समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 613, कुल 726 में से
संदर्भ में पढ़ें५५२ समराङ्गणसूत्रधारे
भ्रमसूत्रस्य कर्णस्था द्विपदायतविस्तृताः ।
शालाश्चतस्त(तस्रः) कर्तव्या भागिकभ्रमवेष्टिताः ॥ ४३ ॥
नासां पार्श्वेषु सन्त्यज्य भ्रमाद् भागचतुष्टयम् ।
(शालां कं +)प्रकुर्वीत + भागायतविस्तृतम् ॥ ४४ ॥
एकभागिकविस्तारः कर्णः (स्यात्) पार्श्वशालयोः ।
मध्ये भागे जलाध्वा२ स्याद् विहाय त्रिदशं बहिः ॥ ४५ ॥
द्विभागविस्तृतां तां च कुर्याद् भागत्रयायताम् (?) ।
अन्तरेण जलाध्वा३ स्याद् भद्रपार्श्वजला(शा)लयोः ॥ ४६ ॥
स च भागार्धमायामा(त्) प्रविष्टस्तावदेव च ।
कृत्वा तिसृषु दिक्ष्वेवं सुण्डिकाकन्दमध्यतः ॥ ४७ ॥
प्रासादार्धसमायामौ सम्यक् तुण्डौ निवेशयेत् ।
तयोरपि च शाले द्वे भ्रमक्रमविभूषिते ॥ ४८ ॥
कार्ये मन्दारशा(मा)ला स्यादेवं हरमनःप्रिया ।
सुण्डिकायां यदि तस्याः शाला सम्पद्यते तदा ॥ ४९ ॥
अनङ्गलेखा भवति जगती पार्वतीप्रिया ।
यत्रास्मिन्नेव विन्यासे मुखशाले विना कृते ॥ ५० ॥
शुण्डिकागण्ड६ ++ न्यौ शाला सोपानमालिकाः ।
मुखशालान्विता सैव यदा नागोङ्गना तदा ॥ ५१ ॥
चतुरश्रीकृते क्षेत्रे द्वात्रिंशद्भाग(वि?)भाजिते ।
चतुःषष्टिपदं मध्ये कर्तव्यं सुरमन्दिरम् ॥ ५२ ॥
कार्यस्तस्य भ्रमः सम्यक् समन्ताच्च चतुष्पदः ।
भ्रमन्ति(न्ती) द्विपदायामे शाले(तु) भ्रमसंयुतौ(ते) ॥ ५३ ॥
स्वंप्रमाणाद् विधातव्ये मध्यगे भद्रकर्णयोः ।
स्युः षोडशपदः(दाः) कॅन्दास्तेषु शालाश्चतुष्पदाः ॥ ५४ ॥
१ मु. पु. ‘शालाक्रन्दम्’ इति स्यात् । द. शाला कं । २ द. द्वा । ३ द. धा । ४ द. य ।
५ द. दि । ६ द. ण्डमंड । ७ मु. पुस्तके ‘उत्सवमालिके’ति निर्देशो दृश्यते । ८ द. काः । ९ मुद्रित
पुस्तके ‘नागरामे’ति पूर्वत्र पठिता । १० द. सु । ११ द. स्कंधा ।