सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 684, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 684

ऋज्वागतादिस्थानलक्षणं नामैकोनाशीतितमोऽध्यायः । ६२३
चतुर्भिरङ्गुलैः पार्ष्णिम( र्म )ध्यसूत्राद् विधीयते ।
यथोक्तमानेनाङ्गुल्यस्तथा पादprefix/prefixपादतलं भवेत् ॥ १४२ ॥
पार्श्वगतमिदं प्रोक्तं स्थान( नं ) भित्तिकसंज्ञकम् ।
( पार्श्वांगतस्थानम् )
अतः परं परावृत्तस्थानकान्यभिदध्महे ॥ १४३ ॥
ऋजा( ज्वा )गतपरावृत्तं तत्रादावभिधीयते ।
तत्राङ्गुलद्वयं कर्णौ विधातव्यौ^२ पृथक् पृथक् ॥ १४४ ॥
पार्ष्णिपर्यन्तयोर्मध्यं तथा सप्ताङ्गुलं भवेत् ।
अङ्गुलत्रितयं सार्धं पार्ष्णी कार्यौ पृथक् पृथक् ॥ १४५ ॥
कनिष्ठामनामिकामध्या दर्शयेच्चतुरङ्गुली( लम् ) ।
अङ्गुष्ठा^३नामिकामध्याकनिष्ठा( वलिखेन्नरे^४ ? ) ॥ १४६ ॥
परावृत्तमिदं शेषमृज्वागतवदादिशेत् ।
अध्यर्धाक्षादिका^५( दूँ ? )^६ यानि स्थानानि तेषु यत् ॥ १४७ ॥
भवेद् यस्य परावृत्तं तद्दशात् तस्य तद् भवेत् ।
+^७+ यस्य हि यद् दृश्यं स्थानकस्याङ्गमिरितम् ॥ १४८ ॥
तददृश्यं परावृत्ते तस्यादृश्यं च^८ दृश्यते( ? ) ।
( स्थानानी भवितानि ? ) + जीवेषु द्विपदेषु च ॥ १४९ ॥
निर्जीवेष्वपि जानीयाद् यामा( ना )सनगृहादिषु ।
स्थानानि मूलभूतानि नवैवैतानि वस्तुतः ॥ १५० ॥
यानि ( ^१०निविशत ? )भक्तानि तद्भेदा( ^११नि च ? ) तान् विदुः ।
मूर्धस्थिता यदा दृष्टा ऋज्वादीनि विलोकयेत् ( ? ) ॥ १५१ ॥
स्थानानि तेषां यन्मानं तदस्मात् तदिहोच्यते ।
विस्तृत्याष्टादश न्यस्येदायत्या द्विगुणानि च ॥ १५२ ॥
१ द. गतः । २ द. र्यो । ३ द. ष्ठा । ४ द. न्न । ५ द. दाक्षिका । ६ मुद्रित पुस्तके 'दीनि'
इति स्यात् । ७ द. यस्य । ८ द. 'च' स्थाने 'तु' । ९ मुद्रित पुस्तके 'स्थानानि गदितानि' इति
स्यात् । १० मुद्रित पुस्तके 'विंशति' इति स्यात्; द. निविशति । ११ मुद्रित पुस्तके तथा द. प्रतो
'नैव' पाठः ।