सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 705, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 705

६४४ समराङ्गणसूत्रधारे
अस्यानुयायिनीं दृष्टिं विदधीत भ्रुवौ तथा ।
इत्यारालः ॥
अरालक्र(स्य) यदा वक्रानामिला त्वङ्गुलिर्भवेत् ॥ ८५ ॥
शुकतुण्डः स विज्ञेयः कर्म चास्याभिधीयते ।
न त्वमित्यमुना तिर्यक् प्रसृतेन प्रदर्शयेत् ॥ ८६ ॥
व्याव्रुत्तेन तु हस्तेन म(न) कृत्यमिति निर्दिशेत् ।
प्रसारितेन पुरतो नमताभिमुखं मुहुः ॥ ८७ ॥
कुर्यादावाहनं तिर्य(^{३}++मातु ?) विसर्जनम् ।
व्याव्रुत्तेन तु हस्तेन न कृत्यमिति वार्त्ताम् (?) ॥ ८८ ॥
(अवेक्षे निपोनिषेक अँ ?) परावृत्तेन शस्यते ।
दृष्टिभ्रुवौ चानुगते हस्तस्यास्य समाचरेत् ॥ ८९ ॥
इति शुकतुण्डः ॥
अङ्गुल्यो यस्य हस्तस्य तलमध्येऽग्रसंस्थिताः ।
तासामुपरि चाङ्गुष्ठः स मुष्टिरभिधीयते ॥ ९० ॥
एष प्रहारे (व्या)यामे कार्यः सभ्रुकुटीमुखैः ।
पार्श्वस्थहस्तयुग्मेन निर्गमे तु विधीयते ॥ ९१ ॥
इति मुष्टिः ॥
(येष्यतिग्रहणमात्रमर्धने ?) स्तनपीडने ।
असंस्तु(यु)तो विधातव्यो (र्मुहृष्टिभ्रुवो^{१०} तथा ?) ॥ ९२ ॥
अस्यैव तु यदा मुष्टेरूर्ध्वोऽङ्गुष्ठः प्रयुज्यते ।
हस्तः स शिखरो नाम तदा ज्ञेयः प्रयोक्तृभिः ॥ ९३ ॥
१ द. ना । २ द. तेन निर्यमातु वि० । ३ मुद्रितपुस्तके ‘उन्मता तु’ इति स्यात् । ४ द. णं ।
५ द. श्र । ६ द. ष्टिं । ७ द. भ्र । ८ मुद्रितपुस्तकानुसारतः इदं ९२ तमश्लोकान्ते निवेशनीयमिति
भाति । परन्तु द प्रतौ नास्ति । ९ ‘यष्ट्यसिग्रहणे गात्रमर्दने’ इति स्यात् । १० चतुर्थः पादोऽयं
दृष्टिभ्रुवोर्हस्तानुयानविध्यर्थस्य लुप्तस्य श्लोकान्तरस्य स्यात् । ११ द. भ्रुवौ ।