सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 693, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 693

६३२ समराङ्गणसूत्रधारे
एकादशाङ्गुला ++ ग्रीवा सार्धाङ्गुलेस्त्रया ।
वक्षो जठरमप्यस्य सपादैकादशाङ्गुलम् ॥ २२ ॥
नाभिमेढ्रान्तरं चास्य विद्यात् सार्धदशाङ्गुलम् ।
आयाममूर्वोर्र्जानीयात् सपादाङ्गुलविंशतिम् ॥ २३ ॥
जङ्घे च तावदायामे जानुगुल्फं त्रिमात्रकम् ।
(चतुर्तनैर्निसंरामो चन्द्रस्यैष ? ) प्रकीर्तितः ॥ २४ ॥
आयाम एष विस्तारो वक्षसस्त्वेकविंशतिः ।
एकादशाङ्गुली बाहू तस्यै ++++++ ॥ २५ ॥
हंसादिपुंसामिदमेवमुक्तं
र्यद्वा यथालक्षणमानमत्र ।
स्त्रीणां च सम्यग् ( गदिता सुखानाद् ? )
यो वेत्ति मान्यः स भवेन्नृपाणाम् ॥ २६ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे
पञ्चपुरुषस्त्रीलक्षणं नामाध्यायोऽ( य एका )शीतितमः ॥
अथ रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः ।
रसानामर्र्थ्य(थ) वक्ष्यामो दृष्टीनां (वेइ ?) लक्षणम् ।
तदायत्ता यतश्चित्रे भावव्यक्तिः प्रजायते ॥ १ ॥
शृङ्गारहास्यकरुणा रौद्रप्रेयोभयानकाः ।
वीर (प्रत्ययाक्षौ ?) च बीभत्सश्चाद्भुतस्तथा ॥ २ ॥
शान्तश्चैकादशेत्युक्ता रसाश्चित्रविशारदैः ।
निगद्यते क्रमेणैषां सर्वेषामपि लक्षणम् ॥ ३ ॥
१-२ द. ली । ३ द. पूर्वोर्जा । ४ द. तिः । ५ मुद्रित पुस्तके 'चतुर्नवतिरायामो भद्रस्यैष'
इति स्यात् । ६ द. र्न । ७ द. रा । ८ द. लो । ९ द. करप । मुद्रित पुस्तके 'अवशिष्टानामाङ्गानां
विस्तारसन्निवेशादिकं, मालव्यादिलक्षणं चेह अष्टम् । तदेतत् ६१७ तम पृष्ठे मिश्रितात् 'पृथग्वक्ष'
इत्यादिवाक्यजातादवगन्तव्यम् । १० द. यथायथं । ११ द. इतः पूर्वं 'परमेश्वर' इत्यधिकः पाठः ।
१२ द. व । १३ द. वेह । मुद्रित पुस्तके 'चेह' इति स्यात् । १४ द. षा ।