सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 648, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 648

भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः । ५८७
तां कुट्टयित्वा घृष्ट्वा च कल्कं कुर्याद् विचक्षणः ।
पूर्वोक्तभक्तभागं च निर्यासांश्च प्रदापयेत् ॥ ३३ ॥
(विष्वङ्क ?) यदि वा दद्यात् (कूटसर्करया ?) समम् ।
त्रीन् वारा(न्) लेपयेत् कुड्यं पूर्वोक्तेन विचक्षणः ॥ ३४ ॥
हलेन हस्तमालिप्य प्रदद्यात् (कूटकूर्तकाम् ?) ।
जायते विधिनानेन कुड्यबन्धनमुत्तमम् ॥ ३५ ॥
साम्प्रतं कथयिष्यामः पट्टभूमिनिबन्धनम् ।
बिम्बाबीजानि संगृह्य त्यक्त्वा तेषां मलं बुधः ॥ ३६ ॥
एवं विस्रुद्ध(शोध्य) निष्पावान् यदि वा(न्य ?) शालितण्डुलान् ।
तेषामन्यतमं श्लक्ष्णं पिष्ट्वा पात्रे विपाचयेत् ॥ ३७ ॥
पट्टमालिप्य बन्धेन पूर्वोक्तमिवा(विधिमा)चरेत् ।
पूर्वोक्त(निर्यासा पुना विधातत्यः ?) कटशर्कराम् ॥ ३८ ॥
तोयेन तां (प्रचांकृत्य ?) पटमालेखयेत् तथा ।
अनेन विधिना बन्धश्चित्रकर्मणि शस्यते ॥ ३९ ॥
विधिनान्येन वा कुर्यात् (सौदानां ?) भूमिबन्धनम् ।
(प्राद्यचामिकतालपेंड्कुनिर्यांस ?) समन्विताम् ॥ ४० ॥
निर्याससंयुतां दद्यात् त्रिस्ततः कटशर्करीम् ।
(पोटांगनां ?) भूमिबन्धोऽयं विक्षेपठ्यः प्रयत्नतः ॥ ४१ ॥
(गोमयेन कटंपेने शैस्तदनन्तरम् ?) ।
(कैटशर्करयुक्तिर्वारास्त्राक्तर्च्चकेन च ?) ।
(यंथा पन्यत्तोस्वां पश्चाद् भूमिबन्धः कटेपिहैः ?) ॥ ४२ ॥
१ मुद्रित पुस्तके ‘कटशर्करया’ इति स्यात् । २ द. पूर्वकेन वि°। ३ द. क्रूर कूर्तकां । मुद्रित
पुस्तके ‘कट शर्कराम’ इति च स्यात् । ४ द. द्य। ५ द. स्तमालिप्य प्रदद्या त्यक्तवा° इत्याधिकः पाठः ।
६ द. ता । ७ द. म । ८ मुद्रित पुस्तके ‘निर्यासुयुतां विधाय’ इति स्यात् । ९ मुद्रित पुस्तके
‘द्रवीकृत्य’ इति स्यात् । १० द. पाटमालेपयेन्नयाः । ११ द. र्मा । १२ मुद्रित पुस्तके ‘पट्टानाग’
इति स्यात् । १३ द. पंत्रि । १४ द. रं । १५ मु. पु. ‘पट्टानाग’ इति स्यात् । १६ द. मोमर्येन
कटं लिंप्नेशे । १७ ‘कटशर्करया युक्तैर्वारान्त्रीन् कूर्चकेन च’ इति स्यात् । १८ द. वारास्त्रीकूर्च' ।
१९ मुद्रित पुस्तके ‘यथा पट्टे तथैव स्याद् भूमिबन्धः पटेऽपि सः’ इति स्यात् । २० द. तश्वां ।
२१ द. ह।