सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

१०६ समराङ्गणसूत्रधारे
आद्या द्वितीया षष्ठी च त्र्यंशे स्यात् सप्तमी तथा ।
द्वितीया च तृतीया च ऋषे षष्ठी च सप्तमी ॥ १४९॥
आद्या तुर्या च षष्ठी च रोगे स्यात् सप्तमी तथा ।
यत्र द्वितीया तुर्या च स्यात् षष्ठी सप्तमी च तत् ॥ १५०॥
विशोषणं नाम गृहं दक्षिणोत्तरदिङ्मुखम् ।
तृतीया यत्र तुर्या च स्यात् षष्ठी सप्तमी गृहे ॥ १५१॥
प्रतीच्यमीप्सितद्वारं तद् गृहं सर्वकामदम् ।
यत्राद्यापञ्चमीषष्ठीसप्तम्यस्त्रिसमं हि तत् ॥ १५२॥
प्रभूतवृद्धिदं वेश्म समस्तैरन्वितं गुणैः ।
द्वितीयापञ्चमीषष्ठीसप्तम्यो यत्र वेश्मनि ॥ १५३॥
तदिह स्वैरमित्याहुर्धनधान्यसुखावहम् ।
तृतीयापञ्चमीषष्ठीसप्तम्यो द्वारमुत्तरम् ॥ १५४॥
पश्चिमं वा भवेद् यत्र सुप्रतीकं च वृद्धिकृत् ।
तुर्याद्यामिश्रतसृभिर्नलमुत्तरदिङ्मुखम् ॥ १५५॥
आद्याद्वित्यष्टमीभिः स्यात् सर्वरुग्भीतिकृत् क्षयम्† ।
व्याप्ते पूर्वा द्वितीया च स्याच्चतुर्थी तथाष्टमी ॥ १५६॥
आद्यातृतीयातुर्याः स्युराक्रीडे तद्वदष्टमी ।
ह्वाद्यास्तिस्रः क्रमाद् व्यर्थे मूषाः स्यादष्टमी तथा ॥ १५७॥
ईशानाख्ये स्युराद्याद्वित्रिपञ्चम्योऽष्टमी तथा ।
पूर्वाष्टमीत्रिपञ्चम्यो यस्मिंस्तत् सुखसंज्ञितम् ॥ १५८॥
तत् पूर्वोदङ्मुखं वृद्धयै जायते हानयेऽन्यथा ।
यत्र स्युरष्टमीद्वित्रिपञ्चम्यस्तदिहाव्ययम् ॥ १५९॥
द्वारं यथेष्टमेतस्य वास्तुविद्याविदो जगुः ।
यस्मिन् पूर्वाष्टमीतुर्यापञ्चम्यो मगधं हि तत् ॥ १६०॥
प्रागुदक्पश्चिमद्वारमिदं शंसन्ति सूरयः ।
यत्र द्वितुर्यापञ्चम्यो मूषाः स्युस्तद्वदष्टमी ॥ १६१॥
१ 'च सप्तमी यत्र तन्नतम् ।' क. पाठः । † क्षपमिति लक्ष्ये पठितम् ।

तत् क्षिप्रं नाम सुखकृद् यथेष्टं द्वारमिष्यते ।
त्रिपञ्चम्यष्टमीतुर्या आगस्त्ये पश्चिमामुखे ॥ १६२ ॥
द्वितीयाद्याष्टमीषष्ठ्यो यत्रैकोजं तदुच्यते ।
तृतीयाद्याष्टमीषष्ठ्यो यत्र तद् द्विर्गतं गृहम् ॥ १६३ ॥
द्वित्रिषष्ठ्योऽष्टमी चापि यस्मिंस्तल्लिहमुच्यते ।
आद्यातुर्याष्टमीषष्ठ्यो यत्र तत् पर्कमुच्यते ॥ १६४ ॥
षष्ठ्यष्टमीद्वितुर्याभिः(?) स्याद् विलोमाभिधं गृहम् ।
षष्ठ्यष्टमीद्वितुर्याभिरुद्दण्डमिति कीर्तितम् ॥ १६५ ॥
यस्मिन्नाद्याष्टमीषष्ठीपञ्चम्यो मुण्डमेव तत् ।
द्विपञ्चम्यष्टमीषष्ठ्यो मूषा मातङ्गसंज्ञिते ॥ १६६ ॥
त्रिपञ्चम्यष्टमीषष्ठयो भवन्त्यस्खलनामनि* ।
तत् खर्वनाम तुर्याद्यास्तिस्रो यस्मिंस्तथाष्टमी ॥ १६७ ॥
आद्याद्वितीयासप्तम्यः पिनाके स्युस्तथाष्टमी ।
त्रिसप्तम्यष्टमीपूर्वा यत्रोद्यन्तं तदुच्यते ॥ १६८ ॥
अष्टमीद्वित्रिपञ्चम्यो यस्मिंस्तद् विशिखं गृहम् ।
आद्या चतुर्थीसप्तम्यः प्रसभे स्युस्तथाष्टमी ॥ १६९ ॥
रजे द्वितुर्यासप्तम्यो मूषाः स्युस्तद्वदष्टमी ।
त्रिसप्तम्यष्टमीतुर्या यत्र तद् रुचकं विदुः ॥ १७० ॥
प्राक्प्रत्यग्द्वारमेतस्य शूद्राणामतिवृद्धिदम् ।
सप्तम्याद्याष्टमी मूषा पञ्चम्यपि च सैफले ॥ १७१ ॥
वामे द्विपञ्चसप्तम्यो मूषा ज्ञेयास्तथाष्टमी ।
त्रिपञ्चसप्तम्यष्टम्यो यस्मिंस्तद् वर्धमानकम् ॥ १७२ ॥
विशेषतो वृद्धिकरं वैश्यानामिति तद्विदः ।
चतुःपञ्चाष्टसप्तम्यो यस्मिंस्तद् धावनं भवेत् ॥ १७३ ॥
सप्तम्याद्याष्टमीषष्ठ्यो यत्र तत् सहमुच्यते ।
द्विसप्तषष्ठ्यष्टमीभिर्मूषाभिश्च्रयनं भवेत् ॥ १७४ ॥

  • इदमर्धं क. पुस्तके लुप्तम् । लक्षणवाक्यपाठानुसारेण पूर्वत्र लक्ष्यनिर्देशे अस्खलमिति पाठ्यम् ।

