समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
'षट्पदः स्यात् ततो मित्रः काष्ठायां पत्युरम्भसः ।
कर्णेऽपरोत्तरे यक्ष्मा रुद्रश्च पदिकावुभौ ॥ ४ ॥
षड्भिः पदैस्ततः सौम्ये निश्चलः पृथिवीधरः ।
आपस्तथापवत्सश्च पदिकावीशदिग्गतौ ॥ ५ ॥
इत्यन्तःसंश्रया देवाः प्रोक्ता ब्रूमो बहिःस्थितान् ।
ज्ञेयं प्रदक्षिणं तेषां स्थानं पूर्वोत्तरादितः ॥ ६ ॥
^२अग्निस्तदनु पर्जन्यो जयन्तश्चेन्द्र एव च ।
रविः सत्यो भृशश्चेति नभस्तस्मात् ततोऽनिलः ॥ ७ ॥
पूषाख्यो वितथाख्यश्च गृहक्षतयमावथ ।
गन्धर्वो भृङ्गराजश्च मृगः पितृगणस्ततः ॥ ८ ॥
दौवारिकोऽथ सुग्रीवः पुष्पदन्तो ^३जलेश्वरः ।
असुरः शोषनामा च पापयक्ष्मा ततः परम् ॥ ९ ॥
रोगो नागश्च मुख्यश्च भल्लाटः सोम एव च ।
चरकोऽथादितिर्दैत्यमातेति पददेवताः ॥ १० ॥
वह्नेर्वायोः पितॄणां च व्याधेश्चैव क्रमाद् बहिः ।
चरकी च विदारी च पूतना पापराक्षसी ॥ ११ ॥
पदै^४भोगोऽस्ति नैतासां स्थानमेव हि केवलम् ।
^५पदभोगमथ ब्रूमो बहिःस्थानां नभःसदाम् ॥ १२ ॥
तत्राष्टौ द्विपदाधीशा जयन्तो भृश एव च ।
वितथो भृङ्गसुग्रीवशोषमुख्यास्तथादितिः ॥ १३ ॥
एभ्यः शेषा बहिर्ये तु ते स्युः पदभुजः सुराः ।
एकाशीतिपदे प्रोक्तो देवतानां पदक्रमः ॥ १४ ॥
चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते ।
भवेच्छतपदो वास्तुर्ब्रूमोऽत्राप्यमरस्थितिम् ॥ १५ ॥
१ द. षट्पदाम्यन्तरो । २ ख. ईशस्तं । ३ क. जलोद्विपः (? जलाधिपः) । ४ द. पदभागो ।
५ द. पदभागं ।
वास्तुत्रयविभागो नामैकादशोऽध्यायः । ५३
द्विरष्टगुणिनं मध्ये पदमेकं पितामहः ।
भुङ्क्ते शतपदे वास्तौ चतुर्गुणितमर्यमा ॥ १६ ॥
विवस्वतोऽथ मित्रस्य तद्वच्च पृथिवीभृतः ।
भोगमिच्छन्ति वै तेषामर्यम्ण इव सूरयः ॥ १७ ॥
सवित्राद्यापवत्सान्ता ये च नोक्ताः सुरोत्तमाः ।
यथैकाशीतिके तद्वत् तेषां भोगः पदाष्टकम् ॥ १८ ॥
अग्न्यन्तरिक्षपवना मृगश्च पित¹रोऽपि च ।
रोगोऽदिनिस्तथाध्यर्धपदभाजो बहिः स्थिताः ॥ १९ ॥
चतुर्विंशन्निरुक्ता ये पर्जन्याद्याः सुरोत्तमाः ।
अदित्यन्ता द्विपदिकास्ते शेषं प्राक् प्रसाधितम् ॥ २० ॥
चतुरश्रीकृते क्षेत्रे पूर्ववद् भाजितेऽष्टभिः ।
चतुःषष्टिपदो वास्तुश्चतुःषष्ट्या पदैर्भवेत् ॥ २१ ॥
अस्मिन् पदानि चत्वारि भुनक्त्यन्तः पितामहः ।
अर्यमाद्याः सुराश्चात्र द्वे द्वे मध्यगताः पदे ॥ २२ ॥
मध्येऽष्टौ बाह्यतोऽष्टौ ये स्थिताः कर्णेषु चाष्टसु ।
ये देवाः सर्व एवात्र ते पदार्धभुजः स्मृताः ॥ २३ ॥
²पर्जन्योऽथ भृशः पूषा भृङ्गदौवारिकौ तथा ।
शोषनागादितिप्रान्ताः स्युरध्यर्धपदस्पृशः ॥ २४ ॥
³जयन्तादिषु बाह्येषु चरकान्तेषु कीर्तिता ।
प्रत्येकं षोडशस्वत्र सुरेषु द्विपदस्थितिः ॥ २५ ॥
सिरां वह्निपदादूर्ध्वं नयेत् ⁴पितृपदान्ततः ।
⁵बाह्याशानिर्गतां चैनां रोगनामानमानयेत् ॥ २६ ॥
द्विनाम्नः प्रापयेद् भृङ्गं भृङ्गात् सुग्रीवमानयेत् ।
ततोऽदितिं तां गमयेद् द्विनामानं प्रवेशयेत् ॥ २७ ॥
१ क. पितरः क्षयः । २ द. पर्जन्यो जयभृशः भृंगोदौवारिकस्तथा । ३ द. ख. द्विनामादिषु ।
द्विनामशब्दो जयन्तपर्यायः ( शार्ङ्गी ) । ४ द. पितृपदं ततः । ५ द. स्वास्वाशा ।
५४ समराङ्गणसूत्रधारे
सौराद् याम्यं पदं नीत्वा वारुणं प्रापयेत् ततः ।
नयेत् पदं ततः सौम्यं तत आदित्यमानयेत् ॥ २८ ॥
भृशादानीय वितथं शोषारुयं वितथादथ ।
शोषान्मुख्यं समानीय नयेत् तस्मात् पुनर्भृशम् ॥ २९ ॥
ये विभागाः समुद्दिष्टा यथासङ्ख्येन तैरिरह ।
यज्ञाऽमरनृणां वास्तु समस्तं विभजेत् सुधीः ॥ ३० ॥
देवैः सर्वैरप्यमीभिर्विशोकः
प्रीत्युत्कर्षादित्थमालोक्यतेऽसौ ।
कृत्स्नानेषोऽप्यब्जपत्रायताक्षः
पश्यत्येतान् स्फारितेनेक्षणेन ॥ ३१ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
वास्तुत्रयविभागो नाम एकादशोऽध्यायः ॥
अथ नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः ।
