समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 692, कुल 726 में से
संदर्भ में पढ़ेंऊरू विंशतिमात्रौ च शशस्य परिकीर्तितौ ।
त्र्यङ्गुले जानुनी ल( ज )ङ्घे मात्राविंशतिमायते ॥ ११ ॥
गुल्फौ च त्र्यङ्गुलायामौ तावन्मात्रं १ शिरो भवेत् ।
आयामोय( ऽयं ) शशस्यैव( वं ) स्यान्नवत्यङ्गुलोन्मितः ॥ १२ ॥
द्वाविंशत्यङ्गुलं ( वेंक्ष्यां ? ३ ) विस्तारेणास्य कीर्तितम् ।
बाहुप्रबाहू पाणी च शशकस्यापि हंसवत् ॥ १३ ॥
समयाच्चै स कर्तव्यो( व्य ४ ): स्वभावाच्च कृशोदरः ।
( तयोयेवेत् केशोरुजङ्घो द्विद्वान् ? ) विचक्षणैः ॥ १४ ॥
रुचकस्य ( तुं ५ खायामघाम ? ) प्रोक्तः सार्धदशाङ्गुलः ।
ग्रीवाङ्गुलत्रयं सार्धमायामेनास्य कीर्तिता ॥ १५ ॥
एकादशाङ्गुलो ६ ( व्याँ ७ पूर्वकृस्तस्य ? ) प्रमाणतः ।
तावन्त्ये ८ वोदरं तस्य नाभिमेढ्रान्तरं दश ॥ १६ ॥
विंशतिश्चाङ्गुलान्यूरू जानुनी चाङ्गुलत्रयम् ।
विंशत्यङ्गुलमायामं जङ्घयोस्तस्य निर्दिशेत् ९ ॥ १७ ॥
अङ्गुलत्रितयं गुल्फौ कुर्यात् तस्य शिरोऽपि च ।
द्विनवत्यङ्गुलायामो रुचकः परिकीर्तितः ॥ १८ ॥
इत्यायामोऽस्य विस्तारो वक्षसोऽङ्गुलविंशतिः ।
भुजौ दशाङ्गुलायामौ प्रकोष्ठौ तद्वदेव च ॥ १९ ॥
एकादशाङ्गुलौ हस्तौ विस्तारेणास्य कीर्तितौ ।
पीनांसः पीनबाहुश्च सलिं ११ ( ली )लगतिचेष्टितैः १० ॥ २० ॥
बलवान् वृत्तबाहुँ १२: स्याद् रुचको रुचकाकृतिः ।
भद्रस्य प्राहुरायामं मस्तकस्याङ्गुलत्रयम् ॥ २१ ॥
१ द. त्रौ । २ द. प्रतौ 'वक्षो' तथा मुद्रित पुस्तकेऽपि सैव पाठः स्यात् । ३ द. श्वः । ४ द.
व्याः । ५ द. 'मुखायामः' तथा मुद्रित पुस्तकेऽपि सैव पाठः स्यात् । ६ द. 'लो' स्थाने 'ला'।
७ द. न्यां । मुद्रित पुस्तके 'न्याहूर्वक्षस्तस्य' इति स्यात् । ८ द. ंत्ये । ९ द. त्र्यं । १० द. प्रतौ
नास्ति । ११ द. ता । १२ द. हू ।