सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 601, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 601

५४० समराङ्गणसूत्रधारे
राजसेनसमा कुम्भी जङ्घा वेदिसमा भवेत् ।
एवमेतत् १त्रिधा प्रोक्तं (सूर्प ?)च्छाद्यमथोच्यते ॥ ७३ ॥
अधःपट्टोर्ध्वपट्टान्तं पञ्चधा प्रविभाजयेत् ।
उभाभ्यां वा त्रिभिर्वापि भजे(२निगतिस्तु सार्यते ?) ॥ ७४ ॥
++पट्टसमोऽथ (द्वा ?) त्रयोदशविभाजिते ।
शूर्प३भागं त्यजेदूर्ध्वं भ(घै )टना द्वादशांशिका ॥ ७५ ॥
कुर्यान्निपातं शूर्पस्य पञ्चभागमथापि वा ।
दण्डकैर्भूषयेच्छूर्पं मध्ये दण्डं विवर्जयेत् ॥ ७६ ॥
मध्ये च स्तम्भिका वेद्या मत्तवारणकस्य च ।
भागेन पट्टपिण्डस्तु सपादेनाथवा भवेत् ॥ ७७ ॥
पृथुत्वं स्यात् स षड्भागपिण्डतुल्यं तु पट्टके ।
स्तम्भः पट्टसमः कार्यः६ शीर्षकं त्रिगुणं ततः ॥ ७८ ॥
स्तम्भादप्यर्थिका कूटी हीरकादपि पट्टकः ।
बाह्यापट्टवदुच्छ्रायः शुकनासस्थ पट्टके ॥ ७९ ॥
पट्टपिण्डोच्छ्रिता वेदी यद्वा पट्टाधिका भवेत् ।
मण्डपे स्यात् तुलोच्छ्रायो विभागैः प्रमितोऽष्टभिः ॥ ८० ॥
स्थलप्रासादतुल्यो वा पातस्य च सतोऽपि वा ।
निम्नोन्नतं छादयेच्च छेदिकायोगतो बुधः ॥ ८१ ॥
कण्ठकश्चे११+ कार्येन विधातव्यो विचक्षणैः ।
छेदिकायोगतो मध्ये स्तम्भाः स्युर्बाह्यतोऽधिकाः ॥ ८२ ॥
पञ्चाशेनाष्टषष्ठेन केशान्तात् सालभञ्जिकाः ।
रथिकाशालभञ्जीभिः स्थिताभिः पट्टिकोर्ध्वतः ॥ ८३ ॥
मध्ये क(वा)राटकं कार्यं मनोज्ञं वा सरोरुहम् ।
छादयेद् वास + मलं विमानैर्बहुभेदवत् ॥ ८४ ॥
१ द. स त्रि । २ द. न्नि । ३ द. प । ४ द. पैं । ५ द. तटना । ६ द. कां । ७ द. द ।
८ द. र्या । ९ द. भ्यधिकां । १० द. सू । ११ द. ०क च्छेदिकार्धेन ।