अथाभिधीयते वास्तुः कनीयान् षोडशास्पदः ।
पदैः षोडशभिः स स्यात् तत्र देवान् प्रचक्ष्महे ॥ १ ॥
भुङ्क्ते मध्ये स्थितो मुख्यः पदमेकं सुरोत्तमः ।
क्लृप्तं पदचतुर्भागैश्चतुर्भिश्चतुराननः ॥ २ ॥
पदार्धभागभोक्तारश्चत्वारोऽमी सुरोत्तमाः ।
अर्यमा च विवस्वांश्च मित्रश्च क्ष्माधरोऽपि च ॥ ३ ॥
सवित्राद्यापवत्सान्ता येऽष्टौ कोणेषु वेधसः ।
चतुर्भागभुजस्ते स्युस्त्रिदशास्तपनत्विषः ॥ ४ ॥
चतु(र्थी ? र्धी)शादिकोणेषु ये स्थिताः क्रमशः सुराः ।
अष्टभागभुजस्तेऽष्टौ विनिर्दिष्टा मनीषिभिः ॥ ५ ॥
ये तथादितिपर्यन्ताः पर्जन्याद्याः सुरोत्तमाः ।
तेऽष्टौ चतुर्भागभुजो विद्वद्भिरिह कीर्तिताः ॥ ६ ॥
१ क. वारुण्यां । २ क. द. अथो विधीयते । ३ द. ख. चतुषष्टीशादिको° ।
नाड्यादिसिंगदिविकल्पो नाम द्वादशोऽध्यायः ५५
चरकान्ता जयन्ताद्या ये बाह्यस्थितयोऽमराः ।
१भोगोऽर्धपदिकस्तेषां षोडशानामपि स्मृतः ॥ ७ ॥
चतुरश्रीकृते क्षेत्रे त्रयस्त्रिंशद्विभाजिते ।
अन्त्ये२पङ्क्तिद्वयं सार्धं चरक्याद्यर्थमुत्सृजेत् ॥ ८ ॥
अन्तरे वीथिकामर्धपदिकामुत्सृजेत् ततः ।
मध्ये तु सप्तविंशत्या भोगैर्वास्तु विभजयेत् ॥ ९ ॥
एकोनत्रिंशता युक्तं पदानां शतसप्तकम् ।
यद् भवेत् तत्र गर्भे स्यादेकाशीतिपदः स्वभूः ॥ १० ॥
अष्टादशपदाश्चाष्टौ चापप्रभृतयः पृथक् ।
अर्यमाद्यं चतुःपञ्चाशत्पदं स्याच्चतुष्टयम् ॥ ११ ॥
ईशाद्यस्त्वदित्यन्ता बाह्या नवपदाः सुराः ।
देशानां सन्निवेशोऽसौ साहस्त्रो वास्तु रुच्यते ॥ १२ ॥
अथोच्यते वृत्तवास्तुर्वृत्तप्रासादहेतवे ।
एकश्चतुःषष्टिपद३भोगः शतपदोऽपरः ॥ १३ ॥
अष्टधा ४भाजिते वृत्तविष्कम्भे भागिकान्तरान् ।
चतुरः परिधीन् कुर्यान्मध्यवृत्तं द्विभागिकम् ॥ १४ ॥
स्याद् बहिर्वृत्तवलयमष्टाविंशतिभागिकम् ।
तदन्तर्वृत्तवलयमष्टाष्टांशोज्झितं क्रमात् ॥ १५ ॥
एवं कृते भवेन्मध्ये ब्रह्मणस्तच्चतुष्पदम् ।
इत्थं चतुःषष्टिपदो वृत्तवास्तुरुदाहृतः ॥ १६ ॥
दशधा भाजिते वृत्तविष्कम्भे भागिकान्तराः५ ।
कार्याः परिधयः पञ्च मध्ये वृत्तं द्विभागिकम् ॥ १७ ॥
बहिस्थं वलयं तस्य भजेत् षट्त्रिंशता ततः ।
शेषं चतुःषष्टिपदस्थित्या ६स्याच्छतवास्तुनि ॥ १८ ॥
१ द. भागार्थं । २ क. अन्ते पङ्क्तित्रयं । ३ द. ख. ॰पदस्तयोः शतपदोत्तरः । ४ द. वृत्त-
विभक्ते विष्कम्भे, क. वृत्तत्रिष्कम्भे विभक्ते । ५ द. भागिकान्तरात् । ६ क. स्याद्वृत्तवा० ।
५६ समराङ्गणसूत्रधारे
देवतापदसङ्क्षिप्तिरनयोश्चतुरश्रवत् ।
एवं कार्यवशात् कार्या वास्त्वोऽन्येऽपि धीमता ॥ १९ ॥
त्र्यश्रे षडश्रे चाष्टाश्रे षोडशाश्रे च वृत्तवत् ।
वृत्तायतेऽर्धचन्द्रे च वास्तौ पदविभाजनम् ॥ २० ॥
एक एव पुमानेषु^१ बहुधा परिकल्पितः ।
सर्वस्मिन्नपि संस्थाने विभक्ते लक्षयेत् ततः ॥ २१ ॥
शरीरं वास्तुपुंसोऽस्य गुणदोषा भवन्ति यत् ।
मुखं मूर्धा ततः श्रोत्रे दृक्तालुवोष्ठरदाः क्रमात् ॥ २२ ॥
वक्षः कण्ठः स्तनौ नाभिर्मेढ्रमुष्कावथो गुदम् ।
बाहू प्रबाहू पाणी स्फिगूरुजङ्घं पदद्वयम् ॥ २३ ॥
कल्पयेदेवमेतेन स भवेत् पुरुषाकृतिः ।
सिरावंशानुवंशाश्च सन्धयः सानुसन्धयः ॥ २४ ॥
मर्माण्यथ महावंशा लक्ष्या वास्तुशरीरगाः ।
सिराः कर्णगता याः स्युस्ता नाड्यः परिकीर्तिताः ॥ २५ ॥
पदस्य षोडशो भागस्तत्प्रमाणं प्रकीर्तितम् ।
महावंशौ प्राक्प्रतीच्यौ याम्योदीच्यौ च मध्यगौ ॥ २६ ॥
प्रमाणं पञ्चमो भागः पदस्योदाहृतं तयोः ।
वंशास्तेऽस्मिन् समुद्दिष्टा रेखा याः स्युर्मुखायताः ॥ २७ ॥
यास्तिर्यगायता रेखास्तेऽनुवंशाः प्रकीर्तिताः ।
सम्पाता ये स्युरेतेषां मर्म तत् संप्रचक्षते ॥ २८ ॥
उपमर्माणि तान्याहुः पदमध्यानि यानि हि ।
भागोऽष्टमोऽथ दशमो द्वादशः षोडशोऽपि च ॥ २९ ॥
पदतो मानमिष्टं स्याद् वंशादीनामनुक्रमात् ।
वंशाष्टकस्य यः सन्धिः स सन्धिरिति कीर्तितः ॥ ३० ॥