१०८ समराङ्गणसूत्रधारे
षष्ठ्यष्टमीद्विसप्तम्यो(?) यस्मिंस्तत् सेव्यमीरितम् ।
यत्र तुर्याष्टमी षष्ठी सप्तमी चेति तत् कलम् ॥ १७५ ॥
तीर्णे षष्ठ्यष्टमीपञ्चसप्तम्यः सर्वकामदे ।
यत्राद्याः पञ्च तत् प्रोक्तं कानलं सर्वकामदम् ॥ १७६ ॥
एकद्वित्रिचतुःषष्ठ्यो यत्र तल्लोलुपं स्मृतम् ।
आद्यास्तिस्रः पञ्चषष्ठ्यौ यस्मिंस्तज्जिह्ममुच्यते ॥ १७७ ॥
प्रगाले पञ्चमीषष्ठीतुर्यापूर्वाद्वितीयकाः ।
त्रितुर्यापञ्चमीषष्ठ्यः साद्याः स्युः सालिनाभिधे ॥ १७८ ॥
यत्र द्वित्रिचतुःपञ्चषष्ठ्यस्तज्जिनमुच्यते ।
एकद्वित्रिचतुर्थ्यः स्युः सुजये सप्तमीयुताः ॥ १७९ ॥
पञ्चमीसप्तमीद्वित्रिपूर्वाः स्युर्विजयाभिधे ।
यत्रैकद्विचतुःपञ्चसप्तम्यो यामनाम तत् ॥ १८० ॥
यत्रैकत्रिचतुःपञ्चसप्तम्यस्तज्जयं विदुः ।
मूषा द्वित्रिचतुःपञ्चसप्तम्यो (जा?ज्ञा)तसंज्ञिते ॥ १८१ ॥
आद्यास्तिस्रस्तथा षष्ठीसप्तम्यौ यत्र तज्जपम् ।
आद्याद्वितुर्याषष्ठीभिः सप्तम्या च तपं विदुः ॥ १८२ ॥
षष्ठीत्रितुर्यासप्तम्यो जये?(मे)पूर्वान्विता मताः ।
द्वित्रितुर्यास्तथा षष्ठीसप्तम्यौ वैरसंज्ञिते ॥ १८३ ॥
चरं तद् यत्र पूर्वे द्वे पञ्चषट्सप्तमीयुते ।
*चैत्ये स्यात् सप्तमी षष्ठी पञ्चम्याद्या तृतीयका ॥ १८४ ॥
विशिखे द्वित्रिपञ्चम्यः स्यात् षष्ठी सप्तमी तथा ।
चतुर्थी पञ्चमी षष्ठी सप्तम्याद्या च सुप्रभे ॥ १८५ ॥
प्रभाख्ये द्विचतुःपञ्चषष्ठ्यः स्युः सप्तमी तथा ।
त्रिचतुःपञ्चसप्तम्यः षष्ठी च स्यात् प्रतीक्षके ॥ १८६ ॥
आद्याश्चतस्रो यत्र स्युः साष्टम्यः क्षमिणं हि तत् ।
सप्त?पूर्वा द्वित्रिपञ्चम्यो युक्तनाम्नि तथाष्टमी ॥ १८७ ॥
१. 'लुभं', २ 'पंच' ख. पाठः । * क. पुस्तकदृष्टलक्ष्मोद्देशरीत्या च 'वैरे' इति पाठ्यम् ।

चतुःशालविधानं नामैकोनविंशोऽध्यायः । १०९
शान्ते द्वितुर्यापञ्चम्यः पूर्वा स्यादष्टमी तथा ।
पूर्वात्रितुर्यापञ्चम्यः साष्टम्यश्चैतसंज्ञिते ॥ १८८ ॥
विनोदे द्वित्रिपञ्चम्यश्चतुर्थी चाष्टमी तथा ।
सन्दोहे त्वष्टमीषष्ठ्यै तिस्रः पूर्वादिकास्तथा ॥ १८९ ॥
आद्याद्वितुर्याषष्ठीभिरष्टम्या विप्रदोहकम् ।
षष्ठ्यष्टमीत्रितुर्याद्या यस्मिंस्तद् विद्रुतं विदुः ॥ १९० ॥
द्वित्रितुर्याष्टमीषष्ठ्यो यत्र तत् सततं मतम् ।
आद्याद्विपञ्चमीषष्ठ्यस्ततनाम्नि तथाष्टमी ॥ १९१ ॥
आद्यात्रिपञ्चमीषष्ठ्यो व्याकुले स्युस्तथाष्टमी ।
द्वित्रिपञ्चचतुष्षष्ठ्यो विज्ञेया लीनसंज्ञके ॥ १९२ ॥
तुर्याद्यापञ्चमीषष्ठ्य आलीने स्युस्तथाष्टमी ।
द्वितुर्यापञ्चमीषष्ठ्यो विचित्रे तद्वदष्टमी ॥ १९३ ॥
आद्याश्चतस्रो मूषाः स्युः साष्टम्यो लम्बनाह्वये ।
आद्यास्तिस्रोऽष्टमी तद्वत् सप्तम्यपि भवेत् खरे ॥ १९४ ॥
शेखरे सप्तमीतुर्याद्वितीयाद्यास्तथाष्टमी ।
विबुधे त्वष्टमी तुर्या तृतीयाद्याथ सप्तमी ॥ १९५ ॥
चैत्राख्ये ह्यष्टमीतुर्यासप्तम्यः सतृतीयकाः ।
आद्याद्विपञ्चसप्तम्यो व्यासक्ताख्ये तथाष्टमी ॥ १९६ ॥
आद्यात्रिपञ्चसप्तम्यः साष्टम्यः सम्पदाभिधे ।
यत्र द्वित्र्यष्टमीपञ्चसप्तम्यस्तत् पदं विदुः ॥ १९७ ॥
तुर्याद्यापञ्चमी[षष्ठी]सप्तम्यस्त्रिशिखे तथा ।
द्विपञ्चम्यष्टमीतुर्यासप्तम्यश्चतुराभिधे ॥ १९८ ॥
त्रिसप्तम्यष्टमीतुर्यापञ्चम्यः प्रान्तनामनि ।
आद्याद्वितीयासप्तम्यः षष्ठ्यष्टम्यौ च सुस्थिते ॥ १९९ ॥
दुःस्थितं यत्र षष्ठ्याद्या चतुर्थी सप्तमी तथा ।
स्थितेऽष्टमीद्विसप्तम्यस्त्रिषष्ठ्यावपि च स्मृते ॥ २०० ॥

