सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

२०१ समराङ्गणसूत्रधारे
धात्री वामनिका कुब्जा सखीभिः परिवारिता ।
विदूषकैः कञ्चुकिभिस्तुल्यैरनुगतास्तथा ॥ २४ ॥
द्वारस्योभयतः कार्याः प्रतीहार्यो मनोरमाः ।
निधयश्चानुरूपाश्च शङ्खाब्जोज्ज्वललक्षणाः ॥ २५ ॥
रत्नदीनारराशींश्च वहन्तो वदनोद्गतान् ।
पद्मस्था(ः) पूर्णकुम्भा वा रत्नवस्त्रविभूषिता(ः) ॥ २६ ॥
वक्त्रै१रूर्ध्वस्थितैः पुष्पफलपल्लवसम्भृतैः ।
पूर्णकुम्भाङ्कुशच्छत्रश्रीवृक्षादर्शचामरैः ॥ २७ ॥
कार्याष्टमङ्गला द्वारे२ दोर्भिश्च शङ्खमत्स्ययोः ।
द्वारमण्डलमध्यस्था स्नाप्यमाना गजोत्तमैः ॥ २८ ॥
पद्मासना पद्महस्तौ श्रीश्च कार्या स्वलङ्कृता ।
वृषः सवत्सा धेनुर्वा सचछत्रस्रग्विभूषणा ॥ २९ ॥
फलभक्तैर्बहुविधैराहारार्थं निवेदितैः६ ।
नानापुष्पफलैर्नम्रैः शालैस्तिर्यगवस्थितैः ॥ ३० ॥
चित्रा पत्रलता लेख्या बाह्याभ्यन्तरभित्तिषु ।
हंसकारण्डचक्राद्वैर्बिसिनीपत्रवर्तिभिः ॥ ३१ ॥
कुमारकैश्च क्रीडद्भियुक्ता ललितबाहुभिः ।
वासधाम्नि निवेश्यन्ते विचित्राभरणाम्बराः ॥ ३२ ॥
रतिक्रीडापरा नार्यो नायकस्तु यदृच्छया ।
आपाण्डुदेहच्छवयः स्वल्पचारुविभूषणाः ॥ ३३ ॥
किञ्चित्प्रतनुभिर्गात्रैः कार्याः सुरतलालसाः ।
प्रवृद्धशाखाविटपैः प्रचलारुणपल्लवैः ॥ ३४ ॥
चम्पकाशोकपुन्नागनाना१०ग्रैस्तिलकादिभिः ।
छायापुष्पफलोपेतैः वृक्षैरन्यैश्च भूषिताः ॥ ३५ ॥

१ द. ख. वक्त्रैं । २ द. ख. ग. ०द्वारेर्दो० । ३ क. वसुभिः । ४ क. ०स्था० ।
५ द. ख. ०सनस्था पद्मस्था० । ६ द. ख. ०तं । ७ द. ख. ०लेतिर्यगवस्थिता । ८ द. ख. पल्लवता ।
९ द. ख. ०सकादम्बच० । १० द. ख. ०नागाग्रं ।

अप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः । २०७
उद्यानभूमयः कार्याः कूजत्पिकमधुव्रताः ।
ऋतवः फलपुष्पाद्यैः स्वैः स्वैश्चिह्नैरलङ्कृताः ॥ ३६ ॥
मनोरमैर्विशेषैश्च खगैश्च समयोचितैः ।
कादम्बकुररक्रौञ्चहंससारसमेखलाः ॥ ३७ ॥
१तीरान्तोद्गतवानीरकेतकीषण्डमण्डिताः ।
जलान्तलीनमत्स्यैश्च सञ्छन्ना नलिनीवनैः ॥ ३८ ॥
लेख्याश्च गृहभित्तीनामधोभागेषु दीर्घिकाः ।
२फलैः समं ३संभक्षेक्षुमणिकाञ्चनभाजनाः ॥ ३९ ॥
विन्यस्तपद्मिनीपत्राः सोत्पलाः पानभूमयः ।
विचित्रानोद्यहस्ताश्च नृत्यगीतविचक्षणाः ॥ ४० ॥
मुदिता ललना लेख्याः प्रेक्षासङ्गीतभूमिषु ।
प्रकल्प्याः पञ्जरस्थाश्च चकोरशुकसारिकाः ॥ ४१ ॥
प्रहृष्टाः परपुष्टाश्च मयूराश्च सकुकूँटाः ।
इति यानि प्रदिष्टानि प्रयोक्तव्यानि वेश्मनि ॥ ४२ ॥
तानि सर्वाणि शस्तानि सर्वोपकरणेष्वपि ।
देवयोनिगणास्तद्वत् पुरुषाश्च विनिन्दिताः ॥ ४३ ॥
साक्रन्दाश्च न शस्यन्ते पीठशय्यासनादिषु ।
पुरस्तात् कीर्तितान्यत्र प्रयोक्तव्यानि यानि च ॥ ४४ ॥
तानि शस्तानि कक्षासु सभादेवकुलेषु च ।
दिव्यमानुषसम्बद्धान्याख्यानाख्यायिकादिषु ॥ ४५ ॥
प्रोक्तानि तानि तावन्ति शुभान्यालेख्यकादिषु ।
इति कथितमयोज्यं योजनीयं च बुद्ध्या
भवनशयनकक्षादेवधिष्ण्यादिकेषु ।
विरचयति यथोक्तं निन्दितं वर्जयेद् यः
१ क. नीं । २ क. तं । ३ ख. ग. सुं । ४ क. ०पुं० । ५ ख. ग. ०र्कु० ।
६ द. ख. ग. ०न्धानाख्या० । ७ द. ख. न्धुध्वा ।

२०८ समराङ्गणसूत्रधारे ।
स भवति नृपतीनां शिल्पिनां चार्चनीयैः ॥ ४६ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
अप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः ॥
अथ शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः ।
अथ ब्रूमः शिलान्यासविधिमत्र यथागमम् ।
तत्रोदगयने पुण्ये शुक्लपक्षे शुभेऽहनि ॥ १ ॥
स्थिरग्रहस्य दिवसे करणे च गुणान्विते ।
तिष्येऽश्विनीषु रोहिण्यामुत्तरेष्वपि च त्रिषु ॥ २ ॥
रेवत्यां श्रवणे हस्ते शिलाविन्यासमाचरेत् ।
स्थिरस्य राशेरुदये सौम्यमित्रावलोकिते ॥ ३ ॥
सम्यङ्निमित्तशकुनस्वस्तिपुण्याहवाचिते ।
हर्षोदये च मनसः कुर्याद् वास्तोर्निवेशनम् ॥ ४ ॥
भद्रः प्रकृत्या शास्त्रज्ञः शुचिः स्नातः समाहितः ।
कर्मारभेत स्थपतिः कृतदेवार्चनक्रियः ॥ ५ ॥
पूर्णां समामविकलां चतुरश्रामनिन्दिताम् ।
शिलामाद्यां चये साध्वीं परीक्षेत विचक्षणः ॥ ६ ॥
कुम्भाङ्कुशध्वजच्छत्रमत्स्यचामरतोरणैः ।
दूर्वानागफलोष्णीषपुष्पस्वस्तिकवेदिभिः ॥ ७ ॥
नन्द्यावर्तैः सचमरैः कूर्मपद्मनिशाकरैः ।
वज्रैः प्रशस्तैः प्राकारैर्भूषिताः कर्मणो हिताः ॥ ८ ॥
दीर्घा ह्रस्वाल्पविषमाङ्गाऽभाध्मातापरीक्षिता ।
दिङ्मूढा चाङ्गहीना च सास्थ्यङ्गारा सशर्करा ॥ ९ ॥
१ द. ख. चार्चनीयाः । २ द. ख. ॰स्रामलंकृताम् । ३ द. ख. ॰क्ष्ये॰ । ४ द. ख.
पूर्वभाग॰ । ५ द. ख. ॰द्भि॰ । ६ क. ॰स्थापनाध्मा॰ ; ग. ॰छालाध्मा॰ । ७ द. ख. ग. ॰ताः ।
८ क. ॰राः ।

शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः । २०९
खण्डा दुःपंकनिर्भिन्ना कृष्णा दोषभयावहा॑ ।
नृणां पशुतुरङ्गाणां पदाङ्काः स्वस्तिवृद्धये ॥ १० ॥
क्रव्यान्मृगविहङ्गानां पादैः स्पृष्टास्तु वर्जयेत् ।
नन्दाभद्राजयापूर्णाश्चतस्रः स्युरिमाः शिलाः ॥ ११ ॥
वासिष्ठी काश्यपी तद्वद् भार्गव्याङ्गिरसीति ताः ।
तन्न प्रागुत्तरे देशे संनिवेशस्य वास्तुनः ॥ १२ ॥
नैर्ऋत्यां वा सकुसुमां समां गोचर्मसम्मितम् ।
वेदीं सगन्धकलशां चतुरश्रां प्रकल्पयेत् ॥ १३ ॥
आग्नेयामादितो नन्दां स्थापयेत् क्रमशः शिलाम् ।
अकालमूलैर्व्यङ्गैः सपद्मोत्पलपल्लवैः ॥ १४ ॥
सर्वोषधिहिरण्याद्यैर्हैमराजतमृन्मयैः ।
कुम्भैस्ताम्रमयैश्चापि मन्त्रैस्तामभिषेचयेत् ॥ १५ ॥
तीर्थप्रस्रवणाम्भोभिः सरत्नाक्षतपङ्कजैः ।
सुगन्धिभिः सैपुण्याहमभिषेकं प्रयोजयेत् ॥ १६ ॥
जाह्नवीयमुनारेवासरस्वत्यादिसम्भवैः(वम्) ।
महानदीजलं शस्तं शुभतीर्थभवं तथा ॥ १७ ॥
तथाद्रिवनवेशन्तदेवायतनजानि च ।
अभिषेकार्थमम्भांसि यथालाभमुपाहरेत् ॥ १८ ॥
मन्त्रेणानेन चैतासामभिषेकं समाचरेत् ।
हिरण्यवर्णाः पावैन्यः शुचयो दुरितच्छिदः ॥ १९ ॥
पुनन्तु शान्ताःश्रीमत्य आपो युष्मान्मधुश्च्युतः ।
मन्त्रपूतेन पयसा स्नापयित्वा ततः शिलाम् ॥ २० ॥
स्थपतिर्गन्धकल्केन मङ्गल्येनानुलेपयेत् ।
हिमचन्दनपूर्णेन व्यवकीर्य सुगन्धिना ॥ २१ ॥

१ क. ॰क्षपनि॑॰; ग. ॰पक्षनि॑॰ । २ द. ख. ॰हाः । ३ ग. सु॑॰ । ४ क. ॰वमान्यः॑॰ ।
५ ख. ग. ॰चन्द्रेण पू॑॰ ।
वा. २७

तरसा छादयेदेनां सलजैः पुष्पदामभिः ।
धूपमाल्योपहारैश्च दधिमांसाक्षतादिभिः ॥ २२ ॥
पूजयेदिष्टकां देवीं वस्त्रयुग्मैश्च पुष्कलैः ।
निवेशनान्ते नैर्ऋत्यां तदा विप्रानवस्थितान् ॥ २३ ॥
समसङ्ख्याञ् शुचीन् प्राज्ञानर्चयेद् दक्षिणाफलैः ।
ओङ्कारस्वस्तिपुण्याहगीतवादित्रनिस्वनैः ॥ २४ ॥
कर्ता जनितरोमाञ्चस्तेभ्यः कुर्यान्नमस्क्रियाम् ।
निवेद्य वास्तोष्पतये भूतेभ्यश्च ततो बलिम् ॥ २५ ॥
तासां चतसृणामन्याः कुर्यादुपशिलाः पृथक् ।
प्राकारैः¹ स्वस्तिकाङ्के द्वे तथा² श्रीवत्सलक्षणा³ ॥ २६ ॥
नन्द्यावर्तस्तु पूर्णायां भवेदेको (दङ्को) यथाक्रमम् ।
कर्णे प्राग्दक्षिणे नन्दां वास्तुनः स्थापयेदधः⁴ ॥ २७ ॥
अन्याः क्रमेण भद्राद्याः कोणेष्वन्येषु च त्रिषु ।
प्रतिष्ठापनमन्त्राश्च तासां चतसृणामपि ॥ २८ ॥
चत्वार ऋषिभिर्गीतः शाश्वतारम्भदर्शनाः ।
वीर्येणादिवराहस्य वेदायैस्त्वभिमन्त्रिताः (ताम्) ॥ २९ ॥
वसिष्ठनन्दिनीं नन्दां प्राक् प्रतिष्ठापयाम्यहम् ।
सुमुहूर्ते सुदिवसे सा त्वं नन्दे ! निवेशिता ॥ ३० ॥
आयुः कारयितुर्दीर्घं श्रियं चाव्यामिहावह ।
भद्रासि सर्वतोभद्रा भद्रे ! भद्रं विधीयताम्⁵ ॥ ३१ ॥
कश्यपस्य⁶ प्रियस्रुते⁷ ! श्रीरस्तु गृहमेधिनः ।
जये ! विजयतां स्वामी गृहस्यास्य महात्मनः ॥ ३२ ॥
आचन्द्रार्कं यशश्चास्य भूम्यामिह विरोहतु ।
त्वयि सम्पूर्णचन्द्राभे ! न्यस्तायां⁸ वास्तुनस्तले ॥ ३३ ॥


१ क. 'रं'। २ ग. 'रं च स्वं' । ३ ग. ज्ञेया श्री° । ४ ग. 'थ । ५ द. ख. °ते ।
६ द. ख. कां । ७ द. ख. °ते । ८ क. °स्यां ।

शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः । २११
भवत्येष गृहस्वामी पूर्णे ! पूर्णमनोरथः ।
इति¹ मूलर्चयो²(यं) मन्त्रैः कुर्यात् स्वस्तिकवाचनैः ॥ ३४ ॥
ताभिर्हिरण्यवर्णाभिः³ शिलाभिः सममद्भुतम् ।
प्रागुदक्प्लवना धन्या न प्रत्यग्दक्षिणाप्लवा ॥ ३५ ॥
इष्टकाश्चैत्यभवनप्राकारपुरकर्मसु ।
विताने⁴ चितिविन्यासे चतुर्मुखनिकेतने⁵ ॥ ३६ ॥
पुरोर्धाः⁶ शान्तिवेदीषु प्रतिमास्थापनेषु च ।
याज्ञिकेन विधानेन क्रमशः स्थापयेच्छिलाः ॥ ३७ ॥
† त्रैशौकौर्णार्स⁷भासै(र्ग्यै) स्ताः सामभिः सं⁸ महाव्रतैः ।
गायत्र्युष्णिगनुष्टुब्भिर्बृहत्या च यथाक्रमम् ॥ ३८ ॥
चयान् समस्तांश्चिनुयाच्चतुरो विरमेत ततः ।
ज्ञात्वा भित्तिप्रमाणं च चितेश्चयचतुष्टयम् ॥ ३९ ॥
समाप्यमादिकर्मैवं कनिष्ठं च यथोत्तरम् ।
प्रतिष्ठितास्ताः प्रथमं भूतले सुस्थिताः समाः ॥ ४० ॥
नं⁹ चालयेच्चालने स्याद्¹⁰ गृहभर्तुर्महद् भयम् ।
कम्पने च ¹¹भयं विद्यादेतासां स्थिरतां पुनः ॥ ४१ ॥
स्थपतेर्गृहभर्तुश्च मङ्गलं परमं विदुः ।
प्राग्दक्षिणायां¹² चलने गृह¹³भर्तुर्महद् भयम् ॥ ४२ ॥
भार्याविनाशो नैरृत्यां सूर्ये¹⁴यं¹⁵(?) भीतिर्मरुद्दिशि ।
गुरोश्च भयमैशान्य/मपच¹⁶रेऽपि तद् भवेत् ॥ ४३ ॥
प्रथमं स्थापितेनै(ताने)वं स्तम्भानपि न चालयेत् ।
नोद्धरेत प्रणद्याच्च विधिश्चुल्यो यतोऽनयोः¹⁷ ॥ ४४ ॥
† 'त्रैश्वो इति मातृकासु दृश्यते ।
१ क. ˚मं । २ द. ख. ग. ˚भ˚। ३ क. ˚भिः सशिलाभिः समं वृतम् । ४ द विभागे ।
५ क. ˚के । ६ द. ˚ध शा˚। ७ द. ख. ˚लो˚। ८ द. ख. ग. ˚सु˚। ९ क. स्स । १० द. ख.
भवालये चालमे स्या˚। ११ द. ख. सहां । १२ द. ख. णायाश्चालने; क. णयोश्चालने ।
१३ द. ख. गृहिन्स्यान˚। १४ क. ˚न्यां । १५ द. ख. ˚रो˚। १६ द. ख. ˚तु˚।
१७ द. ख. थोतयोः ।

२१२ समराङ्गणसूत्रधारे
विन्यासं प्रथमं तस्मात् कुर्यात् सम्यक् समाहितः ।
शिलानां स्थपतिस्तद्वत् स्तम्भानामपि सर्वथा ॥ ४५ ॥
द्वारप्राकारशालानां नगराणां च वेश्मनाम् ।
१तत्प्रमाणो ३विधिर्यस्मात् २तस्मात् तन्नाहतो भवेत् ॥ ४६ ॥
एवं शिलान्यासविधानमेतद् यथावदस्माभिरिहोपदिष्टम् ।
अस्मिन् कृते वेश्मसुरालयो५दि निष्पत्तिमभ्येति विनैव विघ्नम् ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः ॥
अथ बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः ।
इदानीमभिधास्यामो बलिरूपविधेः क्रमम् ।
येन ६येनार्चिता देवास्तुष्यन्ति समहेश्वराः ॥ १ ॥
मण्डलं वास्तुनो मध्ये गोमयेन प्रकल्पयेत् ।
कलशं तत्र विन्यस्येत् सप्रसूनं सकाञ्चनम् ॥ २ ॥
वास्तुदेवास्ततः कल्प्या यथास्थाननियोगतः ।
सधूपैर्विविधैर्माल्यैरर्घ्यं पश्चान्निवेदयेत् ॥ ३ ॥
अर्चयेद् विश्वकर्माणं माल्यैर्धूपैर्विलेपनैः ।
भक्ष्यैः फलैर्बहुविधैः पूजयेत् सुसमाहितः ॥ ४ ॥
आज्येन ७पयसा ८दध्ना पूजयेच्छिखिनं ९पुनः ।
शालिगोधूममुद्गाद्यैर्धान्यैः पर्ज्जन्यमर्चयेत् ॥ ५ ॥
जयन्तं पूजयेदाम्रद्राक्षाखर्जूरि१०कादिभिः ।
मालतीमल्लिकाभिश्च पूजयेत् त्रिदशाधिपम् ॥ ६ ॥
पुष्पै रक्तैस्तथा धूपै रक्तचन्दनलेपनैः ।
ततः सूर्यं जगन्नाथं पूजयेल्लोकचक्षुषम् ॥ ७ ॥
१ द. ख. वेश्यते । २ द. ख. तां तं । ३ द. ख. त्रिधे । ४ क. तत्राश्मात्तत्रा ।
५ द. ख. ॰यावि त्रिशेतिमनेोति विनैव विघ्नैः । ६ द. येभार्पिता; ख. ग. यैर्भाविता । ७ द. ख.
सपयो । ८ द. दध्ना । ९ द. ख. च्छिषितं दुमः । १० द. ख. ॰र् ।

बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः । २१३
जम्बीरैर्बीजपूरैश्च नारङ्गैः पीनकैः फलैः ।
पूजयेत् सत्यनामानं ¹देवं तेन स तुष्यति ॥ ८ ॥
मत्स्यमांसैश्च तुष्यन्ति सर्वे रक्षःपुरोगमाः ।
सितैः फलैर्नारिकेलैर्भृशश्च परितुष्यति ॥ ९ ॥
गन्धधूपप्रयोगैश्च नभोनामानमर्चयेत् ।
पुष्पैः सुगन्धिभिः शुक्लैर्मारुतः परितुष्यति ॥ १० ॥
कृसरं मधुसंयुक्तं ⁴पूष्णे भक्त्या निवेदयेत् ।
वितथं तु शुभैरन्यैर्मद्यमांसविवर्जितैः ॥ ११ ॥
पूजितस्तुष्टिमायाति विवस्वांश्च महामुनिः ।
पुष्पैः सपुष्पकैस्तुष्टिमवाप्नोति गृहक्षतः ॥ १२ ॥
मत्स्यमांसयुतैर्मद्यैर्यमस्तुष्टिः सदा भवेत् ।
पुन्नागांगरुधूपेन गन्धर्वानर्चयेद् बुधः ॥ १३ ॥
मृगमांसयुतैर्भक्ष्यैर्भृङ्गराजं च तर्पयेत् ।
राजजम्बूफलैर्बिल्वैर्देवमभ्यर्चयेन्मृगम् ॥ १४ ॥
पायसैर्मधुसंयुक्तैर्मांसैर्भक्तैश्च शोभनैः ।
कर्पूरसुरभिद्रव्यगन्धैः संपूजयेत् पितॄन् ॥ १५ ॥
सपुष्पैर्मोदकैर्लाजैः पल्लवैश्च विमिश्रितैः ।
दौवारिकं प्रयत्नेन पूजयेद् विघ्नकारकम् ॥ १६ ॥
अपूपैः शोभनैर्गन्धैर्धूपैर्माल्यैरनुत्तमैः ।
पुष्पैः कण्टकजातीनां सुग्रीवं पूजयेत् सदा ॥ १७ ॥
⁸सपुष्पैर्लापं(ज)कैर्भक्ष्यैर्दधियुक्तान्नपायसैः ।
¹⁰अर्चयेत् पुष्पदन्तं तु यशोवीर्यान्वितं सुरम् ॥ १८ ॥
मांसैश्च सूकरादीनां वैनतेयं सदार्चयेत् ।
वरुणं ¹¹च महासत्त्वं पूजयेद् धूपचन्दनैः ॥ १९ ॥


