समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 179, कुल 726 में से
संदर्भ में पढ़ें११४ समराङ्गणसूत्रधारे
एकस्मिन् स्वामिनो मृत्युरपरस्मिन् धनक्षयः ।
पूर्वोत्तरोज्झितौ धन्यौ संज्ञाश्चैषां प्रकारतः ॥ २५ ॥
स्युरुदक्पूर्वयाम्याप्यशालाहीनान्यनुक्रमात् ।
हिरण्यनाभसुक्षेत्रचुल्लीपक्षघ्ननामभिः ॥ २६ ॥
विनियोगो यथालिन्दमलिन्दव्यूहिरच्छया ।
वेश्मान्यथ द्विशालाानि कीर्त्यन्ते षड् यथाक्रमम् ॥ २७ ॥
दिक्कर्णेषु द्विशालाानि तत्कर्णान्येषु निर्दिशेत् ।
संमुखे द्वे समेतानि षडेतान्युपलक्षयेत् ॥ २८ ॥
सिद्धार्थं दक्षिणप्रत्यग् भवन्त्यत्रार्थसिद्धयः ।
यमसूर्यमुदक्प्रत्यक् तत्र मृत्युभयं सदा ॥ २९ ॥
प्रागुदीच्योस्तु दण्डः स्याद् दण्डस्तत्र सदा भवेत् ।
प्राग्याम्ययोस्तु वाताख्यं वास्तु तत् कलहोत्तरम् ॥ ३० ॥
उदग्दक्षिणसाम्मुख्ये द्विशालं काचवास्त्विति ।
तत्र ज्ञातिविरोधः स्यान्न तत् कुर्यात् कदाचन ॥ ३१ ॥
प्राक्प्रतीच्योस्तु साम्मुख्ये चुल्लीवास्तु विनिर्दिशेत् ।
तत्र वित्तक्षयो घोरः कदाप्येतन्न कारयेत् ॥ ३२ ॥
चतुश्शालं त्रिशालेन प्रान्तं प्राकारवर्तिना ।
पूर्वेण सप्तशालेषु मणिच्छन्द इति स्मृतम् ॥ ३३ ॥
अन्यानि चैवं त्रीण्याहुः प्रान्तमेव प्रदक्षिणम् ।
अपरं परिधानं च सपक्षमिति तानि च ॥ ३४ ॥
एकभित्ती तु शाले द्वे गृहसंघट्ट उच्यते ।
न तं कुर्यात् स हि सदा बन्धदोषवधप्रदः ॥ ३५ ॥
इत्युचनीचगृहभागफलं प्रदिष्ट-
मस्मिन्नलिन्दफलमप्यशुभं शुभं च ।
१ द. ख. पूर्वोत्तरौ स्थितौ । २ द. ख. कर्तान्येषु । ३ द. दीनाख्यं ।