चक्रे षष्ठ्यष्टमीतुर्यास्सप्तम्याद्याः प्रकीर्तिताः ।
वक्रे द्वितीयासप्तम्यौ षष्ठ्यष्टम्यौ चतुर्थिका ॥ २०१ ॥
लघ्वेऽष्टमीत्रिसप्तम्यस्तुर्याषष्ठ्यौ च कीर्तिते ।
पञ्चमीसप्तमीषष्ठ्यो लाभे पूर्वाष्टमी तथा ॥ २०२ ॥
द्विपञ्चसप्तम्यष्टम्यः षष्ठी संपर्कसंज्ञिते ।
त्रिपञ्चषष्ठीसप्तम्यो मूलनाम्नि तथाष्टमी ॥ २०३ ॥
स्युरष्टसप्तषट्पञ्चचतुर्थस्त्वव्ययाभिधे ।
पूर्वाद्या यत्र षण्मूषाः किन्नरं नाम तद् गृहम् ॥ २०४ ॥
यत्राद्यापञ्चसप्तम्यो सह तत् कौस्तुभं विदुः ।
पूर्वाद्वित्रिचतुःषष्ठीसप्तम्यो हर्म्यसंज्ञिते ॥ २०५ ॥
सप्तमी पञ्चमी षष्ठी द्वित्रिपूर्वाश्च धार्मिके ।
निषधे द्विचतुःपञ्चषष्ठ्याद्याः सप्तमी तथा ॥ २०६ ॥
त्रिचतुःपञ्चषट्सप्तम्याद्याः स्युर्यन्त्र तद् वसु ।
साटीके त्रिचतुःपञ्चद्विषष्ठ्यः स्युस्तथाष्टमी ॥ २०७ ॥
यत्राद्यापञ्चसप्तम्यो वामनं नाम तद् विदुः ।
आद्याद्वित्रिचतुःषष्ठ्यः साष्टम्यो गौरनामनि ॥ २०८ ॥
आद्याद्वित्र्यष्टमीषष्ठ्यः पञ्चमी चास्थिराभिधे ।
क्रमिणे त्रिचतुःपञ्चपूर्वाः षष्ठ्यष्टमी तथा ॥ २०९ ॥
खले पूर्वाष्टमीषष्ठीत्रितुर्याः पञ्चमीयुता ।
विवरे त्रिचतुःपञ्चद्विषष्ठ्यः स्युस्तथाष्टमी ॥ २१० ॥
आद्याद्वित्रिचतुःसप्तम्यष्टम्यो बालिशाभिधे ।
पूर्वाष्टमीद्वित्रिसप्तपञ्चम्यो धौमनामनि ॥ २११ ॥
त्रिपुष्टे द्विचतुःपञ्चसप्तम्यादास्तथाष्टमी ।
मन्दिरे त्रिचतुःपञ्चसप्तम्यादास्तथाष्टमी ॥ २१२ ॥
भवे द्वित्रिचतुःपञ्चम्यष्टम्यः सप्तमी तथा ।
अशोके द्वित्रिषट्सप्तम्यष्टम्यः पूर्वया सह ॥ २१३ ॥

१ 'नके' ख. पाठः । २ ख. द. द्वि° ।

चतुःशालविधानं नामैकोनत्रिंशोऽध्यायः । १११
भास्वरे द्विचतुःषष्ठ्यः सप्तम्याद्याष्टमीयुता [:] ।
त्रिसप्तम्यष्टमीषष्ठीतुर्याद्याश्चौष्यसंज्ञिते ॥ २१४ ॥
द्वित्रितुर्याष्टमीषष्ठ्यो लातव्ये सप्तमी तथा ।
द्विसप्तम्यष्टमीषष्ठीपञ्चम्याद्याश्च सुस्वने ॥ २१५ ॥
त्रिपञ्चम्यष्टमीषष्ठीसप्तम्याद्यास्तथा मखे ।
द्वित्रिसप्ताष्टमीषष्ठीपञ्चम्यो वाजिसंज्ञिते ॥ २१६ ॥
नेत्रे पूर्वाचतुःपञ्चषट्सप्तम्योऽष्टमी तथा ।
भ्रमे स्युर्द्विचतुःपञ्चषट्सप्तम्योऽष्टमी तथा ॥ २१७ ॥
घोषे च त्रिचतुःपञ्चषट्सप्तम्योऽष्टमी तथा ।
एकद्वित्रिचतुःपञ्चषट्सप्तम्यो भवन्ति चेत् ॥ २१८ ॥
मूषास्तदानीं भाण्डीरमिति प्राहुर्निवेशनम् ।
एकद्वित्रिचतुःपञ्चषष्ठ्यो यत्र तथाष्टमी ॥ २१९ ॥
तद् वैसनमिति प्राहुर्वास्तुविद्याविदो गृहम् ।
एकद्वित्रिचतुःपञ्चसप्ताष्टम्यो गृहे यदि ॥ २२० ॥
मूषा भवन्ति तद् विद्यात् प्रस्थमित्यभिधानतः ।
एकद्वित्रिचतुर्थ्यः स्युः षष्ठी सप्तम्यथाष्टमी ॥ २२१ ॥
यस्मिन् मूषास्तदत्राहुः प्रतानमिति मन्दिरम् ।
चतुर्थीवर्जिताभिः स्यान्मूषाभिर्वेश्म वासुलम् ॥ २२२ ॥
कटं तृतीयाहीनाभिर्विज्ञातव्यं निवेशनम् ।
मूषाभिरद्वितीयाभिर्लक्ष्मीवासमुदाहृतम् ॥ २२३ ॥
सुगन्धान्तमनाद्याभिरष्टाभिः सर्वभद्रकम् ।
इत्येकभद्रप्रभृतीनि वेश्मान्युक्तानि यावद्गृह्राष्टभद्रम् ।
एतांश्चतुशशालगृहप्रभेदान् यो वेत्ति पूजां स लभेत लोके ॥ २२४॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
चतुश्शालविधानं नाम एकोनविंशोऽध्यायः ।

११२ समराङ्गणसूत्रधारे
अथ निम्नोच्चादिफलानि नाम विंशोऽध्यायः।
अग्रतःपृष्ठतःशब्दौ द्वारेण नियतौ गृहे।
यतो द्वारं तदग्रं स्यात् पृष्ठं पृष्ठमुदाहृतम् ॥ १ ॥
द्रव्यायामोदयव्यासैः शाला यत्राधिका भवेत्।
वामा वा दक्षिणा वापि अग्रतः पृष्ठतोऽपि वा ॥ २ ॥
हन्ति द्रव्याधिका द्रव्यमायामाभ्यधिका कुलम्।
उच्छ्रायाभ्यधिका पूजां सन्ततिं विस्तराधिका ॥ ३ ॥
यस्य निम्ना भवेद् भूमिर्वामा दक्षिणकास्थला।
बहुदोषं हि तद् वास्तु पुत्रपौत्रविनाशकम् ॥ ४ ॥
यस्य दक्षिणका निम्ना भूमिर्वामास्थला भवेत्।
यत्नेनापि कृतं तत् स्याद् भर्तुरल्पफलोदयम् ॥ ५ ॥
पश्चिमेन भवेन्निम्ना भूमिः स्थूलतराग्रतः।
यत्र तत् सर्ववर्णेषु सर्वकामप्रदं गृहम् ॥ ६ ॥
अग्रतश्च यदा हीनं पृष्ठतश्चोच्छ्रितं भवेत्।
भवनं स्वामिनो ह्याशु विरागव्यसनाय तत् ॥ ७ ॥
सच्छत्रं च सकक्षं च तथैव सपरिक्रमम्।
सप्रभं च समाख्यातं गृहमत्र चतुर्विधम् ॥ ८ ॥
बाह्योदकं च सच्छत्रं सकक्षमुभयोदकम्।
सावश्यायं तु यद् वेश्म तद् विद्यात् सपरिक्रमम् ॥ ९ ॥
एकेनाप्यत्र मुखतः पृष्ठतः पार्श्वतोऽपि वा।
सप्रभं स्यादलिन्देन लक्षणं तु पृथक् पृथक् ॥ १० ॥
एकोऽलिन्दस्तु कर्तव्यो मुखतो दक्षिणेन वा।
मुखे राजप्रसादाय दक्षिणेऽर्थविवर्धनः ॥ ११ ॥
१ द. ख. प्रायो ।