पादटिप्पणी (Footnotes):

१ द. ख. नदेवं वेहि समुष्यति । २ द. ख. ग. सर्व । ३ द. ख. ॰रेःभृ॰ । ४ द. ख. पृष्टे; क. घष्णे । ५ द. ख. विवष्टायांश्च । ६ द. ख. ॰गम्रुनुधू॰ । ७ द. ख. ॰क्षैः॰ । ८ द. ख. ग. ॰पुष्पैर्लाप॰ । ९ क. ॰घ॰ । १० द. ख. अवये । ११ द. वर्तुणं तु; ख. चर्तुणं तु ।

२१४ समराङ्गणसूत्रधारे
राहुं च मांससंयुक्तैस्तर्पयेद् भक्ष्यभोजनैः ।
रुधिरेण प्रदत्तेन तुष्टिमेति शनैश्वरः ॥ २० ॥
मांसेन तु क्षयस्तुष्टिं रोगाणामधिपो व्रजेत् ।
मेदसा पूजयेद् रोगं सर्वलोकभयङ्करम् ॥ २१ ॥
वासुकिं क्षीरदानेन पूजयेत् सततं नरः ।
पूर्ववत् पूजयेद् देवं विश्वकर्माणमीश्वरम् ॥ २२ ॥
सितप्रसूनविन्यासैर्भल्लाटं पूजयेद् बुधः ।
दधियुक्तेन चान्नेन सोमं सर्वत्र पूजयेत् ॥ २३ ॥
कुबेरं धूपदानेन पूजयेत् सततं नरः ।
अदितिं च सुवर्णेन पद्मैरपि च पूजयेत् ॥ २४ ॥
अर्कमन्दारमालाभिर्वृषभं च समर्archayett समर्चयेत् ।
अन्येषामपि देवानामर्र्चनं^१ धूपसाम्प्रतैः(?) ॥ २५ ॥
सर्वपुष्पफलैश्चैषां कार्यं बुद्धिमता सदा ।
इत्येते बलयः सर्वे शान्त्यर्थं परिकल्पिताः ॥ २६ ॥
शोधने कर्षणे भूमेः साधने रूपकल्पने ।
गृहे प्रवेशने रम्ये तिथिमभ्युदयेषु च(?) ॥ २७ ॥
स्कन्धावारनिवेशेषु पुरग्रामनिवेशने ।
देवालयक्षितिपवेश्मनिवेशनेषु
प्रोक्तान् बलीन् प्रवितरेत् प्रयततः सुरेभ्यः ।
प्रारम्भमन्यमपि वास्तुगतं चिकीर्षुः
कुर्वन्निमं विधिमभीप्सितभाजनं स्यात् ॥ २८ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः ॥
१ द. ॰स्तु॰ । २ द. ख. ॰ने ।

कीलकसूत्रपातो नाम सप्तत्रिंशोऽध्यायः । २१९
अथ कीलकसूत्रपातो नाम सप्तत्रिंशोऽध्यायः ।
वर्णानां यानि दारूणि कीलकार्थं नियोजयेत् ।
इदानीं तानि वक्ष्यामि श्रेयःकीर्त्तिहिताय च ॥ १ ॥
खदिरोदुम्बराश्वत्थशालशाकधवार्जुनाः ।
अञ्जनः कदराशोकतिनिशारुणचन्दनाः ॥ २ ॥
³शिरीषसर्जन्‍यग्रोधवेणवः कीलकर्मणि ।
पुन्नामानो⁴ द्रुमाः शस्ताः स्त्रीनामानो विगर्हिताः ॥ ३ ॥
अश्वत्थः खदिरश्चैतौ विप्राणां वृद्धिकारको ।
रक्तचन्दनवेणूत्थकीलौ क्षत्रस्य पूजितौ ॥ ४ ॥
शाकश्च खदिरश्चेति सामन्तानां हिताविमौ ।
कीलौ¹⁰ शालशिरीषोत्थौ वैश्यानां कीर्तितौ¹¹ शुभौ ॥ ५ ॥
शूद्रजातेस्तु तिनिशधवार्जुनसमुद्भवाः ।
वैश्यवेश्मसु सौभाग्यकार्ये च स्युरशोकजाः ॥ ६ ॥
न्यग्रोधो¹² वणिजां धाम्नि भूमिकर्मण्युदुम्बरः¹³ ।
महामात्र(त्रा)¹⁴श्ववैद्यानां कीलाः सर्जार्जुना गृहे ॥ ७ ॥
विप्राणां सर्ववर्णोत्थाः क्षत्रियाणां त्रिवर्णजाः ।
वर्णद्वयोक्ता वैश्यानां शूद्राणां स्वानुलोमतः ॥ ८ ॥
प्रतिलोमा न कर्तव्याः कीलका भूतिमिच्छता ।
प्रमाणान्यथ कीलानां निगद्यन्ते पृथक् पृथक् ॥ ९ ॥
द्वात्रिंशदङ्गुलाः कीला विप्राणां स्युः शुभावहाः ।
क्षत्रियाणां पुनश्चाष्टाविंशत्यङ्गुलसम्मिताः ॥ १० ॥
चतुर्विंशत्यङ्गुलाश्च वैश्यानां शुभदायिनः ।
विंशत्याद्यङ्गुलैः कीलाः शूद्रजातेस्तु ते हिताः ॥ ११ ॥
१ द. ॰क्ष॑ । २ क. ॰नं॑ । ३ द. ख. ॰दीवेववर्जन्यस्तोथ॰ । ४ द. ख. ॰न्नामो ।
५ द. ख. ॰मो स्त्रिविरा गर्हिताः । ६ द. ख. ॰राश्च ते । ७ द. ख. ॰ल । ८ द. ख. ॰तः ।
९ द. ख. ॰द् ॰ । १० द. ख. ॰ल । ११ द. ख. ॰तः शुभः । १२ द. ख. ॰धा । १३ द. ख. ॰रा ।
१४ द. ख. ॰त्वस्वविप्रियाणां; ग. ॰स्ववैविद्यानां । १५ द. ख. स्वेन । १६ द. ख. ॰र्मिं॰ ।