ये पुनः स्युस्तदङ्गानां प्रोक्तास्ते^२ चानुसन्धयः ।
वालाग्रतुल्यं सन्धीनां प्रमाणं परिचक्षते ॥ ३१ ॥
१ क. द. पुमानेष । २ द. तत्रानुसंधयः ।
तदर्थमनुसन्धीनां प्रमाणं समुदीरितम् ।
यत्नेनैतानि सन्त्यज्य वास्तुविद्याविशारदः ॥ ३२ ॥
द्रव्याणि प्रयतो नित्यं स्थपतिर्विनिवेशयेत् ।
महावंशस्य नाक्रान्तिं कुर्याद् द्रव्येण केनचित् ॥ ३३ ॥
इतरेषु पुनर्द्रव्यं मध्यवंशेषु सन्त्यजेत् ।
महावंशसमाक्रान्तौ भवेत् स्वामिवधो ध्रुवम् ॥ ३४ ॥
वर्षेण तपनाद् भीतिं वंशानां पीडनाद् विदुः ।
उपमर्माणि रोगाय मर्माणि कुलहानये ॥ ३५ ॥
उद्वेगायार्थनाशाय सिराश्च स्युः प्रपीडिताः ।
कलिः स्यात् १सन्धिद्विद्वेषु पीडितेष्वनुसन्धिषु ॥ ३६ ॥
तस्मादेतानि सर्वाणि पीडितान्युपलक्षयेत् ।
ज्ञात्वा सिराः सानुसिराश्च नाडीर्वंशानुवंशानपि वास्तुदेहे ।
यत्नेन मर्माणि फलानि चैषां वेधं त्यजेद् यस्तमुपैति नापत् ॥३७॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
नाडीवंशानुवंशानां सिरानुसिरामर्मानुमर्मवेधविकल्पो नाम द्वादशोऽध्यायः ॥
अथ मर्मवेधस्त्रयोदशोऽध्यायः ।
एकाशीतिपदो यः स्यात् तथा शतपदश्च यः ।
चतुःषष्टिपदो यश्च वास्तुरत्र त्रिधोदितः ॥ १ ॥
यद् येन विभजेत् तेषु तदिदानीं प्रचक्ष्महे ।
यानि मर्माणि चैतेषां कथ्यन्त इह तान्यपि ॥ २ ॥
वर्णिनां भवनादीनि निवेशा राजवेश्मनाम् ।
एकाशीतिपदेनेन्द्रस्थानं च विभजेत् सुधीः ॥ ३ ॥
प्रासादा विविधास्तद्वद् विचित्राश्चात्र मण्डपाः ।
तान् मापयेच्छतपदप्रविभागेन बुद्धिमान् ॥ ४ ॥
१ द. सन्धिष्ण (? ष्टू) द्वेगः पी° ।
वा. ८
९८ समराङ्गणसूत्रधारे ।
यः पुनः स्याच्चतुःषष्टिपदस्तैन विभाजयेत् ।
नरेन्द्रशिबिरग्रामखेटादि नगरादि च ॥ ५ ॥
अन्तस्त्रयोदश सुरा द्वात्रिंशद् बाह्यतश्च ये ।
तेषां स्थानानि मर्माणि सिरा वंशाश्च तेषु तु ॥ ६ ॥
मुखे हृदि च नाभौ च मूर्ध्नि च स्तनयोस्तथा ।
मर्माणि वास्तुपुंसोऽस्य षण्महान्ति प्रचक्षते ॥ ७ ॥
वंशानुवंशसम्पाताः पदमध्यानि यानि च ।
देवस्थानानि तान्याद्ये पदषोडशकान्विते ॥ ८ ॥
देवस्थानानि सम्पाताश्चतुःषष्टिपदे पुनः ।
तथैकाशीतिपदिके पदान्तशतिकेऽपि च ॥ ९ ॥
चतुर्ष्वपि विभागेषु सिरा याः स्युश्चतुर्दिशम् ।
मर्माणि तानि चोक्तानि द्वारमध्यानि यानि च ॥ १० ॥
भित्तिविस्तृतमध्येन यद्वा मध्येन दारुणः ।
मर्म यत् पीड्यते येन गृहे तत्रोच्यते फलम् ॥ ११ ॥
द्वारैर्वा भित्तिभिर्वापि मर्मणां परिपीडनात् ।
दौर्गत्यं गृहिणः प्राहुः कुलहानिमथापि वा ॥ १२ ॥
भवेत् स्वामिक्षयः स्तम्भैस्तुलाभिः स्त्रीपरिक्षयः ।
स्नुषावधो जयन्तीभिर्बन्धुनाशश्च सङ्ग्रहैः ॥ १३ ॥
मर्मस्थानगतैः १कार्यैर्भर्तुः कायो निपीड्यते ।
सुहृद्विश्लेषमिच्छन्ति सन्धिपालैश्च तद्विदः ॥ १४ ॥
नागपाशैर्धनोच्छेदो२ नागदन्तैः सुहृत्क्षयः ।
कपिच्छकैश्च मर्मस्थैः प्रेष्याणां क्षयमादिशेत् ॥ १५ ॥
षड्दारुकाण्यनुसिरागवाक्षालोकनानि च ।
मर्ममध्योपगान्येतान्यावहन्ति धनक्षयम् ॥ १६ ॥
द्वारद्रव्यतुलास्तम्भनागदन्तगवाक्षकैः ।
द्वारमध्यार्दितै रोगकुलपीडाधनक्षया( : ? न् ) ॥ १७ ॥
१ क. कार्यैर्भ । २ द. धनोच्चाटो ।
पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः । ५९
नृपदण्डभयं पत्युः पीडनं च प्रचक्षते ।
द्वारमध्येषु षड्दारुमध्येष्वपि च सूरयः ॥ १८ ॥
कर्णद्रव्यादिभिर्विद्धेष्वेवमेव फलं विदुः ।
शय्यानुवंशवि²हिता गृहिणां कुलनाशिनी ॥ १९ ॥
क्षयावहा नागदन्ता भर्तुः शय्या³वितानगाः ।
वातायनैरथ स्तम्भैर्यै विद्धा नागदन्तकाः ॥ २० ॥
ते शस्त्रभीतिदा भर्तुर्यद्वा चौरभयप्रदाः ।
द्रव्यधान्यविनाशाय शोकाय कलहाय च ॥ २१ ॥
गृहमध्यगतं द्वारं भवेत् स्त्रीदूषणाय च ।
द्रव्येणान्यतरेणापि महामर्म निपीडितम् ॥ २२ ॥
भवेत् सर्वस्वनाशाय गृहिणो मरणाय ⁵च ।
अंशुकाश्चोर्ध्ववंशाश्च६ तुम्बिकाः सेन्द्रकीलकाः ॥ २३ ॥