निम्नोच्चादिफलानि नाम विंशोऽध्यायः । ११३
वामतस्तु न कर्तव्य एकोऽलिन्दो न पृष्ठतः ।
वामतोऽर्थविनाशाय पृष्ठतो म्रियते गृही ॥ १२ ॥
यस्य स्यातामलिन्दौ द्वौ गृहस्योभयपार्श्वयोः ।
धनलाभं विजानीयात् तत्प्रवेशे कुटुम्बिनः ॥ १३ ॥
यस्य स्यातामलिन्दौ द्वावग्रतः पृष्ठतस्तथा ।
धनधान्यमवाप्नोति सौभाग्यं चापि तद्गृही ॥ १४ ॥
यस्य वा हलकालिन्दो मुखतो दक्षिणेन वा ।
राजप्रसादैस्तत्स्वामी धनधान्यैश्च वर्धते ॥ १५ ॥
वामतो हलकालिन्दो मुखतश्च कृतो यदि ।
राजदण्डभयं विद्यात् पत्नी चास्य विनश्यति ॥ १६ ॥
दक्षिणो हलकालिन्दः पश्चिमश्च कृतो यदि ।
ततः परापि वृद्धिः स्यात् सौभाग्यं च परं भवेत् ॥ १७ ॥
पृष्ठतो हलकालिन्दो वामतश्च कृतो यदि ।
कलत्रमरणं तत्र भवेद् दुर्भाग्यतापि च ॥ १८ ॥
पृष्ठतो वामतश्चैव पुरतो दक्षिणेन वा ।
अलिन्दस्य कृतस्याथ वक्ष्यामोऽनुक्रमात् फलम् ॥ १९ ॥
पृष्ठतो दारनाशाय धनलाभाय दक्षिणे ।
अग्रे राजप्रसादाय वामतोऽर्थविनाशनः ॥ २० ॥
समापितं तु यद् वास्तु सर्वतः परिशोधितम् ।
स्वामिनस्तद् भवेद् धन्यं स्थपतेश्च यशस्करम् ॥ २१ ॥
अंर्जितं वर्धते तस्य वृद्धिश्च स्यान्नृपश्रिया ।
धर्मकामाश्च वर्धन्ते कीर्त्तिरायुर्यशो बलम् ॥ २२ ॥
नित्यं प्रक्रीडितजनं नित्त्यं सन्निहितश्रि तत् ।
नृत्यवादित्रगीतैश्च नित्यामोदं निरामयम् ॥ २३ ॥
तत्र नैकप्रकाराणि त्रिशालान्युपलक्षयेत् ।
प्रकारेषु च सर्वेषु निन्द्यौ याम्यापरोज्झितौ ॥ २४ ॥
१ द. ख. नाशाय । २ द. ख. चर्चितं । ३ द. ख. धन°। ४ द. ख. हितं ।
वा. १५

११४ समराङ्गणसूत्रधारे

एकस्मिन् स्वामिनो मृत्युरपरस्मिन् धनक्षयः ।
पूर्वोत्तरोज्झितौ धन्यौ संज्ञाश्चैषां प्रकारतः ॥ २५ ॥
स्युरुदक्पूर्वयाम्याप्यशालाहीनान्यनुक्रमात् ।
हिरण्यनाभसुक्षेत्रचुल्लीपक्षघ्ननामभिः ॥ २६ ॥
विनियोगो यथालिन्दमलिन्दव्यूहिरच्छया ।
वेश्मान्यथ द्विशालाानि कीर्त्यन्ते षड् यथाक्रमम् ॥ २७ ॥
दिक्कर्णेषु द्विशालाानि तत्कर्णान्येषु निर्दिशेत् ।
संमुखे द्वे समेतानि षडेतान्युपलक्षयेत् ॥ २८ ॥
सिद्धार्थं दक्षिणप्रत्यग् भवन्त्यत्रार्थसिद्धयः ।
यमसूर्यमुदक्प्रत्यक् तत्र मृत्युभयं सदा ॥ २९ ॥
प्रागुदीच्योस्तु दण्डः स्याद् दण्डस्तत्र सदा भवेत् ।
प्राग्याम्ययोस्तु वाताख्यं वास्तु तत् कलहोत्तरम् ॥ ३० ॥
उदग्दक्षिणसाम्मुख्ये द्विशालं काचवास्त्विति ।
तत्र ज्ञातिविरोधः स्यान्न तत् कुर्यात् कदाचन ॥ ३१ ॥
प्राक्प्रतीच्योस्तु साम्मुख्ये चुल्लीवास्तु विनिर्दिशेत् ।
तत्र वित्तक्षयो घोरः कदाप्येतन्न कारयेत् ॥ ३२ ॥
चतुश्शालं त्रिशालेन प्रान्तं प्राकारवर्तिना ।
पूर्वेण सप्तशालेषु मणिच्छन्द इति स्मृतम् ॥ ३३ ॥
अन्यानि चैवं त्रीण्याहुः प्रान्तमेव प्रदक्षिणम् ।
अपरं परिधानं च सपक्षमिति तानि च ॥ ३४ ॥
एकभित्ती तु शाले द्वे गृहसंघट्ट उच्यते ।
न तं कुर्यात् स हि सदा बन्धदोषवधप्रदः ॥ ३५ ॥
इत्युचनीचगृहभागफलं प्रदिष्ट-
मस्मिन्नलिन्दफलमप्यशुभं शुभं च ।


१ द. ख. पूर्वोत्तरौ स्थितौ । २ द. ख. कर्तान्येषु । ३ द. दीनाख्यं ।

द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः । ११३
यद् द्वित्रिशालगृहलक्ष्म तदप्यमुष्मिन्
सामान्यतो द्वितययोगभवं च सम्यक् ॥ ३६ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
निम्नोच्चफलच्छत्रादिसंज्ञालिन्दफलसद्वास्तुफलद्विशालत्रिशाल-
गृहसङ्घट्टलक्षणफलानि नाम विंशोऽध्यायः ॥
अथ द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः ।
अथ द्वासप्ततेर्ब्रूमस्त्रिशालानां यथाक्रमम् ।
अभिधानानि कात्स्न्येन लक्षणानि पृथक् पृथक् ॥ १ ॥
मुख्यानि तेषु चत्वारि कथ्यन्ते तानि नामतः ।
हिरण्यनाभं सुक्षेत्रं चुल्ली पक्षघ्नमेव च ॥ २ ॥
हिरण्यनाभमुत्कृष्टं हीनमुत्तरशालया ।
तत् स्याद् धनप्रदं भर्तुः सुक्षेत्रं पूर्वया विना ॥ ३ ॥
सुक्षेत्रं लक्षणोपेतमृद्धिवृद्धिप्रदं विभोः ।
चुल्ली दक्षिणया हीना शालया वित्तनाशिनी ॥ ४ ॥
पक्षघ्नं पश्चिमाहीनं वैरकृत् कुलनाशनम् ।
अलिन्दयोगादेतेषां लघुप्रस्तारयोगतः ॥ ५ ॥
मूषायोगाच्च भेदाः स्युरष्टादश पृथक् पृथक् ।
जाम्बूनदं हिरण्याख्यं रुक्माख्यं हेमसंज्ञितम् ॥ ६ ॥
कनकं काञ्चनं स्वर्णं सुवर्णं च ततः परम् ।
सन्तापसंज्ञं सारं च तथा चामीकराह्वयम् ॥ ७ ॥
तपनं तापनीयं च शातकुम्भमथापि च ।
हिरण्यनाभं कल्याणं भूषणं भूतिभूषणम् ॥ ८ ॥
१ द. ख. रुक्माभं । २ द. ख. भूमिभू० ।