२१६ समराङ्गणसूत्रधारे
षडङ्गुलपरीणाहाः सर्वेष्वेते शुभावहाः ।
ब्राह्मणक्षत्रियविशां वेदाष्टाश्रषडश्रयः१ ॥ १२ ॥
षडश्रयस्तु शूद्रस्य प्रकृतेस्तु२ यदृच्छया ।
दार्भमौञ्जौर्णकार्पासं३ विप्रादीनां यथाक्रमम् ॥ १३ ॥
अर्धपर्वपरीणाहं४ दृढं सूत्रं तु वर्तितम् ।
अलाभे६ स्वस्य सूत्रस्य प्रोक्तादन्यतमं बुधः ॥ १४ ॥
गृह्णीयात् सूत्रमन्ये तु गृह्णीयुः स्वेच्छयैव ते७ ।
इत्थं संभृत्य सम्भारान् गृहभर्ता शुभेऽहनि ॥ १५ ॥
शुक्लपक्षे शुचिः स्नातः स्थपतिश्च सिताम्बरः ।
गृहस्थान्निमित्तात् तु देवस्थानानि८ लक्षयेत् ॥ १६ ॥
कुसुमाक्षतमय्यैश्च कर्तव्या गृहदेवताः ।
आदौ स्थानानि शङ्कूनां परीक्षेत समन्ततः ॥ १७ ॥
तेषु सर्वेषु कर्तव्यमर्चनं तु९ यथाविधि ।
गृहस्य मध्ये सिक्त्वा तु निरूप्य ब्रह्मणः१३ पदे ॥ १८ ॥
गोमयेन समालिप्तां कुर्याद् वेदीं सुलक्षणाम् ।
चतुरश्रां१४ चतुर्द्वारामक्षतैः सुप्रतिष्ठिताम् ॥ १९ ॥
तस्या मध्ये प्रतिष्ठाप्यः कुम्भो हैमोऽथ राजतः ।
ताम्रको मृन्मयो वापि पूर्वाभावे परः परः ॥ २० ॥
अकालमूलः सोऽव्यङ्गो जलपूर्णः स्वलङ्कृतः ।
मणिरत्नप्रवालैश्च स्वर्णरूप्येण गर्भितैः१५ ॥ २१ ॥
प्रतिष्ठाप्या(प्योऽ)क्षतैः पुष्पफलबीजसमन्वितः ।
श्वेतेन चन्दनेनैनं चर्चयित्वा समन्ततः ॥ २२ ॥


१ द. ख. ग. ०दशास्रष० । २ द. ख. ०क्षियेस्तु; ग. ०क्षिपेस्तु । ३ द ख. सौजसां चोर्णका० ।
४ द. ख. ०दुमं । ५ द. ख. हां । ६ द. ख. आलमे । ७ द. ख. तौ । ८ द. ख. ग. ०ना० ।
९ द. ख. ग. ०त्ता तु । १० द. ख. ०नामिल्० । ११ ख. ग. ०प्यश्वकं० । १२ द. ख. च ।
१३ द. ख. ब्राह्मणः पदैः । १४ द. ख. ०स्यां० । १५ द. ख. गर्हिताः ।

कीलकसूत्रपातो नाम सप्तत्रिंशोऽध्यायः । २१७
तस्योपरिष्टाद् विन्यस्येत् क्षीरवृक्षस्य पल्लवम् ।
सुगन्धिनाथै^१ धूपेन धूपयित्वा चतुर्दिशम् ॥ २३ ॥
वेष्टयेदहतेनैनं शुक्लवस्त्रेण सर्वतः ।
वास्तुमध्ये यतो ब्रह्मा कुम्भरूपं(पः) स तिष्ठति ॥ २४ ॥
कुम्भस्योत्तरभागे तु कीलकान् स्थापयेद् बुधः ।
कीलानष्टौ परीक्षेत^२ स्था^३पयेच्च यथाविधि ॥ २५ ॥
श्वेतचन्दनलिँप्तां^४स्ताञ्^५ श्वेतपुष्पै^६र्विभूषयेत् ।
सालक्तकाँन्^७ सुरभिणा धूपेन च सुधूपितान्^८ ॥ २६ ॥
ऊर्णां^९मयेन सूत्रेण त्रिवर्णेनाभिवेष्टयेत् ।
मधुसर्पिर्दधिक्षीरैर्मूलं^१०भागेषु लेपयेत् ॥ २७ ॥
अर्चयेत् परशुं सूत्रमष्टीलां^११दीनि सर्वतः ।
अथोपकरणान्यत्र धूपपुष्पाक्षतादिभिः ॥ २८ ॥
ततः पूर्वोत्तरे वास्तोर्भागे सप्तार्चिषः पदे ।
गोमयेन समालिप्ते कुशास्तरै^१२णमास्थितः ॥ २९ ॥
अग्निकार्यं प्रकुर्वीत पुरोधाः शान्तिमेव च ।
सांवत्सरैः^१३ शुचिः स्नातः कृतस्नानैः(?)^१४ समाहितः ॥ ३० ॥
शङ्कु^१५ना साधयेल्लग्नं सम्यक् तं^१६घटिकाथवा(?)।
रात्रिलग्नं तु नक्षत्रैर्मध्यास्तोद्यसंश्रितैः ॥ ३१ ॥
एवं संसाधयेल्लग्नं यदीच्छेत् सिद्धिमात्मनः^१७ ।
पूजर्या^१८ तुष्टिकारिण्या पूजयेच्च पुरोहितम् ॥ ३२ ॥
अभ्यर्चिते यतस्तस्मिन् ब्रह्मा भवति पूजितः ।
सांवत्सरस्य कर्तव्या तैतः^१९ पूजा यथाविधिं^२० ॥ ३३ ॥
१ द. ख. ग. च । २ द. पविन्स्वेतः; ख. ग. यवीश्वेत । ३ द. स्ना° । ४ द. ख. °प्तास्ता
श्चे°; क. °प्तास्ते श्चे° । ५ क. काः । ६ द. ख. °पिता; क. °पिताः । ७ द. ख. ऊर्वासि° ।
८ द. ख. सं° । ९ द. ख. °मूल्यस्य° । १० द. ख. ग. °ष्टीलावानी । ११ द. °रिणं । १२ द. ख.
°वा । १३ द. ख. रो सु°; ग. °रशुचिः । १४ द. ख. °न । १५ द. ख. ग. शंकुंत । १६ द.
ख. ग. तं खाटि° । १७ द. ख. माप्नुयात् । १८ द. ख. पूजा वा । १९ द. ख. °व्यास्त° ।
२० द. ख. °धिः ।
वा. २८

