समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 66, कुल 726 में से
संदर्भ में पढ़ें॥ श्रीः ॥
श्रीगणेशाय नमः ।
महाराजाधिराजश्रीभोजदेवविरचितं
समराङ्गणसूत्रधारापरनामधेयं
वास्तुशास्त्रम् ।
महासमागमनो नाम प्रथमोऽध्यायः ।
देवः स पातु भुवनत्रयसूत्रधार-
स्त्वां बालचन्द्रकलिकाङ्कितजूटकोटिः ।
एतत् समग्रमपि कारणमन्तरेण
कात्स्न्यादसूत्रितमसूत्रयत येन विश्वम् ॥ १ ॥
सुखं धनानि ऋद्धिश्च सन्ततिः सर्वदा नृणाम् ।
प्रियाण्येषां तु संसिद्ध्यै सर्वं स्याच्छुभलक्षणम् ॥ २ ॥
यच्च निन्दितलक्ष्मा(च ? त्र)तदेतेषां विघातकृत् ।
अतः सर्वमुपादेयं (यद् ) भवेच्छुभलक्षणम् ॥ ३ ॥
देशः पुरं निवासश्च सभा वेश्मासनानि च ।
यद्यदीदृशमन्यच्च तत्तच्छ्रेयस्करं मतम् ॥ ४ ॥
वास्तुशास्त्रादृते तस्य न स्याल्लक्षणनिश्चयः ।
तस्माल्लोकस्य कृपया शास्त्रमेतदुदीर्यते ॥ ५ ॥
अथैकदा जगज्जन्महेतुमम्बुरुहासनम् ।
पृथ्वी पृथुभयभ्रान्ता चकिताक्षी समाययौ ॥ ६ ॥
प्रणम्य प्रणतिप्रह्वनिखिलत्रिदशेश्वरम् ।
सगद्गदमुवाचेति भूतधात्री पितामहम् ॥ ७ ॥