पुरप्रासादगेहानां वेधेऽप्येते न दोषदाः ॥
इत्थं सुरक्षितिपवर्णगृहाश्रितोऽयं
भेदः पदेष्वखिलमर्मगतो व्यधश्च ।
उक्तः पृथक्पृथगमुष्य फलं च सम्यग्
ब्रूमोऽथ वास्तुपुरुषाङ्गविभागमत्र⁷ ॥ २४ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
मर्मवेधो नाम त्रयोदशोऽध्यायः ॥
अथ पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः ।
देवतानां पदैरित्थं संविभक्तैः पृथग्विधैः ।
स्थपतिः प्रयतः कुर्याद् वास्तुमित्थं पुमाकृतिम् ॥ १ ॥
१ द. भयापत्यं । २ क. निहिता । ३ क. शय्यावहानगाः, द. शय्यागतानगाः । ४ क. मर्मणि
पीडिते, द. महामर्मनिपीडिते । ५ द. वा । ६ क. चार्थवंशवास्तु, द. सोर्ध्ववंशास्तु । ७ द. ॰मग्रे ।
६० समराङ्गणसूत्रधारै
शिरस्तस्याग्निरुद्दिष्टं दृष्टिरित्यम्बुदाधिपौ ।
जयन्तश्चादितिश्चास्य कर्णौ वायुर्मुखे स्थितः ॥ २ ॥
अर्कः स्याद् दक्षिणे वामे भुजे सोमः प्रतिष्ठितः ।
महेन्द्रचरकौ सापवत्सावस्योरसि स्थितौ ॥ ३ ॥
स्तनेऽर्यमा दक्षिणे स्याद् वामे च पृथिवीधरः ।
यक्ष्मा रोगश्च नागश्च मुख्यो भल्लाट इत्यमी ॥ ४ ॥
दक्षिणेतरमेतस्य बाहुं देवाः समाश्रिताः ।
सत्यो भृशो नभो वायुः पूषा चेत्यथ दक्षिणम् ॥ ५ ॥
पश्चापि बाहुमेतस्य संश्रितास्त्रिदिवौकसः ।
सावित्रसवितारौ च रुद्रशक्तिधरावपि ॥ ६ ॥
चत्वारोऽमी १क(लाधि ? फोणि)स्थाः करयोर्हृदि च स्वभूः ।
वितथौकः क्षतौ पार्श्वे दक्षिणेऽस्य व्यवस्थितौ ॥ ७ ॥
वामे पुनः स्थितावस्य देवौ शोषासुराभिधौ ।
मित्राभिधो विवस्वांश्च द्वावप्युदरमाश्रितौ ॥ ८ ॥
मेढ्रमध्यस्थितावस्य सुराविन्द्रजयाभिधौ ।
यमश्च वरुणश्चोर्वोः क्रमाद् दक्षिणवामयोः ॥ ९ ॥
गन्धर्वभृङ्गौ २समृगौ जङ्घां राज्यामथेतराम् ।
द्वास्थसुग्रीवपुष्पाख्याः ३ संश्रिताः पितरोऽङ्घ्रिगाः ॥ १० ॥
एकाशीतिपदस्येशदिग्विभागाश्रितं शिरः ।
माहेन्द्रीसंश्रितं विद्याच्चतुःषष्टिपदस्य तु ॥ ११ ॥
एकाशीतिपदाज्जातो वास्तुः शतपदाभिधः ।
यः षोडशपदः स स्याच्चतुष्षष्टिपदोद्भवः ॥ १२ ॥
मध्ये य ४एव देवानां स्थितो ब्रह्माब्जसंभवः ।
स सहस्राननोऽचिन्त्यविभवो जगतां प्रभुः ॥ १३ ॥
१ द. कलाधिस्थाः । २ द. सशृङ्गौ । ३ द. ॰सुग्रीवपुष्पाख्यौ । ४ द. एष ।
पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः । ६१
योऽयं वह्निरिहोक्तः स सर्वभूतहरो हरः ।
पर्जन्यनामा यश्चायं १वृष्टिमानम्बुदाधिपः ॥ १४ ॥
जयन्तस्तु द्विनामाख्यः कश्यपो भगवानृषिः ।
महेन्द्रस्तु सुराधीशो दनुजानां विमर्दनः ॥ १५ ॥
आदित्यं पुनरिच्छन्ति विवस्वन्तमहस्करम् ।
सत्यो भूतहितो धर्मो भृशः कामोऽथ मन्मथः ॥ १६ ॥
योऽन्तरिक्षः स्मृतो देवस्तन्नभः समुदाहृतम् ।
मारुतो वायुरुद्दिष्टः पूषा मातृगणः स्मृतः ॥ १७ ॥
अधर्मो वितथाख्यः स्यात् कलेरप्रतिमः सुतः ।
गृहक्षतः पुनर्योऽत्र स चन्द्रतनयो बुधः ॥ १८ ॥
प्रेताधिपो मतः श्रीमान् यमो वैवस्वतश्च सः ।
गन्धर्वो भगवान् देवो नारदः परिकीर्तितः ॥ १९ ॥
भृङ्गराजमिहेच्छन्ति राक्षसं निर्ऋतेः सुतम् ।
यो मृगोऽस्मिन्ननन्तः स स्वयंभूर्धर्म इत्यपि ॥ २० ॥
आदिः प्रजापतिः २स्रष्टा मनुः सुग्रीव ईरितः ।
पुष्पदन्तस्तु विनतातनयः स्यान्महाजवः ॥ २१ ॥
वरुणः पाथसां नाथो लोकपालः स कीर्तितः ।
असुरो राहुरर्केन्दुमर्दनः सिंहिकात्मजः ॥ २२ ॥
शोषस्तु भगवानेष सूर्यपुत्रः शनैश्चरः ।
पापयक्ष्मा क्षयः प्रोक्तो रोगस्तु कथितो ज्वरः ॥ २३ ॥
भुजङ्गमानामधिपः श्रीमान् नागस्तु वासुकिः ।
त्वष्टा स्यान्मुख्यसंज्ञोऽत्र विश्वकर्माभिधश्च सः ॥ २४ ॥
चन्द्रो भल्वाट३ इत्युक्तः कुबेरः सोमसंज्ञितः ।
चरको व्यवसायाख्यः श्रीरिहादितिसंज्ञिका ॥ २५ ॥
१ द. वृष्टिमान् स घनाधिपः । २ क. ब्रह्मा । ३ भल्लाट इति प्राक् पाठः ।
दितिरत्रोच्यते शर्वः शूलभृद् वृषभध्वजः ।
हिमवानाप इत्युक्त आपवत्स उमा स्मृता ॥ २६ ॥
