सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 121, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 121

५६ समराङ्गणसूत्रधारे
देवतापदसङ्क्षिप्तिरनयोश्चतुरश्रवत् ।
एवं कार्यवशात् कार्या वास्त्वोऽन्येऽपि धीमता ॥ १९ ॥
त्र्यश्रे षडश्रे चाष्टाश्रे षोडशाश्रे च वृत्तवत् ।
वृत्तायतेऽर्धचन्द्रे च वास्तौ पदविभाजनम् ॥ २० ॥
एक एव पुमानेषु^१ बहुधा परिकल्पितः ।
सर्वस्मिन्नपि संस्थाने विभक्ते लक्षयेत् ततः ॥ २१ ॥
शरीरं वास्तुपुंसोऽस्य गुणदोषा भवन्ति यत् ।
मुखं मूर्धा ततः श्रोत्रे दृक्तालुवोष्ठरदाः क्रमात् ॥ २२ ॥
वक्षः कण्ठः स्तनौ नाभिर्मेढ्रमुष्कावथो गुदम् ।
बाहू प्रबाहू पाणी स्फिगूरुजङ्घं पदद्वयम् ॥ २३ ॥
कल्पयेदेवमेतेन स भवेत् पुरुषाकृतिः ।
सिरावंशानुवंशाश्च सन्धयः सानुसन्धयः ॥ २४ ॥
मर्मा‌ण्यथ महावंशा लक्ष्या वास्तुशरीरगाः ।
सिराः कर्णगता याः स्युस्ता नाड्यः परिकीर्तिताः ॥ २५ ॥
पदस्य षोडशो भागस्तत्प्रमाणं प्रकीर्तितम् ।
महावंशौ प्राक्प्रतीच्यौ याम्योदीच्यौ च मध्यगौ ॥ २६ ॥
प्रमाणं पञ्चमो भागः पदस्योदाहृतं तयोः ।
वंशास्तेऽस्मिन् समुद्दिष्टा रेखा याः स्युर्मुखायताः ॥ २७ ॥
यास्तिर्यगायता रेखास्तेऽनुवंशाः प्रकीर्तिताः ।
सम्पाता ये स्युरेतेषां मर्म तत् संप्रचक्षते ॥ २८ ॥
उपमर्माणि तान्याहुः पदमध्यानि यानि हि ।
भागोऽष्टमोऽथ दशमो द्वादशः षोडशोऽपि च ॥ २९ ॥
पदतो मानमिष्टं स्याद् वंशादीनामनुक्रमात् ।
वंशाष्टकस्य यः सन्धिः स सन्धिरिति कीर्तितः ॥ ३० ॥
ये पुनः स्युस्तदङ्गानां प्रोक्तास्ते^२ चानुसन्धयः ।
वालाग्रतुल्यं सन्धीनां प्रमाणं परिचक्षते ॥ ३१ ॥
१ क. द. पुमानेष । २ द. तत्रानुसंधयः ।