सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 614, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 614

जगतीलक्षणं नामैकोनसप्ततितमोऽध्यायः । ५१३
चतुर्ष्वपि च कर्णेषु प्रविष्टा भ्रमजाः पदम् ।
कर्तव्यं द्विपदायामं भद्रशालायुगं तथा ॥ ५५ ॥
विस्तारात् प्र + पादोनमन्योन्याभिमुखं भवेत् ।
आयता(द् ) द्व्यंशविस्तारा पदेनैकेन वेष्टिता ॥ ५६ ॥
भद्रशाला विधातव्या सार्धत्रिपदनिर्गमा ।
सौम्यानिलीवारुणीषु नैरृतीया(म्ययो )रपि ॥ ५७ ॥
शालास्तिस्रः प्रतिदिश( मशालाग्रेय्यायैदिना सुरविद्विषः ? ) ।
अस्या एव मुखे शाला यदि तन्मकरध्वजा ॥ ५८ ॥
अमराणां कृतानन्दा कृत्वैनां मोक्षमाप्नुयात् ।
मुखशास्त्रां परित्यज्य यद्यैकायकर्णयोः ॥ ५९ ॥
शाला प्रदीयते सा स्यान्नन्द्यावर्त( यत्यहर्पतेः ? ) ।
विकर्णकन्धोराग्रे(?) यदास्यान पृष्ठवंशगा ॥ ६० ॥
द्विभागायामविस्तारा शाला भवति शोभना ।
चतुर्ष्वसंस्थिता(?) शाला शालायाः संमुखी भवेत् ॥ ६१ ॥
ताम्रमूला तदा ज्ञेयाः ब्रह्मविष्णुहरि (र) प्रिया ।
यदास्यान पृष्ठवंशस्था ( हस्तायाम्योत्तरात्तथा ॥ ६२ ॥
शाले क्रियेते ? ) तदा ज्ञेया पारिजातकमञ्जरी ।
( वारुणीचतुष्टःस्थिता ? ) शालायाः सम्मुखी भवेत् ॥ ६३ ॥
(ताम्रयाम्यासौम्यास ? ) शालाः स्युर्यदि वंशगाः ।
प्रिया स्यात् सर्वदेवानां तदा चूडा(मणिः प्रभोः ? ) ॥ ६४ ॥
चतुरश्रीकृते क्षेत्रे चतुरश्रः समन्ततः ।
दशांशः (स्यादुभायान्ता ? ) मध्ये प्रासादनायकः ॥ ६५ ॥
१ द. च । २ द. माः । ३ द. मे । ४ द. इतः पूर्वं '......द्वयं द्वयं ॥ निर्दिष्टा मा बंधैषा
विंशत्यंशक्रमंडिकौ । कर्तव्या ब्राह्मणः शंभोर्यदि' इत्ययं अधिकः पाठः । ५ द. जाः । ६ द. लं । ७ मु. पु.
'ती त्वहर्पतेः' इति स्यात् । ८ द. र्णः । ९ द. धा । १० द. ष्का । ११ द. स । १२ मु. 'भूपाले'ति
लक्ष्यनिर्देशे पश्यते । द. ताम्रचू° । १३ द. याः । १४ द. पदस्या । १५ द. म्योन्तरे तथा । १६ द. य ।
१७ द. लाभा । १८ मु. 'मणि प्रभा' इति पाठ्यं भाति । द. णिं । १९ मु. इह क्षेत्रविभाजकांशदर्शनान
किञ्चित्त्रमिव प्रतिभाति ।
वा. ७०