आदित्यस्त्वर्यमा वेदमाता सावित्र उच्यते ।
१देवी गङ्गात्र विद्वद्भिः सवितेति प्रकीर्तिता ॥ २७ ॥
मृत्युः शरीरहर्त्तासौ विवस्वानिति स स्मृतः ।
जयाभिधस्तु वज्रीति स्यादिन्द्रो बलवान् हरिः ॥ २८ ॥
मित्रो हलधरो माली रुद्रस्तूक्तो महेश्वरः ।
राजयक्ष्मा गुहः प्रोक्तः क्षितिध्रोऽनन्त उच्यते ॥ २९ ॥
चरकी च विदारी च पूतना पापराक्षसी ।
रक्षोयोनिभवा ह्येता देवतानुचरीर्विदुः ॥ ३० ॥
इत्येष वास्तुदेवानां निघण्डुः परिकीर्तितः ।
क्षो मूर्ध्नि हो दृशोर्मध्ये सो घ्राणे चिबुके तु षः ॥ ३१ ॥
शः कण्ठे हृदये वः स्याल्लकारो नाभिदेशगः ।
रेफो बस्तौ यकारस्तु मेढ्रे मः २(पुष्य? मुष्क)कावुभौ ॥ ३२ ॥
नकार ऊरुणो जानु ञकारः पिण्डिकाश्रितः ।
३(ड ? ङ)कारो गुल्फयोरन्ते पकारोऽङ्घ्रितले स्मृतः ॥ ३३ ॥
उक्तानि वास्तुपुरुषस्य यथावदित्यमङ्गानि वास्तुपददैवतनामभेदाः ।
वर्णाश्च वास्त्ववयवेष्विह षोडशैव ब्रूमोऽथ दैवतवशेन पुरे ४निवेशम्॥३४॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
पुरुषाङ्गदेवतानिघण्ट्वक्षराङ्गनिर्णयो नाम चतुर्दशोऽध्यायः ।
अथ राजनिवेशो नाम पञ्चदशोऽध्यायः ।
कृते पुरनिवेशेऽथ चतुःषष्टिपदाश्रये ।
नियुक्तपरिखासालगोपुराट्टालकेऽपि च ॥ १ ॥
१ इत आरभ्यार्धपञ्चक, द. ख. पुस्तकयोर्न पठ्यते । २ ‘पुष्यकावि’ति क. पाठः, ‘पुत्रका-
वि’ति द. ख. पाठश्चाशुद्धौ, ग. पुस्तके तु पत्रं लुप्तम् । ३ ‘डगुल्फगष्टकारोङ्गोः सिकारोऽङ्घ्रि (?)’
द. ख. पाठः । ४ क. निवासम्, द. निवेशा ।
राजनिवेशः पञ्चदशोऽध्यायः । ६३
विभक्तरथ्ये परितः प्रविभाजितचत्वरे ।
क्रमादन्तर्बहिः कॢप्तदेवतायतनस्थितौ ॥ २ ॥
प्रागुदक्प्रवणे देशे प्राग्द्वाराभ्युन्नतेऽथवा ।
यशःश्रीविजयाधायि मैत्रं पदमधिष्ठितम् ॥ ३ ॥
यथावर्णक्रमायातं चतुरश्रं समं शुभम् ।
पुरमध्यादपरतोदिक्स्थं कुर्यान्नृपालयम् ॥ ४ ॥
दुर्गेषु भूवशात् कार्यं यद्वा दिक्ष्वपरास्वपि ।
विवस्वद्भूधरार्यम्णां कार्यमन्यतमे पदे ॥ ५ ॥
त्रिचत्वारिंशता युक्ते ज्येष्ठं स्याद् द्वे धनुःशते ।
मध्यं शतं तु द्वाषष्टिः शतं साष्टकमन्तिमम् ॥ ६ ॥
ज्येष्ठे पुरे विधातव्यं ज्येष्ठं राजनिवेशनम् ।
मध्यमे मध्यमं कार्यं कानिष्ठं च कनीयसि ॥ ७॥
प्राकारपरिखागुप्तं चारुकान्ति समन्ततः ।
तमङ्गाभ्रमनिर्यूहसुदृढाट्टालकान्वितम् ॥ ८ ॥
एकाशीत्या पदैर्भक्तं विधेयं नृपमन्दिरम् ।
राजमार्गं समाश्रित्य वास्तुद्वारमुदङ्मुखम् ॥ ९ ॥
युक्त्यानयैव कर्तव्यमन्यदिक्संश्रयेऽपि च ।
भल्लाटपदवर्त्यस्य गोपुरद्वारमिष्यते ॥ १० ॥
तत्पुरद्वारविस्तारोच्छ्रायसम्मितमिष्टदम् ।
महेन्द्रं द्वारमिच्छन्ति निविष्टस्य महीधरे ॥ ११ ॥
वैवस्वते पुष्पदन्तमर्यम्णि च गृहक्षतम् ।
अन्येष्वेषामपरतः प्रदक्षिणपदेष्वथ ॥ १२ ॥
अन्यान्यपि स्वासु दिक्षु द्वाराण्येवं प्रकल्पयेत् ।
आभिमुख्ये च सर्वेषां शस्यन्ते गोपुराणि च ॥ १३ ॥
तदीयनगरद्वाराद् विंशात्यंशोज्झितानि वा ।
पक्षद्वाराणि सुग्रीवे जयन्ते मुख्यनाम्नि च ॥ १४ ॥
१ द. ख. यथावर्ण ।
६४ समराङ्गणसूत्रधारे
वितथेऽथ भ्रमांस्तद्वद् विदधीत प्रदक्षिणान् ।
वास्तौ विभक्ते पुरवत् कॢप्तेऽमरपदव्रजैः ॥ १५ ॥
तत्र मैत्रपदस्थाने निवेशायावनीपतेः ।
प्रासादः प्राङ्मुखः कार्यों यथावत् पृथिवीञ्जयः ॥ १६ ॥
श्रीवृक्षं सर्वतोभद्रं मुक्तकोणमथापरम् ।
यमिच्छेन्नृपतिः कुर्यात् प्रासादं शुभलक्षणम् ॥ १७ ॥
शालापरिक्रमोपेतकर्मान्तैरपि चान्वितम् ।
तत्र प्राच्यां भवेद् गेहमादित्यपदसंश्रितम् ॥ १८ ॥
धर्माधिकरणं सत्ये व्यवहारेक्षणाय च ।
भृशे च कोष्ठागारं स्यादम्बरे मृगपक्षिणाम् ॥ १९ ॥
अग्नेः ककुभमाश्रित्य कार्यं वायोर्महानसम् ।
सभाजनाश्रयं पूष्णि विदध्याद् भोजनास्पदम् ॥ २० ॥
सावित्रे वाद्यशाला स्यात् सवितुस्थाश्च वन्दिनः ।
चर्माणि वितथे कुर्यान् तयोग्यान्यायुधानि च ॥ २१ ॥