११६ समराङ्गणसूत्रधारे
भेदा हिरण्यनाभस्येत्यष्टादश भवन्त्यमी ।
नागं सूर्यप्रभाख्यं च मत्तवारणकं तथा ॥ ९ ॥
चतुर्थं केसरीत्युक्तं वासवं चेन्द्रमेव च ।
हरिं हँसं सारसाण्डं?(ख्यं ) कुञ्जरं तोयदं तथा ॥ १० ॥
मेघमालाभिधानं च धारासारं महोदरम् ।
कर्दमं नामतश्चान्यत् सुक्षेत्रं प्रकरं तथा ॥ ११ ॥
सुक्षेत्रानुगतान्याहुस्तथान्यद् धान्यपूरकम् ।
चुल्लीभेदानथ ब्रूमस्तेषामाद्यं भुजङ्गमम् ॥ १२ ॥
निर्जीवाख्यं विहङ्गं च नकुलं पन्नगाह्वयम् ।
शतच्छिद्रं च सर्पं च कोपसंज्ञं भगन्दरम् ॥ १३ ॥
उद्वेजनाख्यं सन्न्याँसं निस्तोषं करुणाननम् ।
वारणं दारणं चुल्ली ककुदं कैन्दरं तथा ॥ १४ ॥
इति चुल्लीप्रभेदेषु मन्दिराणि दशाष्ट च ।
ब्रूमः पक्षघ्न संबद्धगृहनामानि सम्प्रति ॥ १५ ॥
राक्षसं *ध्वान्तसंहारं देवारि सुरदारुणम् ।
घोषणं व्याघ्रशार्दूले शोषणाख्यं विशोषणम् ॥ १६ ॥
मत्तदं च निरानन्दं शाकुनं विघ्ननिर्घृणे ।
रिपुसंहेंदपक्षघ्ने सुतघ्नं वैरिपूरणम् ॥ १७ ॥
इत्यष्टादश पक्षघ्नभेदाः प्रोक्ता यथाक्रमम् ।
हिरण्यनाभभेदेषु धन्यं जाम्बूनदं गृहम् ॥ १८ ॥
आद्याद्याभिश्चतसृभिर्मूषाभिरुपलक्षितम् ।
यत्राद्याद्वित्रिपञ्चम्यो हिरण्यं नाम तच्छुभम् ॥ १९ ॥
पञ्चम्याद्याद्वितुर्याभिः स्याद् रुक्मं रुक्मदं गृहम् ।
आद्यात्रितुर्यापञ्चम्यो यत्र तद्धेमसंज्ञितम् ॥ २० ॥
१ ख. चन्द्रमेव च । २ द. ख. सारभांडं । ३ ख. शतच्छत्रं । ४ द. ख. सन्नासं । ५ द.
ख. नतं । ६ द. दाहणं । ७ द. ख. कुन्दरं । ८ द. °दारणम् । ९ द. ख. °सहदपक्षघ्नं ।
१० द. ख. सुतघ्नात्परि° । * लक्षणे तु ध्वान्तसंघातमिति ख. पुस्तके खद्योथानसंहारमिति लक्ष्ये पठ्यते ।

द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः । ११७
द्वित्रितुर्यापञ्चमीभिः कनकं कनकावहम् ।
साद्याभिर्द्वित्रिषष्ठीभिः काञ्चनं काञ्चनप्रदम् ॥ २१ ॥
आद्याद्वितुर्याषष्ठीभिः स्वर्णं स्वर्णविवृद्धये ।
सुवर्णमाद्यात्रिचतुःषष्ठीभिः स्यात् सुवर्णदम् ॥ २२ ॥
स्याद् द्वित्रितुर्याषष्ठीभिः सन्तापं तापशान्तिकृत् ।
आद्याद्विपञ्चमीषष्ठ्यो यत्र तत् सारमुत्तमम् ॥ २३ ॥
चामीकरं त्रिषष्ठ्याद्यापञ्चमीभिर्गृहोत्तमम् ।
द्वित्रिषट्पञ्चमीभिः स्यात् तपनं नाम मन्दिरम् ॥ २४ ॥
षट्‌तुर्याद्यापञ्चमीभिस्तापनीयमुदाहृतम् ।
शातकुम्भं द्विषट्पञ्चचतुर्थीभिर्भवेद् गृहम् ॥ २५ ॥
हिरण्यनाभं त्रिचतुःपञ्चषष्ठीभिरीरितम् ।
कल्याणमाद्यात्रिचतुःपञ्चषष्ठीभिरुच्यते ॥ २६ ॥
षट्पञ्चद्वित्रितुर्याभिर्भवेद् भूषणसंज्ञितम् ।
आद्याद्वित्रिचतुःपञ्चषष्ठीभि भूतभूषणम्‡ ॥ २७ ॥
अथ सुक्षेत्रभेदानां लक्षणान्यभिदध्महे ।
यत्राद्याद्वित्रितुर्याभिस्तन्नागं नाम मन्दिरम् ॥ २८ ॥
यत्राद्याद्वित्रिपञ्चम्यस्तत् सूर्यप्रभमुच्यते ।
आद्याद्वितुर्यापञ्चम्यो यत्र तन्मत्तवारणम् ॥ २९ ॥
आद्यात्रितुर्यापञ्चम्यो यत्र तत् केसरीं विदुः ।
वासवं पञ्चमीतुर्याद्वितीयाभिस्तदुच्यते ॥ ३० ॥
षष्ठ्याद्यात्रिद्वितीयाभिरिन्द्रमन्दिरमीरितम् ।
आद्याद्वितुर्याषष्ठीभिर्हरिसंज्ञमुदाहृतम् ॥ ३१ ॥
आद्यात्रि¹तुर्याषष्ठीभिर्हंससंज्ञं निवेशनम् ।
षष्ठीद्वित्रिचतुर्थीभिः सारसं नामतो भवेत् ॥ ३२ ॥
आद्याद्विपञ्चषष्ठीभिः कथयन्तीह कुञ्जरम् ।
आद्यात्रिपञ्चषष्ठीभिर्विज्ञेयं तोयदं गृहम् ॥ ३३ ॥
१ द. °द्वि° । ‡ लक्ष्ये तु भूतिभूषणमिति पठ्यते ।

