समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 643, कुल 726 में से
संदर्भ में पढ़ें५८२ समराङ्गणसूत्रधारे
अथ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः ।
अथ(१प्रियं विते ?)ऽस्माभिर्विन्यासश्चित्रकर्मणः ।
रा(२चि)त्रं हि सर्वशिल्पानां मुखं लोकस्य च प्रियम् ॥ १ ॥
(३पदे पदे४ वा ?) कुड्ये वा यथा(५चित्रं सं वचने ?) ।
वर्तयः कृतबन्धाश्च रेखामानं यथा भवेत् ॥ २ ॥
(६वर्णगव्यक्तिया ?) याहग् याहशो वर्तनाक्रमः ।
मानोन्मानविधिश्चैव नवस्थाने(न)विधिस्तथा ॥ ३ ॥
हस्तानां यश्च विन्यासो (लक्षणंनात्रसंशयं ?)।
दिव्यानां मानुषाणां च (९दिव्या सा मुखजन्मना ?) ॥ ४ ॥
गणरक्षःकिन्नराणां कुब्जवामन(यंस्तेषाम् ?) ।
विकल्पाकृतिमानानि रूपसंस्थानमेव च ॥ ५ ॥
वृक्षगुल्मलतावल्लीवीरुधां पापकर्मणाम् ।
शूराणां दुर्विधानां च धनिनां पृथिवीक्षि(भृ)ताम् ॥ ६ ॥
ब्राह्मणानां (१२विसासोडजातन ?) क्रूरकर्मणाम् ।
मानिनामथ रङ्गोपजीविनां चेहंङ्ग(क)ध्यते ॥ ७ ॥
रूपलक्षणनैपथ्यं सतीनां राजयोषिताम् ।
दासीप्रव्रजितारण्डा(यैतिवल्लीषु लक्षणा ॥ ८ ॥
कन्यानामसंसंकारणां च १७विध्याना ?)गजवाजिनाम् ।
मकरैर्व्यालसिंहानां तथा यज्ञोपयोगिनाम् ॥ ९ ॥
१ मुद्रित पुस्तके 'प्रपञ्च्यते' इति स्यात् । द. प्रयंचिते । २ द. चि । ३ मुद्रित पुस्तके
'पट्टे पटे वा' इति स्यात् । ४ द. टे । ५ मुद्रित पुस्तके 'चित्रस्य सम्भवः' इति स्यात्; द. त्रस ।
६ द. वर्णगव्य क्रिं । मुद्रित पुस्तके 'वर्णव्यक्तिक्रमो' इति पाठः स्यात् । ७ द. णं । ८ द. यः ।
९ मुद्रित पुस्तके 'दिव्य मानुषजन्मनाम्' इति स्यात् । १० मुद्रित पाठः 'योषिताम्' इति स्यात् ।
११ द. पृथवक्षितं । १२ द. विसां सोडजा नीहीनां,कू° । मुद्रित पुस्तके 'विशां शूद्रजातीनाम्' इति
स्यात् । १३ द. चेह याध्यते । १४ द. सां । १५ द. प । १६ द. लं । १७ द. वंध्यानां राजवाजिनां ।
१८ द. ºरस्य ।