सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 642, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 642

लिङ्गपीठप्रतिमालक्षणं नाम सप्ततितमोऽध्यायः । ५८१
पीठात्(ठं) त(त्)त्रितयेनार्चामुप(रि ?)विष्टां प्रकल्पयेत् ।
द्वारस्यार्धं ^२त्रिधा कृत्वा द्वाभ्यां पीठं विधीयते ॥ १५० ॥
(चाक्लृप्तिरुक्तवतैयद्वा ?) द्वेधा चतुर्धा वा द्वारं कृत्वैकमत्सृजेत् ।
शेषं भागत्रयं कृत्वा पीठमर्चां च पूर्ववत् ॥ १५१ ॥
द्वारोच्छ्रितेः पञ्चदशभागं (कृ ?) त्यक्त्वा विधीयते ।
भागत्रयं तदेकेन पीठमर्चां तु (तद्)द्वयात् ॥ १५२ ॥
भागान् पञ्च विधीयेत यदि वा भागयुग्मतः ।
पीठं^४(तत्)त्रितयेनार्चामुपविष्टां प्रकल्पयेत् ॥ १५३ ॥
द्वारस्यार्धं त्रिधा कृत्वा द्वाभ्यां पीठं विधीयते ।
भागेनार्चा( शयानागार्धे^५ऽर्चा ? ) वेश्मानुसारतः ॥ १५४ ॥
भक्ते प्रासादगर्भाद्धे(र्धे ) दशधा पृष्ठभागतः ।
पिशाचरक्षोदनुजाः स्थाप्या गन्धर्वगुह्यकाः ॥ १५५ ॥
(आदित्यचन्द्रिकाविष्णुब्रह्मेशानन्ता ? ) पदक्रमात् ।
गर्भे षड्भागभक्ते वा त्यक्त्वैकं (^७पृथता शतं^८? ) ।
स्थापनं सर्वदेवानां पञ्चमेशो (मैंडशे ) प्रशस्यते । ॥ १५६ ॥
यदङ्गप्रत्यङ्गप्रहरणगतं लक्ष्म विततं
तदर्थानां (चित्रकनावधो वाच्यमक्ष्य ? ) ।
सपीठार्था(र्चा )लिङ्गोन्मिति(मपि ) विदित्वा वडु(हु )मतो
भवेद् भूपालानां कृतिभिरपि पूज्येत सकलैः ॥ १५७ ॥
^१०इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे
लिङ्गपीठप्रतिमालक्षणं नाम सप्ततितमोऽध्यायः !|
१ द. ठा तन् । २ द. द्वि । ३ द. त् । ४ द. पीठं कृत येनार्चा° । ५ द. द्वैर्य्यं । ६ द. जः ज्ञः ।
७ मुद्रित पुस्तके ‘पृथगंशकम्’ इति स्यात् । ८ द. नं । ९ द. मंशो । १० द. ‘परमेश्वर श्रीभोजदेव’
इत्ययं पाठः ।