११८ समराङ्गणसूत्रधारे
मेघमालं त्रिषट्पञ्चद्वितीयाभिरुदाहृतम् ।
धारासारं चतुःपञ्चषडाद्याभिर्भवेद् गृहम् ॥ ३४ ॥
द्विचतुःपञ्चषष्ठीभिर्महोदरमिति स्मृतम् ।
कर्दमं नाम षट्पञ्चत्रितुर्याभिर्जयावहम् ॥ ३५ ॥
षट्पञ्चतुर्यात्र्याद्याभिः सुक्षेत्रं स्याद् धनप्रदम् ।
द्वित्रिषट्पञ्चतुर्याभिर्भवेत् प्रकरमृद्धिदम् ॥ ३६ ॥
आद्याभिश्च षडेताभि(?)र्विज्ञेयं धान्यपूरकम् ।
अष्टादशैते सुक्षेत्रगृहभेदाः प्रकीर्तिताः ॥ ३७ ॥
आद्याद्वित्रिचतुर्थीभिर्मूषाभिः स्याद् भुजङ्गमम् ।
निर्जीवमाद्यापञ्चत्रिद्वितीयाभिर्निवेशनम् ॥ ३८ ॥
आद्याद्विपञ्चतुर्याभिर्वहन्तीभिर्वि ?(दन्तीह वि)हङ्गमम् ।
पञ्चाद्यात्रिचतुर्थीभिर्मूषाभिर्नकुलं विदुः ॥ ३९ ॥
पञ्चद्वित्रिचतुर्थीभिः पन्नगं नामतो भवेत् ।
शतच्छिद्रं षडाद्यां²त्रिद्वितीयाभिर्भवेद् गृहम् ॥ ४० ॥
आद्याद्वितुर्याषष्ठीभिः सर्पमित्यभिधीयते ।
आद्यात्रिषट्चतुर्थीभिः कोपमित्यभिशब्दितम् ॥ ४१ ॥
षट्चतुस्त्रिद्वितीयाभिर्भवेद् वेश्म भगन्दरम् ।
आद्याद्विपञ्चषष्ठीभिरुद्वेजनमुदाहृतम् ॥ ४२ ॥
सन्त्यांस³माद्यापञ्चत्रिषष्ठीभिर्भवनाधमम् ।
द्वित्रिषट्पञ्चमीभिस्तु §निस्तोयमभिधीयते ॥ ४३ ॥
तुर्याद्यापञ्चषष्ठीभिः करुणाननमुच्यते ।
द्विचतुःपञ्चषष्ठीभिर्वारणं मुखवारणम् ॥ ४४ ॥
त्रिचतुःपञ्चषष्ठीभिर्दारणं श्रीविदारणम् ।
चुल्लयाद्यात्रिचतुःपञ्चषष्ठीभिर्वित्तनाशनम् ॥ ४५ ॥
१ खदयोलुप्तम् 'द्विती......पञ्चाद्यात्रि 'श्लो. ३९ उत्तरार्ध । २ द. ख. षडाद्यामिर्द्विती° ।
३ द. ख. सन्नास° । § लक्ष्यपाठानुरोधेन निस्तोषमिति पाठ्यम् ।

द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः । ११९
षट्पञ्चद्वित्रितुर्याभिः ककुदं नाम मन्दिरम् ।
कन्दरं षट्चतुःपञ्चत्रिद्याचाभिर्गृहाधमम् ॥ ४६ ॥
अथाष्टादश कथ्यन्ते भेदाः पक्षघ्नसंश्रयाः ।
तेषु राक्षसमायाद्वित्रिचतुर्थीभिरुच्यते ॥ ४७ ॥
पञ्चाद्याद्वितृतीयाभिर्ध्वान्तसंघातमीरितम् ।
पञ्चाद्याद्विचतुर्थीभिर्देवारीति निगद्यते ॥ ४८ ॥
आद्यात्रिपञ्चतुर्याभिर्विज्ञेयं देवदारुणम् ।
पश्चत्रिडिचतुर्थीभिर्घोषणं दुःखघोषणम् ॥ ४९ ॥
षडाद्याद्वितृतीयाभिर्व्याघ्रमित्यभिधीयते ।
आद्याद्वितुर्याषष्ठीभिः शार्दूलं स्यान्निवेशनम् ॥ ५० ॥
आद्यात्रितुर्याषष्ठीभिः शोषणं पुत्रशोषणम् ।
षट्तुर्याद्वितृतीयाभिर्विजानीयाद् विशोषणम् ॥ ५१ ॥
आद्याद्विपञ्चषष्ठीभिर्मत्तदं नाम मन्दिरम् ।
निरानन्दाख्यमाद्यात्रिपञ्चषष्ठीभिरुच्यते ॥ ५२ ॥
पञ्चषड्द्वितृतीयाभिः शाकुनं नामतो भवेत् ।
विघ्नमाद्याचतुःपञ्चषष्ठीभिर्विघ्नवर्धनम् ॥ ५३ ॥
निर्घृणं षट्चतुःपञ्चद्वितीयाभिरसौख्यकृत् ।
त्रिचतुःपञ्चषष्ठीभिर्वदन्ति रिपुसंहदम् ॥ ५४ ॥
षट्पञ्चतुर्याद्या[या]भिः पक्षघ्नं सुतनाशनम् ।
षट्पञ्चद्वित्रितुर्याभिः सुतघ्नं सुतसूदनम् ॥ ५५ ॥
षट्पञ्चद्वित्रितुर्याद्या यत्र तद् वैरिपूरणम् ।
पक्षघ्नस्यान्गान्येवं गृहाण्यष्टादश क्रमात् ॥ ५६ ॥
चतुराद्यास्त्रिशालेषु मूषा बाह्या न चान्तरा ।
स्याद् विनाद्यां द्वितीयां च त्रिशालं पञ्चभद्रकम् ।
बाह्यतः क्रममुत्सृज्य त्रिशालविधिरीरितः ॥ ५७ ॥
१ क. पोषणम् ।

१२० समराङ्गणसूत्रधारे
१हिरण्यनाभादिनिकेतानां चतुष्टयस्यैवममी प्रकाराः ।
द्विसप्ततिः कृत्स्नतयोपदिष्टाः प्रत्येकमष्टादशभेदक्लृप्ताः ॥ ५८ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः ॥
अथ द्विशालगृहलक्षणं नाम द्वाविंशोऽध्यायः ॥
द्विशालानि द्विपञ्चाशत् स्युः शुभान्यशुभानि च ।
लक्षणानि क्रमात् तेषामिदानीं सम्प्रचक्ष्महे ॥ १ ॥
सिद्धार्थं यमसूर्यं च दण्डाख्यं वातसंज्ञितम् ।
चुल्ली काचं च मुख्यानि द्विशालानि षडेव हि ॥ २ ॥
अनेकभेदभिन्नानि लघुप्रस्तारयोगतः ।
मूषाभेदक्रमेण स्युर्भेदाभेदक्रमेण तु ॥ ३ ॥
तथा निलीनकरणाद् वीथिकालिन्दमार्गतः ।
प्राग्ग्रीवादिविधानेन द्वैशाल्यादिविपर्ययात् ॥ ४ ॥
यथासम्भवमेतानि कथयामः समासतः ।
निर्वाहताश्च मूषाणामनिर्वाहाच्च नामतः ॥ ५ ॥
छन्दतो गुणतो रूपाद्शुभानि शुभानि च ।
हितार्थाय नरेन्द्राणां वर्णिनां लिङ्गिनामपि ॥ ६ ॥
हस्तिनी महिषी चेति द्वे शाले यत्र वेश्मनि ।
तत् सिद्धार्थमिति ज्ञेयं वित्तसम्पत्तिकारकम् ॥ ७ ॥
मृत्युदं महिषीगावीभ्यां भवेद् यमसूर्यकम् ।
दण्डं स्याच्छगलीगावीशालाभ्यां दण्डभीतिदम् ॥ ८ ॥
वातं करेणुच्छगलीयुक्तमुद्वेगकारकम् ।
महिष्यजाभ्यामुद्वेगकरी चुल्ली धनापहा ॥ ९ ॥
१ द. हिरण्यतालादि° ।