२१८ समराङ्गणसूत्रधारे
सांवत्सरेऽर्चिते यस्मात् पूजितः स्याद् बृहस्पतिः ।
स्थपतिं पूजयेत् पश्चात् त्वष्टृपुष्टिचिकीर्षया ॥ ३४ ॥
तदधीनं यतः कर्म शुभं वा यदि वाशुभम् ।
श्वेतचन्दनदिग्धांस्ताञ् श्वेतपुष्पैश्च पूजितान् ॥ ३५ ॥
सदशैर्हतवस्त्रैश्चाङ्गुलीयैः प्रपूजयेत् ।
परिकर्मकरा ये च तान् यथाशक्ति पूजयेत् ॥ ३६ ॥
हेम्ना वस्त्रादिदानैश्च वाग्भिर्वा परितोषयेत् ।
यथा सुमनसस्ते स्युस्तथा कर्तव्यमादरात् ॥ ३७ ॥
ततः स्थपतिराचम्य बलिकर्म समाचरेत् ।
सूत्रपाते बलिं धीमान् सार्वभौतिकमाचरेत् ॥ ३८ ॥
तस्यालाभे बलिः कार्यों यो भवेत् सोऽभिधीयते ।
विदधीत चरून् श्वेतरक्तपीतासितान् पृथक् ॥ ३९ ॥
पायसं कृसरं क्षीरं निष्पावाञ् श्वेतमोदनम् ।
पाविकादधिरूपांश्च पललोल्लापिकाघृतम् ॥ ४० ॥
दध्योदनं च संमिश्रं देवताभ्यो निवेदयेत् ।
तिलैर्घृतेन सहितैर्देवमग्निं च पूजयेत् ॥ ४१ ॥
ततश्च पायसं दध्ना ब्रह्मस्थाने निवेदयेत् ।
ततश्चानुक्रमेणैव देवताभ्यो बलिं हरेत् ॥ ४२ ॥
बलिकर्म यथान्यायं कृत्वा च द्विजवाचनम् ।
स्वशाखीयान् शुचीन् प्राज्ञान् पूजयेद् दक्षिणाफलैः ॥ ४३ ॥
ओङ्कारस्वस्तिपुण्याहैर्गीतवादित्रनिस्वनैः ।
ततो विप्रैः सह स्वामी कुर्यात् तस्य प्रदक्षिणम् ॥ ४४ ॥
अक्षतान् प्रथमं कुम्भे दापयित्वा द्विजोत्तमैः ।
ततो दक्षिणपूर्वेण गत्वा पुण्याहवाचकैः ॥ ४५ ॥

१ द. वसुं; ख. वस्तुं । २ द. ख. ॰लैश्च । ३ द. ख. वाग्भिर्वा । ४ द. ख. ग. ॰र्ये ।
५ द. ख. ॰तेरक्तश्वेतभक्तपी॰ । ६ द. ख. ॰त्रिं । ७ द. ख. ग. ॰दध्यरू॰ ८ द. ख. ॰ल्लो॰ ।
९ क. ॰मृ॰ । १० द. ख. दैवते॰ । ११ द. ॰चतां; ख. ॰चनां । १२ द. ख. ॰ता प्र॰ ।
१३ द. ख. ॰मा ।

कीलकसूत्रपातो नाम सप्तत्रिंशोऽध्यायः । २१९
अहताम्बरसंवीतः शुचिः स्थपतिरासने ।
निषद्य प्राङ्मुखः शङ्कुं धृत्वा दक्षिणपाणिना ॥ ४६ ॥
पश्चादादाय वामेन प्रतिष्ठाप्य च भूतले ।
मन्त्रानमून जपन् वीरो हन्यात् परशुना ततः ॥ ४७ ॥
विशन्तु ते तलं नागा लोकपालास्तथैव च ।
प्रतिष्ठन्तु गृहं चास्मिन्नायुर्बलकरं भवेत् ॥ ४८ ॥
प्रहारान् सुस्थिरानष्टौ दद्यात् कीलस्य मूर्धनि ।
हन्यमाने ततः कीले निमित्तान्युपलक्षयेत् ॥ ४९ ॥
गोविप्ररॅथनागाढ्याः कन्या नृपवरैःस्त्रियः ।
शङ्खदुन्दुभिंवंशानां तथा गीतस्य च ध्वनिः ॥ ५० ॥
आविर्भवति यद्यस्मिन् हन्यमाने प्रभुस्तदा ।
सततं सुखमाप्नोति शान्त्यैश्वर्यैश्च वर्धते ॥ ५१ ॥
हतं श्रुतं विपन्नं वा निषेधः सूत्रकीलयोः ।
पाषण्डिनां च सर्वेषां दर्शनं न सुखावहम् ॥ ५२ ॥
दृष्ट्वा शुभनिमित्तानि ततः शङ्कुं निवेशयेत् ।
हन्यमानो यदा कीलो विशेद् भूमौ शनैः शनैः ॥ ५३ ॥
कर्मसिद्धिर्भवेत् तत्र गृहं रत्नपरिच्छदम् ।
हन्यमानोऽपि न विशेद् धरित्रीं कीलको यदा ॥ ५४ ॥
न तत्र कर्मसिद्धिः स्यादनिमित्तं च लक्षयेत् ।
एकेनापि प्रहारेण यत्र कीलो विशेन्महीम् ॥ ५५ ॥
नं सिद्धिं याति तत्रौकः कृतं वा नोपभुज्यते ।
आयस्याष्ठीलया हन्यान्न काष्ठेन कथञ्चन ॥ ५६ ॥
काष्ठेन ताडितः कीलो वह्निदोषकरो भवेत् ।
अश्मना यदि ताडयेत तदा व्याधिं प्रयच्छति ॥ ५७ ॥
१ द. ख. ॰र्हतांबरः । २ द. ख. ॰ध्यां । ३ क. कुम्भं । ४ द. प्रवरमनागांश्च । ५ क.
॰रः । ६ द. ख. ॰भिवासानां । ७ द. ख. ग. शान्त्यर्थैश्च; क. शान्तैश्वं । ८ द. ख. ज्वं;
ग. ज्ञं । ९ द. ख. ग. स ।

२२० ·समराङ्गणसूत्रधारे।
ऐन्द्रीं प्रति नतः कीलो धनसम्मानकारकः ।
आग्नेय्यां प्रणते कीले भवत्यग्निभयं महत् ॥ ५८ ॥
याम्यायां मरणं राज्ञां दिशि राक्षसतो भयम् ।
धननाशस्तु वारुण्यां वायव्यां रोगतो भयम् ॥ ५९ ॥
सौम्यं सौम्योऽनते राजप्रसादाद्येशतो गतः ।
कीलके कूर्चके जाते पुत्रपौत्रान्वयैर्गृहे³ ॥ ६० ॥
परमामुद्धिमाप्नोति धनधान्यैश्च वर्धते ।
हन्यमानो⁴ यदा यत्नात् कीलः कश्चिदपि स्फुटेत् ॥ ६१ ॥
नांशं विद्यात् तस्य पत्न्या ज्येष्ठस्य तनयस्य वाँ ।
यदि भज्येत कीलः खात् स्वामिनो जायते वधः ॥ ६२ ॥
यदा कीलः पतेद्धस्ताद् भ्रंशः स्यात् स्थपतेस्तदा ।
हस्तभ्रष्टश्च(?) स भवेदष्ठीले हस्तविच्युते⁹ ॥ ६३ ॥
सुखेन हन्यमानश्चेत् कीलः स्वस्थो न जायते ।
अष्टौ प्रहारानपरांस्तस्य दद्यात् तदा पुनः ॥ ६४ ॥
स्रग्गन्धधूपोपहारैः कुर्यांच्चै¹¹ परिषेचनम् ।
इदं¹² साम महापुण्यं परिचिन्त्य¹³ समासतः ॥ ६५ ॥
त्रैशोकं¹४ तु जपेद् विद्वान् यावच्छङ्कभिषेचनम् ।
गत्वाथ नैर्ऋतीमाशां ततः शङ्कं निवेशयेत् ॥ ६६ ॥
ऊर्णायवेन¹⁵ ¹⁶ साम्नास्य सम्यक्¹⁷ स्नपनमाचरेत् ।
वायोर्दिशं ततो गत्वा तत्र शङ्कं निवेशयेत्¹⁸ ॥ ६७ ॥

