सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 204, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 204

समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः । १३९
श्रीवत्सं जनयेद् वेश्म नरेन्द्राणां हितावहम् ।
श्रीवृक्षं सर्वतोभद्रे सुक्षेत्रे मिलिते भवेत् ॥ ७८ ॥
चुल्लीयुक्ते पुनस्तस्मिन् श्रीपालं नाम जायते ।
पक्षघ्ने सर्वतोभद्रयुक्ते श्रीकण्ठमुच्यते ॥ ७९ ॥
हिरण्यनाभे श्रीवासं वर्धमानयुते भवेत् ।
श्रीनिवासं तु सुक्षेत्रे वर्धमानेन मिश्रिते ॥ ८० ॥
वर्धमानेन चुल्ल्या च गृहं श्रीभूषणं विदुः ।
पक्षघ्नं वर्धमानेन यदा संयोगमृच्छति ॥ ८१ ॥
तदा श्रीमण्डनं नाम जायते भवनोत्तमम् ।
जाते हिरण्यनाभस्य नन्द्यावर्तेन सङ्गमे ॥ ८२ ॥
स्याद् वेश्म श्रीकुलं नाम श्रियः कुलनिकेतनम् ।
नन्द्यावर्तेन सुक्षेत्रे युक्ते श्रीगोकुलं भवेत् ॥ ८३ ॥
नन्द्यावर्तस्य चुल्ल्याश्च योगे श्रीस्थावरं गृहम् ।
नन्द्यावर्तस्य पक्षघ्नयोगे कुम्भं प्रजायते ॥ ८४ ॥
हिरण्यनाभरुचकयोगे स्याच्छ्रीसमुद्गकम् ।
श्रीनन्दं नाम सुक्षेत्रे रुचकाख्येन संयुते ॥ ८५ ॥
चुल्ल्यां रुचकयुक्तायां श्रीह्रदं नाम जायते ।
श्रीधरं नाम पक्षघ्ने भवेद् रुचकसंयुते ॥ ८६ ॥
हिरण्यनाभेन युते स्वस्तिके श्रीकरण्डकम् ।
सुक्षेत्रेण युते तस्मिन् श्रीभाण्डागारसंज्ञितम् ॥ ८७ ॥
चुल्लीयुते श्रीनिलयं भवेन्नरपतिप्रियम् ।
स्वस्तिकस्य यदा योगः पक्षघ्नेन प्रजायते ॥ ८८ ॥
श्रीनिकेतनसंज्ञं स्यात् तदा नृपनिमन्दिरम् ।
उक्तानि सप्तशालानि नामलक्षणयोगतः ॥ ८९ ॥
सर्वाणि सार्वभौमानां नृपाणां मन्त्रिणामपि ।
भवन्ति च सतां वित्तयशोविजयवृद्धये ॥ ९० ॥