द्विशालगृहलक्षणं नाम द्वाविंशोऽध्यायः । १२१
काचं करेणुगावीभ्यां सुहृत्प्रीतिविनाशनम् ।
एकमूषममूषं च न द्विशालेषु कारयेत् ॥ १० ॥
व्यत्यासात् काचचुल्ल्योश्च सर्वाभिस्तिसृभिस्तथा ।
चत्वार्याद्यानि भिद्यन्ते लघुप्रस्तारयोगतः ॥ ११ ॥
प्रत्येकमेकादशधा मन्दिराण्यभिधानतः ।
अन्ये चतुर्धा भिद्येते प्रत्येकं द्वे निवेशने ॥ १२ ॥
एषां मूषा भिदाभेदात् तद्भावावाहहेतुकाः ।
वसुधारं भवेत् तेषामाद्यं सिद्धार्थकं ततः ॥ १३ ॥
कल्याणकं शाश्वतं च शिवं कामप्रदं तथा ।
स्त्रीदं शान्तं निष्कलङ्कं धनाधीशं कुबेरकम् ॥ १४ ॥
सिद्धार्थमनुजान्येवमेतान्येकादश क्रमात् ।
संहारं यमसूर्यं च कालं वैवस्वतं यमम् ॥ १५ ॥
करालं विकरालं च कबन्धं मृतकं शवम् ।
यमसूर्यस्य भेदाः स्युः सद्मनो महिषं तथा ॥ १६ ॥
प्रचण्डचण्डे दण्डाख्यमुद्दण्डं काण्डकोटरे ।
विग्रहं निग्रहं धूम्रं निर्धूमं दन्तिदारुणम् ॥ १७ ॥
एकादशामी दण्डस्य भेदा दण्डभयप्रदाः ।
मरुत्पवनवाताख्यान्यनिलं सप्रभञ्जनम् ॥ १८ ॥
घनोर्यम्बुदविध्वंसि * प्रलयं कलहं कलिः ।
कलिचुल्ली च वातस्य भेदा उद्वेगदायकाः ॥ १९ ॥
रोगं चुल्ल्यनलं भस्म चुल्ल्या भेदचतुष्टयम् ।
काचस्य तु च्छलं काचं कुलघ्नं † च विरोधि च ॥ २० ॥
द्वापञ्चाशद् द्विशालानाममी भेदाः प्रकीर्तिताः ।
ब्रूमः साम्प्रतमेतेषां लक्षणानि पृथक् पृथक् ॥ २१ ॥
१ द. शाश्वतकं । २ क. द. शिवम् । ३ क. द. धूमं । ४ द. ˚दारणाम् । ५ क.
चनाशीं˚ ।

  • लक्षणश्लोके एतत्स्थाने रोगमिति पठ्यते । † लक्षणपाठरीत्या तु कुलहमिति पठ्यम् ।
    वा. १६

१२२ समराङ्गणसूत्रधारे।
आद्याद्वितीये वहतो यत्र मूषे धनप्रदे।
वसुधाराभिधानं तद् गृहं सर्वार्थकानुगम् ॥ २२ ॥
आद्यातृतीये वहतो यत्र सिद्धार्थकं२ हि तत् ।
सर्वोपद्रवनिर्मुक्तं सिद्धिकृच्चिन्तितार्थकृत् ॥ २३ ॥
द्वितृतीयं वहन्मूर्षं भवेत् कल्याणमृद्धिकृत्।
वहदाद्यचतुर्थिकं शाश्वतं गृहमुत्तमम् ॥ २४ ॥
शिवं द्वितीयांतुर्याभ्यां वहन्तीभ्यां सुँखप्रदम्।
कामदं त्रिचतुर्थीभ्यां भवेच्चिन्तितकामदम् ॥ २५ ॥
आद्याद्याभिसु(स्तु) तिसृभिः श्रीप्रदं संप्रदं(?) प्रभोः।
आद्याद्वितीयातुर्याभिः शान्तं शान्तिप्रदायकम् ॥ २६ ॥
आद्यातृतीयातुर्याभिर्निष्कलङ्कं समृद्धिकृत्।
द्वितीयाचतुर्थीभिर्धनेशं धनवर्धनम् ॥ २७ ॥
आद्याद्याभिश्चतसृभिः कुबेरं वित्तवृद्धिकृत्।
यमसूर्यप्रभेदेषु ब्रूमो लक्ष्म फलानि च ॥ २८ ॥
आद्याद्वितीयामूर्षाभ्यां संहारं स्वामिनाशनम्।
गृहमाद्यातृतीयाभ्यां मृत्युदं यमसूर्यकम् ॥ २९॥
द्वितृतीयं वहन्मूषं कालं योषिद्विनाशनम्।
वैवस्वतं वहत्तुर्यप्रथमं रोगकारकम् ॥ ३० ॥
यमालयं द्वितुर्याभ्यां स्वामिनो यमदर्शनैम्।
करालं त्रिचतुर्थीभ्यां भर्तुः प्राणविनाशनम् ॥ ३१ ॥
आद्याभिस्तिसृभिः स्वामिनाशनं विकरालकम्।
आद्याद्वितीयातुर्याभिः कबन्धं भर्तृनाशनम् ॥ ३२ ॥
आद्यांतृतीयातुर्याभिर्भर्तृघ्नं मृतकालयम्।
शबं द्वित्रिचतुर्थीभिः स्वामिनो मरणप्रदम् ॥ ३३ ॥
१ क. द. सिद्धार्थं । २ द. सिद्धार्थदं । ३ द. द्वितीयं । ४ द. शुभं गृहम् ।
५ द. ख. ०दर्शकम् । ६ द. ०प्रणाशनम् । ७ क. द्वि° ।