१ ख. ग. च गते; द. °गते कीले । २ द. °म्यागतो राज्ञप्रं । ३ द. हैः। ४ द. °नं यदा मत्तान् । ५ द. भासं विंद्या तं° ६ ख. च । ७ क. लस्यात् । ८ क. स्य । ९ द. °विद्युते ।
१० क. लतुस्थो; द. कीलतुस्था न जां° । ११ द. °च्च कतिषे॑ । १२ द. इदं मास महापुण्यं· परिवर्त्य । १३ क. वर्त्य स । १४ द. वै श्लोकं तज्जपेद्वि° । १५ द. औत्तार्थ्य वेनशाम्नासम्पक् ।
१६ क. यवेशन; ख. र्यवेन । १७ क. प्राग्वत् (स्नानं स) मोच । १८ द. निवेश्य च ।

कीलकसूत्रपातो नाम सप्तत्रिंशोऽध्यायः । २२१
अभिषेकं महारत्नसाम्ना तस्य समाचरेत् ।
अथैशानीं दिशं गत्वा शङ्कं तस्यां निवेशयेत् ॥ ६८ ॥
भाग्रेण१ साम्ना कुर्वीत प्राग्वत् तस्याभिषेचनम् ।
ततोऽनु सूत्रं बध्नीयात् सव्यं२ द्विगुणवेष्टितम् ॥ ६९ ॥
प्रदक्षिणं प्रसार्यैतदुक्तः शङ्कक्रमो यथा ।
म(बं३)ध्यमानं यदा सूत्रं शङ्कुः४ किमपि५ मुञ्चति ॥ ७० ॥
तदा पुत्रवधं विद्याच्छिन्नं स्वस्वामिमृत्यवे६ ।
तस्माद् यत्नः प्रकर्तव्यो यावत् सूत्रं प्रसार्यते७ ॥ ७१ ॥
चतुर्णामपि बाहूनां पोषं(?)छिन्नं न दुष्यति ।
सूत्रं प्रसार्य वितरेच्चरूंन्८ पूर्वं प्रकल्पितान् ॥ ७२ ॥
स्वेषु स्वेषु ततः स्थानेष्वनेन विधिना बुधः ।
शङ्कुस्थानेषु दातव्याः सिताद्याश्चरवः क्रमात् ॥ ७३ ॥
प्राग्दक्षिणस्या विदिशो९ मन्त्रं चेमं हृदा जपेत्१० ।
मारुतानां च सर्वेषां मौनवानां११ तथैव च ॥ ७४ ॥
बलिं तेषु प्रयच्छामि मन्त्रेण परिमन्त्रितम् ।
रक्तं बलिमुपादाय नैर्ऋत्यभिमुखस्तथा ॥ ७५ ॥
नैर्ऋत्यधिपतिश्चैव नैर्ऋत्यां ये च राक्षसाः ।
बलिं तेषु प्रयच्छामि रक्तमोदनमुत्तमम् ॥ ७६ ॥
कृष्णं१२ बलिमुपादाय गत्वा च दिशमानिलीम्१३ ।
नमस्ते नागराजाय ये चान्ये तं समाश्रिताः ॥ ७७ ॥
बलिं तेषु प्रयच्छामि कृष्णमोदनमुत्तमम् ।
बलिमुद्धृत्य हारिद्रमैशानीमाश्रयेन्१४ दिशम् ॥ ७८ ॥
१ द. भागेण । २ द. सत्यं । ३ द. मं० । ४ ख. ग. कुः । ५ द. कमपि । ६ द.
विद्याच्छिन्नसुस्वामि० ७ क. र्येत् । ८ द. च्चनून् । ख. ग. नू । ९ क. र्वि १० द. जयेत् ।
११ द. मरुतानां तं० । १२ द. कृष्णां १३ द. ०लिन् । १४ ख. ग. येन् दि; द. ०येद्दिशम् ।

१२२ समराङ्गणसूत्रधारे
नमो रुद्रेषु सर्वेषु ये चान्ये तान् समाश्रिताः ।
प्रयच्छामि बलिं तेषां हारिद्रौदनमुत्तमम् ॥ ७९ ॥
एवमेतान् बलीन् सर्वान् यथावत् प्रतिपादयेत् ।
ततः कुम्भोदकं पुण्यं साम्ना दिव्येन मन्त्रयेत् ॥ ८० ॥
वामदेव्येन कुर्वीत प्रोक्षणं तेन वास्तुनः ।
द्रुमा विप्रादीनामिति निगदिताः शङ्कुघटने
फलं यच्छङ्कोश्च स्फुटमिह निमित्तानि बहुशः ।
तथा सूत्राताने विधिरनु च मन्त्रैः प्रतिदिशं
बलिः कीलेषूक्तस्त्रिदशपरितोषाय विधिवत् ॥ ८१ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
कीलकसूत्रपातो नाम सप्तत्रिंशोऽध्यायः ॥
अथ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः ।
इदानीमभिधास्यामो वास्तुसंस्थानमातृकाम् ।
निवासहेतवे सम्यक् सर्वकर्मोपजीविनाम् ॥ १ ॥
चतुरश्रं समं †साचि दीर्घं वृत्तं च शम्बुकम् ।
शकटाक्षं भगादर्शवज्रकन्थाकृतीनि च (?) ॥ २ ॥
छिन्नकर्णं विकर्णं च शङ्खाभं क्षुरसन्निभम् ।
शक्त्याननं कूर्मपृष्ठं सदंशं व्यजनाकृति ॥ ३ ॥
शरावस्वस्तिकाकारं मृदङ्गपणवोपमम् ।
विशर्करं कबन्धाभं यवमध्यसमाकृतिं ॥ ४ ॥
१ द. हं° । २ द. ॰देवेन । ३ द. यत्स° । ४ द. नितांतं । ५ द. पातोव्यायो सप्तत्रिंशः
॥ छ ॥ ६ द. संभुकं । ७ द. च संयातं । ख. ग. संयातं । ८ ख. ग. द. ‘संक्षामनं’। ९ द.
°रे । १० द. तिः ।
† पूर्वाध्यायोन्तिमश्लोकादारभ्या चत्वारिंशाध्यायावसानात् क. पाठो लुप्तः, ख. गयोस्तु
विनियोगे ‘शेष्य’ति पठ्यते ।

वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः । २२३
उत्सङ्करा(ग)जदन्ताभे तथा परशुसन्निभम् ।
विस्रावितं च श्वभ्रं च ‡प्रलम्बं च विवाहिकम् ॥ ५ ॥
त्रिकुष्ठं पञ्चकुष्ठं च परिच्छिन्नं तथापरम् ।
दिक्स्वस्तिकाभं श्रीवृक्षं वर्धमानसमाननम् ॥ ६ ॥
एणीपदं नैरपदं चत्वारिंशत् समासतः ।
क्षेत्राण्युक्तान्यथामीषां विनियोगो विधीयते ॥ ७ ॥
चतुरँस्रे समे राजा शय्याकारे पुरोहिताः ।
दीर्घे कुमारकाः सेनापतिर्वृत्तायते वसेत् ॥ ८ ॥
वसेयुः शम्बुकाकारे सर्वे वाहाः सुखार्थिनः ।
अन्तःपुरं सन्न समे वाणिजाः शकटाकृतौ ॥ ९ ॥
वेश्यास्तु भगसंस्थाने दर्पणाभे सुवर्णकृत् ।
संस्थानतो वज्रसमे जना नगरगोष्ठिकाः ॥ १० ॥
वसेयुः §शङ्खसंस्थाने क्षेत्रे पुत्राभिलाषिणः ।
छिन्नकर्णे महामात्रा विकर्णे मृगलुब्धकाः ॥ ११ ॥
शङ्खाभे चैकहश्वानो गणाचार्याः क्षुरोपमे ।
व्रता(जा)ध्यक्षः शक्तिमुखे कूर्मपृष्ठे तु मालिकाँः ॥ १२ ॥
सदर्शौ सौचिका वाजिपोषिका व्यजनोपमे ।
तक्षाणश्च शरावाभे स्वस्तिके वन्दिमागधाः ॥ १३ ॥
पणवाभे मृदङ्गाभे वेणुसूर्यादिवादकाः ।
विशर्करे१२ तु रथिनः कबन्धप्रतिमे पुनः ॥ १४ ॥
नीचाः श्वपाकाश्च यवप्रतिमे धान्यजीविनः ।
उत्सङ्गे श्रमेणा हस्त्यारोहिणो रा(ग)जदन्तके ॥ १५ ॥
१ द. न्निभां । २ द. नवपदं । ख. ग. व । ३ द. रस्त्रे । ४ द. विं । ५ द. वसेच्च ।
६ द. लं । ७ द. का । ८ द. ंशे सूचि । ९ द. विं । १० द. तक्षणां ख सरावाने । ख. ग.
'क्षणाश्च' । ११ द. र्या च वादिकाः । १२ द. र्कमे; ख. ग. 'मे'। १३ द. श्रवणा ।
१४ द. राजदन्तिके ।
‡ विनियोगे पुनरिदं न वक्ष्यने । § उपर्थपीदं विनियुक्तम् ।

२२४ समराङ्गणसूत्रधारे
परशुप्रतिमे क्षेत्रे बन्धनागारिणो जनाः ।
विस्राविणि सुराकाराः श्वभ्राभे कर्मकारिणः ॥ १६ ॥
युगले नापिताः स्वाविवाह्ये¹(?)कोशरक्षिणः ।
त्रिकुष्टे पञ्चकुष्टे च वसेयुर्वह्नि²जीविनः ॥ १७ ॥
समन्ततः *परिच्छन्ने सर्वे मानोपजीविनः ।
दिक्स्वस्तिके तु चैत्यानि कुर्याद् वासांश्च सर्वशः ॥ १८ ॥
श्रीवृक्षप्रतिमे³ वृक्षान् यज्ञवाटांश्च कारयेत् ।
वर्धमानाकृर्तिमुखे⁴ऽप्येतानेव प्रकल्पयेत् ॥ १९ ॥
एणीपदे तु गणिकौश्चौरान् नरपदोपमे⁵ ।
इत्युक्ताः शुभर्दा⁶ वासाः सर्वकर्मोपजीविनाम् ॥ २० ॥
कर्मोपजीविजनवासनिमित्तमेताः
क्षेत्राकृतीरभिहिताः⁷ प्रविमृश्य तेषाम् ।
वेश्मानि कारयति यः स्थपतिर्यथाव-
न्मान्यः स कस्य न भवेदिह भूमिपृष्ठे ॥ २१ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
वास्तुसंस्था⁸(प?)नमातृकानामाष्टात्रिंशोऽध्यायः ॥
अथ द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः ।
गृहाण्युक्तानि सर्वेषामेवं कर्मोपजीविनाम् ।
वर्णिनां च गृहस्थानां कथ्यन्तेऽतः परं यथा ॥ १ ॥
भल्लाटे धनदे यद्वा चरके पृथिवीधरे ।
ब्राह्मणस्य भवेद् वेश्म माहेन्द्रद्वारमुत्तमम् ॥ २ ॥


१ ग. स्वाधि वा; द. °धि°। २ द. वसेत्पूर्वाहि°। ३ द. मा। ४ द. कृतिर्मुख्येऽप्ये-
तान्येव। ५ द. °काचोरोत्तरपदोपमाः। ६ द. °टा। ७ द. विरचिताः। ८ द. °स्थापन°।
९ द. °मिव।

  • 'परिच्छिन्नामि' ति लक्ष्ये पठितम्।

द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः । २२१
माहेन्द्रेऽर्केऽथ सत्ये वा आर्यके^१ वा निकेतनम् ।
कार्यं गृहक्षतद्वारं क्षत्रियस्य शुभावहम् ॥ ३ ॥
याम्ये वैवस्वते वापि गान्धर्वेऽथ गृहक्षते ।
वैश्यस्य भवनं कार्यं द्वारं पुष्पादह्वये शुभम् ॥ ४ ॥
वारुणे पौष्पदन्ते वा यद्वा मैत्रेऽथवासुरे ।
शूद्रस्य सदनं कार्यं भल्लाटद्वारमुत्तमम् ॥ ५ ॥
विप्राणां प्राङ्मुखं वास्तु गृहं स्याद् दक्षिणामुखम् ।
वर्धते धनधान्येन पुत्रपौत्रैश्च नित्यशः ॥ ६ ॥
दक्षिणाभिमुखं वास्तु भवनं पश्चिमामुखम् ।
क्षत्रियस्य धनं धान्यं विक्रमश्चेह वर्धते ॥ ७ ॥
वास्तुनः पश्चिमं^२ द्वारं भवनस्योत्तरामुखम् ।
तत्रैधते धनैर्धान्यैः पुत्रपश्वादिभिश्च विट् ॥ ८ ॥
वास्तु^३ स्यादुत्तरद्वारं गृहं पूर्वांमुखं तथा^४ ।
शूद्रस्य कर्मवृत्तिं^५स्तु धनधान्यैर्विवर्धते^६ ॥ ९ ॥
एकस्यामपि शालायां चत्वारः संप्रकीर्तिताः ।
निवेश्यै^७द्वारभागाश्च कथ्यन्ते च शुभाशुभाः ॥ १० ॥
उत्सङ्गो हीनबाहुश्च पूर्णबाहुस्तथापरः ।
प्रत्यक्षा^८यश्चतुर्थश्च निवेशः परिकीर्तितः ॥ ११ ॥
उत्सङ्ग §एवदीक्षाभ्यां(?) द्वाराणां वास्तुवेश्मनोः ।
स सौभाग्यप्रजावृद्धिधनधान्यजेयप्रदः ॥ १२ ॥
यत्र प्रवेशतो वास्तु(?)गृहं भवति वामतः ।
तद्धीनंबाहुकं वास्तु निन्दितं वास्तुचिन्तकैः ॥ १३ ॥
१ ख. ग. ‘स्ते’; द. आर्यस्ते वा निवेशनं । २ द. ‘मं’ । ३ द. °स्तुः । ४ द. य° ।
५ द. °त्तिस्तद्व° । ६ द. °ध्यते । ७ द. °श्यगद्वाराश्च; ख. ‘श्यगृहद्वाराश्च’ । ८ द. क्षेोयं°;
ख. ‘क्षो’ । ९ द. भ° । १० द. °नं ।
§ ‘एकदिक्काभ्यां द्वाराभ्याम्’ इति पाठः स्यात् ।
वा. २९