समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 649, कुल 726 में से
संदर्भ में पढ़ें५८८ समराङ्गणसूत्रधारे
इति निगदितमेवं लक्षणं वर्तिकाना-
(मिहकपर्दंकुड्यक्ष्मानिविविविधेश्च ?) ।
इदमखिलमवैति प(ग्र)न्थतो योऽर्थतश्च
(प्रतिवति स विधातुर्विभ्रमस्यौस्य योगात् ?) ॥ ४३ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे
भूमिबन्धो नामैक( म¹ द्वि²)सप्ततितमोऽध्यायः ॥
अथ लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः ।
लेप्यकर्म ससल्लक्ष्म (लै³क्षा ?)लक्ष्मे च कथ्यते ।
वापीकूपतटाकॉ⁴नि पद्मिन्यो दीर्घिकास्तथा ॥ १ ॥
वृक्षमूलं नदीतीरं गुल्ममध्यं तथैव च ।
मृत्तिकानामिति क्षेत्राण्युक्तान्येतानि तत्त्वतः ॥ २ ॥
तासां वर्णः सिताक्षौद्रसन्निभो गौर एव च ।
कपिलै⁵श्चेति ते स्निग्धाः शस्ता विप्रादिषु क्रमात् ॥ ३ ॥
(इन्द्रांशी ?) मृत्तिका ग्राह्या स्थूलपाषाणवर्जिता ।
शाल्मलीश(मा)षककुभं(भ)मधूकत्रिफलोद्भवम् ॥ ४ ॥
रसं विनिक्षिपेत् तस्यां (पं⁶प्रेक्ष्यस्यसिकथितां चपि ?) ।
क्रमुकं(चनका ?)बिल्वे सटालोमालि र्वाजिनः ॥ ५ ॥
गवां रोमाणि वा दद्यान्नालिकेरस्य क(व)ल्कलम् ।
मृदां संयोज्य मृद्दीयाद् दद्याद् वा द्विगुणांस्तुषान् ॥ ६ ॥
(वाँ⁹लुकातीवती चापि तं⁷पा⁸सांयोगयेन्मृदम् ?) ।
भागद्वयं मृत्तिकाँग्यै¹⁰(यां) कौ¹²र्पासांशेन मिश्रयेत् ॥ ७ ॥
तदेकीकृत्य मृद्भागं तृतीयमुपरि क्षिपेत् ।
पूर्वोदितां सनि(न्नि)धाय ततश्च कटशर्कराम् ॥ ८ ॥
१ द. ट । २ द. भ्यास । ३ मुद्रित पुस्तके ‘लेखा’ इति स्यात् । ४ द. गा । ५ द. ला ।
६ मुद्रित पुस्तके ‘प्रक्षिप्य सिकतामपि’ इति स्यात् । ७ द. ता अ । ८ द. वर्जिताः ९ मुद्रित पुस्तके
‘वालुका यावती चापि तावतीं योजयेन्मृदम्’ इति स्यात् । १० द. त । ११ द. याः । १२ द. क ।