स्वर्णरूप्यादिकर्मान्तान् विदधीत गृहक्षते ।
याम्ये दक्षिणतो गुप्तिं कोष्ठागारं च कल्पयेत् ॥ २२ ॥
प्रेक्षासङ्गीतकानि स्युर्गन्धर्वे वासवेश्म च ।
कार्या वैवस्वते शाला रथानां दन्तिनां तथा ॥ २३ ॥
पश्चिमोत्तरभागस्थां वापीमपि च कारयेत् ।
वा(यौ ? यु)सुग्रीवपदयोर्गन्धर्वस्य च बाह्यतः ॥ २४ ॥
कुर्यादन्तःपुरस्थानं प्राकारवलयावृतम् ।
कुर्यात् तद्गोपुरद्वारमुदगास्यं जयाभिधे ॥ २५ ॥
कार्यः स्थपतिना चैव प्रासादश्चापराङ्मुखः ।
क्रीडादोलालयन् भृङ्गे कुमारीभवनं तथा ॥ २६ ॥
नृपान्तःपुरमिच्छन्ति मृगे पित्र्ये त्ववस्करम् ।
नृपस्त्रीणामुपस्थानगृहमिन्र्द्रपदे विदुः ॥ २७ ॥
१ द. ख. व्रजेत् । २ क. पृथिवीजयः, द. पृथिवींजयः । ३ द. ख. पक्षिणः । ४ द. ˚इन्दु˚ ।
राजनिवेशः पञ्चदशोऽध्यायः । ६५
सुग्रीवपदसंसक्तमरिष्टारमिष्टदम् ।
द्वारस्थसुग्रीवपि(त्र्यं ? त्र्यां)शपश्चाद्भागे मनोहरा ॥ २८ ॥
विधेयाशोकवनिका स्नानधारागृहाणि च ।
लतामण्डपसंयुक्ताः स्युरत्रैव लतागृहाः ॥ २९ ॥
दारुशैलाश्च वाप्यश्च पुष्पवीथ्यः सुकल्पिताः ।
पुष्पदन्ते भवेद् य(त्त ? न्त्र)कर्मान्तः पुष्पवेश्म च ॥ ३० ॥
वरुणस्य पदे कुर्याद् वापीपानगृहाणि च ।
स्यात् कोष्ठागारमसुरे शोषे त्वायुधमन्दिरम् ॥ ३१ ॥
भाण्डागारं तु रौद्राख्ये विदध्यात् स्थपतिः श्रिये ।
उलूखलशिलायन्त्रभवनं पापयक्ष्मणि ॥ ३२ ॥
दारुकर्मान्तमप्याहुः श्रेयसे राजयक्ष्मणि ।
²स्यादोषधेरधिष्ठानं रोगे दिशि नभस्वतः ॥ ३३ ॥
नागानां शस्यते स्थानं पदे नागस्य सूरिभिः ।
भवन्ति मुख्ये व्यायामनाट्यचित्रगृहाणि च ॥ ३४ ॥
गवां स्थानं तथा क्षीरगृहं ³भल्लाटनामनि ।
उदक्प्रदेशे सौम्यस्य पुरोधःस्थानमिष्यते ॥ ३५ ॥
⁴राज्ञोऽभिषेचनं चात्र दानाध्ययनशान्तयः ।
चामरच्छत्रधाम स्यान्मन्त्रै⁵वेश्म च भूधरे ॥ ३६ ॥
कार्याणां चात्र कार्याणि स्थितः पश्येन्नराधिपः ।
विधेया मन्दुराश्वानामुत्तरं पार्श्वमाश्रिता ॥ ३७ ॥
महीधरपदस्यैव यथावद् दक्षिणामुखी ।
कार्या सर्वत्र चाश्वानां शाला राज्ञो यथागृहम् ॥ ३८ ॥
विशतो दक्षिणेन स्याद् वामेन च विषाणिनाम् ।
वेश्मानि राजपुत्राणां विदध्याच्चरकाभिधे ॥ ३९ ॥
१ क. दन्तकर्मान्तः, द. यन्त्रकर्मान्तः । २ द. स्यादौषधैरधिष्ठानं । ३ द. भल्वाट° । ४ क. राजाभिषेचनं । ५ द. ख. मन्त्रि° ।
वा. ९
३६ समराङ्गणसूत्रधारे
अत्रैव विद्याधिगमशालाश्चैषां निवेशयेत् ।
नृपस्य मातुरदितिस्थाने कुर्यान्निवेशनम् ॥ ४० ॥
पृथगत्रैव शिबिकाशय्यासनगृहं विदुः ।
नृपद्विपानां शस्ता स्यादापे सदनकल्पना ॥ ४१ ॥
अभिषेकनकं स्थानमिहैव स्याद् विषाणिनाम् ।
आपवत्सपदे हंसक्रौञ्चसारसनादिताः ॥ ४२ ॥
स्युः फुल्लाब्जवनाः स्वच्छसलिलाः सलिलाशयाः ।
पितृव्यमातुलादीनां कार्य दितिपदे गृहम् ॥ ४३ ॥
अन्येषामपि चात्रैव १सामन्तानां महीपतेः ।
ऐशान्यामनलस्थाने वोच्छ्रितस्तम्भवेदिकम् ॥ ४४ ॥
कार्यं देवकुलं चारु २ सुश्लिष्टमणिकुट्टिमम् ।
पर्जन्यस्य पदे होराज्योतिर्विद्गृहमिष्यते ॥ ४५ ॥
जये सेनापतेर्वेश्म विधेयं विजयप्रदम् ।
द्वारं प्राकारमाश्रित्य पदेऽर्यम्णः प्रशस्यते ॥ ४६ ॥
प्राग्दक्षिणाश्रितं शस्त्रकर्मान्तं शस्त्रमत्न च ।
विमुञ्चेद् ब्रह्मणः स्थानमिन्द्रध्वजयुतं नृणाम् ॥ ४७ ॥
तत्राशुभानि वेश्मानि विवेश्याश्वासुखावहाः ।
गवाक्षस्तम्भशोभिन्यो विधेयाश्चानुकामतः ॥ ४८ ॥
सभा यथादिक्प्रभवा नृपवेश्माभिगुप्तये ।
सर्वत्र नृपतेः सौधान् नृपसौधस्य सम्मुखा ॥ ४९ ॥
पश्चाद्भागाश्रिता यद्वा शाला कार्या विषाणिनाम् ।
इत्यास्पदं सुरपदास्पदकल्पमाद्य-
मेतद् यथावदनुतिष्ठति यः सैव ।
स क्ष्मामिमां भुजबलक्षपितारिपक्षः
सप्ताम्बुराशिरशनां नृपतिः प्रशास्ति ॥ ५० ॥
१ द. समन्तानां । २ क. चात्र ।
वनप्रवेशः षोडशोऽध्यायः। ६७
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
