सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 67, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 67

२ समराङ्गणसूत्रधारे
भगवन्नहमेतेन पृथुना पृथुतेजसा ।
उप(ङ् ? द्रु)ता त्वां शरणं प्राप्ता त्रायस्व मां ततः ॥ ८ ॥
वदन्त्यामिति मेदिन्यामाविरासीदथो पृथुः ।
संरम्भमुक्तहृदयो ब्रह्माणं प्रणनाम च ॥ ९ ॥
जगादैनमथ स्निग्धध्वनिगम्भीरया गिरा ।
कुर्वंस्तद्यानहंसानां पयोदध्वनिशङ्कितम् ॥ १० ॥
त्वयास्मि जगतां नाथ ! जगतोऽधिपतिः कृतः ।
स्थापितानि च भूतानि सर्वाण्यपि वशे मम ॥ ११ ॥
तेष्वियं मम विश्वेश ! कदाचिद् वशवर्तिनी ।
समीकरोमि पाषाणजालान्यस्याः किलाधुना ॥ १२ ॥
व्यस्तानि धनुषा तावद् गौर्भूत्वेयं पलायिता ।
दोग्धुकामोऽहमप्येनां चिरमन्वगमं महीम् ॥ १३ ॥
यत्रक्वापि² प्रयात्येषा तत्र मामेव पश्यति ।
अपश्यन्त्यन्यतस्त्राणमदुग्धा त्वामुपस्थिता ॥ १४ ॥
अस्यां वर्णाश्रमस्थानविभागश्च विधास्यते ।
इयं च दुर्गमानेकक्षोणीधरकुलाकुला ॥ १५ ॥
विधास्येऽस्यां कथं त्वेतदिति मे शङ्कितं मनः ।
पृथुनेत्यथ विज्ञप्तो³ भगवानब्जसम्भवः ॥ १६ ॥
उवाच बोधयन्नेनं⁴ कृत्वा भूमिं च निर्भयाम् ।
इयं मही महीपाल ! विधिवत् पालिता सती ॥ १७ ॥
सस्यैरूत्पाद्य⁵ निष्पन्नैस्तव भोग्या भविष्यति ।
यच्च ते स्यादभिप्रेतं स्थानादिविनिवेशनम् ॥ १८ ॥
१ क. प्रतेरारम्भः । २ ख-द आदर्शौ अत आरभ्येते । ३ द. विज्ञप्ते । ४ द. ज्ञेवं
विकीर्य विभयां भुवम् । ५ क. रद्यैव, द. रुपाय । गणपतिशास्त्रिभिः उपाय-इति पाठनिर्देशः कृतः
अस्माभिः उत्पाद्य इति ।