम् ।
जाते हिरण्यनाभस्य नन्द्यावर्तेन सङ्गमे ॥ ८२ ॥
स्याद् वेश्म श्रीकुलं नाम श्रियः कुलनिकेतनम् ।
नन्द्यावर्तेन सुक्षेत्रे युक्ते श्रीगोकुलं भवेत् ॥ ८३ ॥
नन्द्यावर्तस्य चुल्ल्याश्च योगे श्रीस्थावरं गृहम् ।
नन्द्यावर्तस्य पक्षघ्नयोगे कुम्भं प्रजायते ॥ ८४ ॥
हिरण्यनाभरुचकयोगे स्याच्छ्रीसमुद्गकम् ।
श्रीनन्दं नाम सुक्षेत्रे रुचकाख्येन संयुते ॥ ८५ ॥
चुल्ल्यां रुचकयुक्तायां श्रीह्रदं नाम जायते ।
श्रीधरं नाम पक्षघ्ने भवेद् रुचकसंयुते ॥ ८६ ॥
हिरण्यनाभेन युते स्वस्तिके श्रीकरण्डकम् ।
सुक्षेत्रेण युते तस्मिन् श्रीभाण्डागारसंज्ञितम् ॥ ८७ ॥
चुल्लीयुते श्रीनिलयं भवेन्नरपतिप्रियम् ।
स्वस्तिकस्य यदा योगः पक्षघ्नेन प्रजायते ॥ ८८ ॥
श्रीनिकेतनसंज्ञं स्यात् तदा नृपनिमन्दिरम् ।
उक्तानि सप्तशालानि नामलक्षणयोगतः ॥ ८९ ॥
सर्वाणि सार्वभौमानां नृपाणां मन्त्रिणामपि ।
भवन्ति च सतां वित्तयशोविजयवृद्धये ॥ ९० ॥

१४० समराङ्गणसूत्रधारे
एकादिमूषावहनप्रभेदादथ वेश्मनाम् ।
एतेषां सप्तशालानां ब्रूमः संख्यामनुक्रमात् ॥ ९१ ॥
† वहत्येकापि नो यन्त्र मूषैकं तद् भवेद् गृहम् ।
विभद्रमेकभद्राणि विजानीयाच्चतुर्दश ॥ ९२ ॥
द्विभद्रवेश्मनां सैका नवतिः परिकीर्तिता ।
भवनानां त्रिभद्राणां चतुःषष्टिः शतत्रयम् ॥ ९३ ॥
सहस्त्रमेकाभ्यधिकं स्याच्चतुर्भद्रवेश्मनाम् ।
भवतः पञ्चभद्राणां द्वे सहस्रे द्विसंयुते ॥ ९४ ॥
षड्भद्राणां सहस्राणि त्रीणि त्रीणि गृहाणि च ।
द्वात्रिंशतां चतुस्त्रिंशत् सप्तभद्रशतानि च ॥ ९५ ॥
अष्टभद्राणि षड्भद्रसङ्ख्यातुल्यानि जायते(?) ।
गृहाणां नवभद्राणां द्वे सहस्रे तथा द्वयम् ॥ ९६ ॥
सहस्रं दशभद्राणामेकोत्तरमुदाहृतम् ।
तथैकादशभद्राणां चतुष्षष्ट्या शतत्रयम् ॥ ९७ ॥
सैका द्वादशभद्राणां नवतिर्वेश्मनां भवेत् ।
स्युस्त्रयोदशभद्राणि गृहाणीह चतुर्दश ॥ ९८ ॥
यच्चतुर्दशभिर्भद्रैरेकमेव हि वेश्म तत् ।
इत्येषां सप्तशालानां सहस्राण्यत्र षोडश ॥ ९९ ॥
४एकोनत्रिंशती तद्वदशीतिश्चतुरुत्तरा ।
इदानीमष्टशालानि भवनान्यभिदध्महे ॥ १०० ॥
बहिरन्तैश्चतुःशालद्वयादेकं समासतः ।
अन्यानि सर्वभद्रादिद्वयसंयोगतो दश ॥ १०१ ॥
एकोनत्रिंशता क्षेत्रं चतुरश्रं विभाजयेत् ।
भागद्वयेन मूषा स्याच्छाला भागचतुष्टयात् ॥ १०२ ॥


१ द. ख. द्वात्रिंशानि । २ द. ख. शतभं । ३ द. ख. ॰र्भि॰ । ४ क. 'एकात्र त्रि' ।
५ क. त्र चतु । ६ द. ॰विंशता ।
† 'रत्र यस्यां सप्तशालजातौ एकापि मूषा यद् गृहं न वहति न प्राप्नोति, तदेकं गृहं विभद्रं
भवेत्' इति टिप्पणमस्ति क पुस्तके ।

समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः । १४१
कुर्वीत पञ्चभिर्भागैस्तन्मध्येऽङ्गणवापिकाम् ।
चतस्रश्च प्रतिदिशं मूषाः स्युस्तत्र वास्तुनि ॥ १०३ ॥
शालयोनं सप्तशालं षट्शालं द्वितयोज्झितम् ।
त्रिहीनं पञ्चशालं स्यादष्टशालमिदं क्वचित् ॥ १०४ ॥
तुल्यत्रिशालद्वितयं द्विशालेन युतं यदा ।
अष्टौ तदाष्टशालानि गृहाण्यन्यानि निर्दिशेत् ॥ १०५ ॥
मूषाव्यूढिवशादष्टशालानामथ कथ्यते ।
सङ्ख्या तत्र विभद्रं स्याद्वहन्मूषसंज्ञितम् ॥ १०६ ॥
षोडशैवकभद्राणि द्विभद्राणां शतं विदुः ।
विंशं षष्ट्या त्रिभद्राणां विज्ञेयं शतपञ्चकम् ॥ १०७ ॥
अष्टादशाहुर्विंशानि चतुर्भद्रशतानि च ।
पञ्चभद्रसहस्राणि चत्वारि स्युः शतत्रयम् ॥ १०८ ॥
अष्टषष्टिश्च गेहानि तानि सम्यग् विभावयेत् ।
सहस्राष्टकमष्टौ च षड्भद्राणि प्रचक्षते ॥ १०९ ॥
एकादशसहस्राणि तथा शतचतुष्टयम् ।
जानीयात् सप्तभद्राणि चत्वारिंशद् गृहाणि च ॥ ११० ॥
द्वादशैवाष्टभद्राणां सहस्राणि शताष्टकम् ।
सप्तत्याभ्यधिकं प्राहुर्वास्तुविद्याविशारदाः ॥ १११ ॥
एकादशसहस्राणि तथा शतचतुष्टयम् ।
चत्वारिंशच्च गेहानि नवभद्राणि सङ्ख्यया ॥ ११२ ॥
अष्टौ स्युर्दशभद्राणां सहस्राण्यष्टभिः सह ।
तथैकादशभद्राणां सङ्ख्या स्यात् पञ्चभद्रवत् ॥ ११३ ॥
अष्टादशशतानि स्युर्विंशतिर्भवनानि च ।
५इति द्वादशभद्राणां सङ्ख्या भवति वेश्मनाम् ॥ ११४ ॥
१ द. ॰न्वि॰ । २ द. ख. ॰द्वं॰ । ३ द. दश॰ । ४ द. ख. ॰सहस्राणि विंश॰ ।
५ द. इत्याख्या दश॰ ।

१७२ समराङ्गणसूत्रधारे
स्यात् त्रयोदशभद्राणां षष्ट्यग्रं शतपञ्चकम् ।
स्याच्चतुर्दशभद्राणां विंशत्यभ्यधिकं शतम् ॥ ११५ ॥
वेश्मानि स्युस्तथा पञ्चदशभद्राणि षोडश ।
एकमेव हि विज्ञेयं गृहं षोडशभद्रकम् ॥ ११६ ॥
† पञ्चषष्टिसहस्राणि षट्त्रिंशं शतपञ्चकम् ।
गृहाणामष्टशालानां भवत्येकत्र सङ्ख्यया ॥ ११७ ॥
स्यात् समानचतुश्शालद्वययोगात् समासतः ।
एकैकशालयोगाच्च नवशालचतुष्टयम् ॥ ११८ ॥
सर्वतोभद्रमुख्यानां मिथो द्वितययोगतः ।
एकैकशालयोगाच्च चत्वारिंशत् तथापरा ॥ ११९ ॥
तुल्यत्रिशालत्रितययोगेन च चतुष्टयम् ।
गृहाणां नवशालानामन्यदुक्तं पुरातनैः ॥ १२० ॥
संस्थानमुक्तं गेहानां नवशालात्मनामिदम् ।
मूषावहनभेदेन तत्सङ्ख्या कथ्यतेऽधुना ॥ १२१ ॥
अवहन्मूषमेकं स्याद् वहन्त्याष्टादशैकया ।
द्वाभ्यां शतं त्रिपञ्चाशदधिकं वेश्मनां भवेत् ॥ १२२ ॥
तिसृभिः स्युः शतान्यष्टौ सह षोडशभिर्गृहैः ।
षष्ट्या सहस्रत्रितयं ताभिश्चतसृभिर्भवेत् ॥ १२३ ॥
पञ्चाशीतिशतान्यष्टषष्टियुक्तानि पञ्चभिः ।
वहन्तीभिः प्रजायन्ते मूषाभिरिह वेश्मनाम् ॥ १२४ ॥

१ द. भद्राणां भं° । २ द. ख. °न्त्यष्टा° ।

| † अष्टशालगृहाणामैक्यं ६५५३६ षोडशगुरुणां प्रस्तारे | गृह १ | १६ | १२० | ५६० | १८२० | ४३६८ | ८००८ | ११४४० | १२८७० |
| | भद्र ० | १ | २ | ३ | ४ | ५ | ६ | ७ भद्र | ८ |
| | भद्र १६ | १५ | १४ | १३ | १२ | ११ | १० | ९ भद्र | • |

इति टिप्पणं दत्तमस्ति क पुस्तके ॥