राजनिवेशो नाम पञ्चदशोऽध्यायः ॥
अथ वनप्रवेशो नाम षोडशोऽध्यायः ।
प्राग्वोदग्वापि गेहार्थं द्रव्यं विधिवदानयेत् ।
गन्तव्यमेव धिष्ण्येषु¹ मृदुक्षिप्रचरेषु च ॥ १ ॥
उपवास्यं च तेष्वेव च्छेद्यं भेद्यं च दारुणैः ।
प्रवेशनं स्थिरैः कार्यमारम्भः शस्यते चरैः ॥ २ ॥
गत्वा शुभे शुचौ देशे निवेशं कारयेत् ततः ।
तस्मिन्निवेश्य कर्मान्तमन्नपानेन तर्पयेत् ॥ ३ ॥
पुष्टतुष्टपरीवारः क्षपायां समु Schneiderोषितः ।
गृहयोग्यं परीक्षेत न्यस्तशस्त्रस्ततोऽङ्घ्रिपम् ॥ ४ ॥
पुरश्मशानग्रामाध्वह्रदचैत्याश्रमोद्भवान् ।
क्षेत्रोपवनसीमान्तविषमस्थलनिम्नजान् ॥ ५ ॥
कट्वम्लतिक्तलवणाखवनीषु नथोद्गताम् ।
श्वभ्रावृतान् स्थिरोर्वीषु सम्भूतांश्च त्यजेद् द्रुमान् ॥ ६ ॥
सम्यक् संलक्ष्य वृक्षाणां वर्णस्नेहत्वगादिकम् ।
विजानीयाद् वयस्तेषां बालान् वृद्धांश्च सन्त्यजेत् ॥ ७ ॥
शतानि त्रीणि वर्षाणां सारद्रुमवयः स्मृतम् ।
गृह्णीयात् षोडशादूर्ध्वं सार्धवर्षशतावधेः ॥ ८ ॥
वयसः परिणामेन निर्वीर्यत्वं यथा नृणाम् ।
प्रोक्तं तद्वद् द्रुमाणां च स्यात् तथा छिद्रपत्रता ॥ ९ ॥
भङ्गुराः सुषिरास्ते स्युः सकोलाक्षाः खरत्वचः ।
तस्मादिमांस्त्यजेद् वृक्षस्तथा चैवोर्ध्वशोषिणः ॥ १० ॥
वक्रान् रूक्षानवप्लुष्टान् दुःस्थितानपि च द्रुमान् ।
वर्जयेद् भग्नशाखांश्च ह्येकशाखान्वितांस्तथा ॥ ११ ॥
१ धिष्ण्येषु नक्षत्रेषु । २ द. वृक्षान्ये तथा चोर्ध्वशोषिणः ।
६८ समराङ्गणसूत्रधारे
अन्यैरधिष्ठितान् विद्युत्पातवातसरित्क्षतान् ।
ग्रन्थिनिर्यूक्तदानांश्च भ्रमराह्निकृताश्रयान् ॥ १२ ॥
संसृष्टानकतो ³भ्रष्टान् मधुभिर्बलिभिर्वृतान ।
मांसामेध्याशनैस्तद्वद् दूषितानपि पक्षिभिः ॥ १३ ॥
लूतातन्त्वावृतान् वन्यसत्त्वोद्घृष्टान् गजक्षतान् ।
बुघ्नतोऽतिबृहत्स्कन्धांश्छिद्रभूतांस्तथाध्वनः ॥ १४ ॥
अकाले पुष्पफलिनो रोगैरपि च पीडितान् ।
वासभूतानुलूकानां त्यजेदन्यानपीदृशान् ॥ १५ ॥
खदिरो बीजकः सालो मधूकः शाकशिंश (पौ ? पे) ।
सर्जार्जुनाञ्जनाशोकाः कदरो रोहिणीतरुः ॥ १६ ॥
विकङ्कतो देवदारुः श्रीपर्णीपादपस्तथा ।
कुटुम्बिनाममी प्रोक्ताः पुष्टिदा जीवदास्तथा ॥ १७ ॥
वृक्षाणां लक्ष्यते येषां भारवारिसहिष्णुता ।
ते यथायोग्यमन्येऽपि शस्यन्ते गृहकर्मणि ॥ १८ ॥
कर्णिकारधवप्लक्ष कपित्थविषमच्छदाः ।
शिरीषोदुम्बराश्वत्थशेलुन्यग्रोधचम्पकाः ॥ १९ ॥
निम्बाम्रकोविदाराँश्चव्याधिघातांश्च गर्हिताः ।
गृहकर्मणि नेष्टास्ते यतस्तेऽनिष्टदायिनः ॥ २० ॥
नेष्टाः कण्टकिनः स्वादुफलाः क्षीरद्रुमाश्च ये ।
सुगन्धयश्च ये तद्वद् ध्रुवं तेषु पशुक्षयः ॥ २१ ॥
सत्त्वप्रमाणच्छाया तु नियतं दृश्यते यदा ।
द्रुमच्छाया तदा ग्राह्या तत्प्रमाणस्तु स द्रुमः ॥ २२ ॥
नक्षत्रं लक्षयेद् वृक्षे पूर्वस्यां दिशि तत्क्षितेः ।
स्याद् भस्याद्यक्षरं यस्य तत्र जातं तमादिशेत् ॥ २३ ॥
१ द. ख. वाताशनिक्षतान् । २ क. ग्रन्थिभिर्युक्तं, द. ग्रन्थिभिर्युक्तहीनांश्च । ३ द. ग्रस्तान् ।
४ क. कोविदराख्या विधेयास्ते च ।
[Header]
वनप्रवेशः षोडशोऽध्यायः । ६९
[Main Text]
क्षेम्यं तं स्वामिनो वृक्षं ज्ञात्वा साधकमेव च ।
अग्रन्थिकोटरं स्निग्धमृजुं सारसमन्वितम् ॥ २४ ॥
पीनस्कन्धं हरितपत्रं वृत्तं चाभ्यर्च्य पादपम् ।
द्विजान् सन्तर्प्य च स्वस्ति वाच्यं च स्थपतिस्ततः ॥ २५ ॥
पक्वापक्वामिषैस्तद्वद् भूतभक्तैः सुरासवैः ।
गन्धैश्च धूपमाल्यैश्च बलिं दद्यान्निशागमे ॥ २६ ॥
१अपक्रामन्तु भूतानि यानि वृक्षाश्रितानि हि ।
२कल्पनं वर्तयिष्यामि क्रियतां वासपर्ययः ॥ २७ ॥
धन्यः शिवः पुष्टिकराः प्रजावृद्धिकरो भव ।
स्वस्ति (ते ? च )न्द्रानिलयमाः सूर्यरुद्रानलास्तथा ॥ २८ ॥
दिशो नद्यस्तथा शैलाः पान्तु त्वामृषिभिः सह ।
जल्पेद् यो मानुषगिरा कम्पते वाभिमन्त्रितः ॥ २९ ॥
स त्याज्यः स्यात् तथा म्लानप्रवालकुसुमश्च यः ।