द्विशालगृहलक्षणं नाम द्वाविंशोऽध्यायः १२३
आद्याद्याभिस्तिसृभिः स्वामिघ्नं महिषं विदुः ।
प्रचण्डं दण्डभेदेषु पूर्वया सद्वितीयया ॥ ३४ ॥
गृहमादौ विजानीयाद् भर्तुर्नृपभयप्रदम् ।
चण्डमाद्यातृतीयाभ्यां चण्डदण्डभयप्रदम् ॥ ३५ ॥
दण्डं स्याद् द्वितृतीयाभ्यां राजदण्डाय दारुणम् ।
उद्दण्डमाद्यातुर्याभ्यां स्वामिनो दण्डभीतिदम् ॥ ३६ ॥
काण्डं द्वितीयातुर्याभ्यां काण्डवद्भेदकारकम् ।
कोटरं त्रिचतुर्थीभ्यां स्वामिनो विग्रहावहम् ॥ ३७ ॥
प्रथमा(द्वि)तृतीयाभिर्विग्रहं वधबन्धकृत् ।
आद्याद्वितीयातुर्याभिर्निग्रहं विग्रहावहम् ॥ ३८ ॥
आद्यातृतीयातुर्याभिर्धूम्रं सर्वधनापहम् ।
द्वितृतीयाचतुर्थीभिर्निर्धूमं धननाशनम् ॥ ३९ ॥
आद्याद्याभिस्तिसृभिर्दन्तिदारुणमर्थहृत् ।
आद्याद्वितीयामूर्षाभ्यां वातभेदेषु मन्दिरम् ॥ ४० ॥
मरुत्संज्ञं भवेत् तत्र वसतां कलहः सदा ।
उद्वेगकारि पवनं तृतीयाथोपलक्षितम् ॥ ४१ ॥
वाताख्यं द्वितृतीयाभ्यां सदा सन्तापकारकम् ।
सन्तापोद्भासकार्याद्यातुर्याभ्यामनिलं भवेत् ॥ ४२ ॥
प्रभञ्जनं द्वितुर्याभ्यां शोकसन्तापकारकम् ।
तृतीयया चतुर्थ्या च घनार्युद्वेगकारकम् ॥ ४३ ॥
आद्यया द्वितृतीयाभ्यां रोगं कार्यार्थनाशनम् ।
आद्याद्वितीयातुर्याभिः प्रलयं चित्ततापकृत् ॥ ४४ ॥
आद्याद्वितीयातुर्याभिः कलहं कलहावहम् ।
द्वितृतीयाचतुर्थीभिः केलिः सन्तापकारकम् ॥ ४५ ॥
१ द. ख. ॰मूषाभिः । २ क. द. कलिसं०

१२४ समराङ्गणसूत्रधारे
आद्याद्याभिश्चतसृभिः कलिचुल्ली धनापहा ।
रोगमाद्याद्वितीयाभ्यां चुल्लीभेदेषु शोकदमू ॥ ४६ ॥
स्याद् द्वितीयातृतीयाभ्यां चुल्ली वित्तविनाशनी ।
वसुघ्नमनेलं नाम त्रितुर्याभ्यां निवेशनम् ॥ ४७ ॥
वित्तघ्नमाद्यातुर्याभ्यां भस्मारुयं स्वामिनः सदा ।
उदङ्मुखाभ्यां मूषाभ्यां काचभेदेषु मन्दिरम् ॥ ४८ ॥
छलं नाम भवेन्नित्यं बन्धुवर्गापमानकृत् ।
दक्षिणोत्तरमूषाणां पौरस्त्ये वहतो यदि ॥ ४९ ॥
† काञ्चं नाम तदा वेश्म सज्जनानन्दकारकम् ।
मूषाभ्यां दक्षिणाभ्यां स्यात् कुलहं त्रिकुलक्षयम् ॥ ५० ॥
दक्षिणोत्तरमूषाणां पाश्चात्ये वहतो यदि ।
*विरोधं नाम तद्वेश्म सर्वलोकविरोधकृत् ॥ ५१ ॥
उक्तान्येवं द्विपञ्चाशद् द्विशालानां समासतः ।
ऐनाने मूषावहनप्रभेदात् फलप्रभेदाच्च निदर्शितानि ।
द्विशालवेश्मान्यथुनैकशालान्युदाह्रियन्ते भवनानि सम्यक् ॥५२॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
द्विशालगृहलक्षणं नाम द्वाविंशोऽध्यायः ॥
अथ एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः ।
गृहाणामेकशालानां वक्ष्यामो लक्षणान्यथ ।
शस्तानां निन्दितानां च यथावदनुपूर्वशः ॥ १ ॥
विन्यसेच्चतुरः पूर्वं गुरून् वर्णान् यथाविधि ।
एभ्य एव प्रसूयन्ते भेदाः षोडश वेश्मनाम् ॥ २ ॥
१ क. ॰नि॰ । २ क. ॰खी॰ । ३ द. एतानि । ४ क. ॰रुव॰ ।
† लक्ष्यपाठानुरोधात् काचमिति पाठ्यम् * लक्ष्ये विरोधीति पठ्यते ।

एकशाललक्षणफलादि नाम त्रयोविंशोऽध्यायः । १२५
गुरोरधो लघुं न्यस्येत् पूर्वं शेषं यथोपरि ।
गुरुभिः पूरयेत् पश्चाद् यावत् स्युर्लघवोऽखिलाः ॥ ३॥
विद्यादलिन्दान् सर्वेषु लघुस्थानेषु पण्डितः ।
संख्यावर्तं गृहमुखादेतांश्च विनियोजयेत् ॥ ४ ॥
एषामलिन्दसंयोगाद् भवनानां पृथक् पृथक् ।
नामानि गुणदोषांश्च वक्ष्यन्तेऽनुक्रमादतः ॥ ५ ॥
ध्रुवं धन्यं जयं नन्दं खरं कान्तं मनोरमम् ।
सुमुखं दुर्मुखं क्रूरं सुपक्षं धनदं क्षयम् ॥ ६ ॥
आक्रन्दं विपुलं चैव विजयं गृहमुत्तमम् ।
ध्रुवे जैयमवाप्नोति धन्ये धान्यागमो भवेत् ॥ ७ ॥
जये सपत्नाञ् जयति नन्दे सर्वाः समृद्धयः ।
खरमायासदं वेश्म कान्ते च लभते श्रियम् ॥ ८ ॥
आयुरारोग्यमैश्वर्यं तथा वित्तस्य सम्पदः ।
मनोरमे मनस्तुष्टिर्गृहभर्तुः प्रकीर्तिता ॥ ९ ॥
सुमुखे राज्यसन्मानं दुर्मुखे कलहः सदा ।
क्रूरव्याधिभयं क्रूरे सुपक्षं गोत्रवृद्धिकृत् ॥ १० ॥
धनदे हेमरत्नादि गाश्चैव लभते पुमान् ।
क्षयं सर्वक्षयं गेहमाक्रन्दं ज्ञातिमृत्युदम् ॥ ११ ॥
आरोग्यं विपुले ख्यातिर्विजये सर्वसम्पदः ।
यदि धन्ये द्वितीयोऽपि मुखालिन्दः प्रयुज्यते ॥ १२ ॥
तद् गृहं रम्यनामेह भर्तुः सौभाग्यकारकम् ।
मुखालिन्देन नन्दाख्यं द्वितीयेन सुयोजितम् ॥ १३ ॥
तच्छ्रीधरमिति ख्यातं तस्मिन् श्रीर्नित्यमाविशेत् ।
अलिन्दश्चेद् द्वितीयोऽपि कान्तस्यास्ये निवेश्यते ॥ १४ ॥
१ द. सव्यावृत्तं । २ ख. ॰वं । ३ द. ख. ध्रुव॰ ।