ततो भास्करमालोक्य वृक्षं कृत्वा प्रदक्षिणम् ॥ ३० ॥
स्वस्तिवाक्येन विप्राणां छेत्ता स्थित्वोदगाननः ।
प्राङ्मुखो वा तरुं छिन्द्याच्छस्त्रैः क्षौद्रार्दिताननैः ॥ ३१ ॥
शाखिनश्छिद्यमानस्य जायते यद्यसृक्स्रुतिः ।
कम्पनं वा ध्वनिर्वादपि मृत्युः स्याद् गृहिणस्तदा ॥ ३२ ॥
यद्वा दधिमधुक्षीरघृनानि स्रवति द्रुमः ।
छिद्यमानस्तदा विद्याद् ३बन्धव्याधिन् कुटुम्बिनः ॥ ३३ ॥
अतीव यस्य स्रवति श्यामः स्नेहान्वितो रसः ।
सुगन्धिः स्वल्पमधुरः कषायः स प्रशस्यते ॥ ३४ ॥
प्राच्यां शुभस्तरोः पान उदीच्यां कर्मसाधकः ।
याम्यप्रत्यङ्निपाते तु शान्तिं कृत्वा द्रुमं त्यजेत् ॥ ३५ ॥
ज्ञातितः स्यात् तदा भीतिर्यदान्यं मर्दयेत् पतन् ।
दूरं दलति यो मू(लं ? ले) च्छिन्नो वा धरणीरुहः ॥ ३६ ॥
[Footnotes]
१ द. आक्रमन्ति च भूतानि । २ द. कल्पान्तं वर्तयिष्यामि । ३ द. वधव्याधीन् ।
७० समराङ्गणसूत्रधारे
कूजयतीव वायुश्च स्मृतः १सोऽथ शुभप्रदः ।
खरोष्ट्रयोः शृगालानां दर्शनं भुजगस्य वा ॥ ३७ ॥
छेदे स्यात् कर्मविघ्नाय निगडैर्बन्धनाय वा ।
हलचक्रपताकाब्जध्वजच्छत्रादिदर्शनम् ॥ ३८ ॥
श्रीवृक्षवर्धमानादिदर्शनं वा शुभप्रदम् ।
उत्क्षिप्यते यदि छेदात् तदर्द्धिः स्यात् कुटुम्बिनः ॥ ३९ ॥
सर्वतः परिहानिः स्याच्छिन्नश्चाक्षिप्यते यदि ।
एकवृक्षे यथोद्दिष्टलक्षणोत्क्षेपदर्शने ॥ ४० ॥
शेषान् दोषविनिर्मुक्तान् पादपानुपलक्षयेत् ।
धीरस्तं कल्पयेत् सम्यगनुलोमार्जवं तरुम् ॥ ४१ ॥
छिन्द्याच्च२ शुभभागार्ध३दशभागाधिकं कृतम् ।
४तुङ्गीसाचवमध्यश्च(?) सगर्भो धरणीरुहः ॥ ४२ ॥
ज्ञेयानि मण्डलान्यस्य त(त्क्षणोच्छे ? क्षणे छे)दनेऽपि च ।
मञ्जिष्ठाभे विदुर्भेकं कपिलाभे च मूषकम् ॥ ४३ ॥
पीतभासि तथा गोधां सर्पं दीर्घसितायते ।
गुडच्छाये मधु भवेत् कृकलासस्तथारुणे ॥ ४४ ॥
गृहगोधा कपोताभे गौधेरो घृतमण्डभे ।
रसाञ्जनाभे शक्राभे कमलोत्पलभासि च ॥ ४५ ॥
धौतासियष्टिवर्णे च मण्डले जलमादिशेत् ।
आकारो यस्य सर्पस्य वर्णो वा संप्रदृश्यते ॥ ४६ ॥
तं सर्पगर्भितं वृक्षमादिशेदविचारयन् ।
तस्करेभ्यो भयं क्षौद्रे सलिले सलिलाद् भयम् ॥ ४७ ॥
विद्यात् सर्पे विषाद् भीतिं पाषाणे भयमग्नितः ।
अजाविगोमहिष्युष्ट्ररासभादिनिपीडितम् ॥ ४८ ॥
गोधागौधेरमण्डूककृकलासैश्च गर्भिते ।
मूषके पुनरिच्छन्ति मरणं वास्तुवेदिनः ॥ ४९ ॥
१ द. सोऽप्यशुभप्रदः । २ क. छिन्द्यातु । ३ शा. गार्थे । ४ द. तुंगीत्याद्यधमध्यस्कं ( ? ) ।
अमुनैव वदन्त्यन्ये गृहपीडां मनीषिणः ।
क्षेमेण यद्यविघ्नः स्यादासङ्गश्चागमो यदि ॥ ५० ॥
वनान्तरे तदा क्षेमं सुभिक्षं च समादिशेत्
अर्घदानविधिना विधानविद् द्रव्यमागतमिहार्चयेद् गृही ।
प्रत्युपेते^१कुलिशायुधध्वजं द्रव्यमुज्ज्वलमुतावनीपतिः ॥ ५१ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
वनप्रवेशो नाम षोडशोऽध्यायः ।
अथ इन्द्रध्वजनिरूपणं नाम सप्तदशोऽध्यायः ।
सुराणामर्थसिद्ध्यर्थं वधाय च सुरद्रुहाम् ।
यथा शक्रध्वजोत्थानं प्राह ब्रह्मा तथोच्यते ॥ १ ॥
भगवन्तमथाम्भोजसंभवं वचसांपतिः ।
प्रोवाच कथमिन्द्रेण जेतव्यास्त्रिदशद्विषः ॥ २ ॥
सोऽब्रवीत् सर्वरत्नानां ध्वजं कुरुत सङ्गताः ।
तं चाभिचारिकैर्मन्त्रैरुद्द्वहन्तोऽभिमन्त्रितम् ॥ ३ ॥
स्थितं चोपरि यन्त्रस्य सम्यक् पक्षिशतान्वितम् ।
अग्रतो देवसैन्यस्य नयन्तो जेष्यथ द्विषः ॥ ४ ॥
सहस्रधारमप्येकमन्यं रिपुकुलान्तकम् ।
दिव्यरूपमयं प्रादाद् ध्वजमिन्द्राय दुर्धरम् ॥ ५ ॥
वीर्यप्रवर्धनी चेष्टिरेतदर्थं विधीयते ।
कर्मणानेन निःशेषाञ् शक्रः शत्रूञ् जयेदिति ॥ ६ ॥
जहृषी तमथ क्षिप्रमसृजच्चेतसा ध्वजम् ।
यन्त्रस्थितं स येनाजावमोहयदरीन् हरिः ॥ ७ ॥
आदित्या वसवो रुद्रा विश्वेदेवास्तथाश्विनौ ।
अलञ्चक्रुस्तमालोक्य मरुतश्च विभूषणैः ॥ ८ ॥
१ द. ख. प्रत्युपेत्य ।