सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 563, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 563

५०२ समराङ्गणसूत्रधारे
त्रिपदा च भवेद् भित्तिरूध्र्वमस्याथ कथ्यते (?) ।
श्रीवत्सः कीर्तितः सम्प्रत्युच्यते वर्धमानकः ॥ १९ ॥
चतुरश्रीकृते क्षेत्रे +++ भागकल्पितम् ।
छेदादि गिरिपत्र्यन्तं दद्यात् पूर्वक्रमेण (तु) ॥ २० ॥
द्विस्तरा त्रिस्तरा चापि कर्तव्या¹ वेदिका न (म)ता ।
स्तरमेकं भवेच्छेदः कण्ठस्तद्द्विगुणो भवेत् ॥ २१ ॥
पट्टिकां गिरिपत्रीं च तस्यैवार्धेन कारयेत् ।
दशस्तरा ततो घण्टा यदि वामलसारकम् ॥ २२ ॥
द्विस्तरं स्यात् ततः पद्मं द्विगुणः कलशस्ततः ।
तदूर्ध्वं भूमिका कार्या सपीठा लक्षणान्विता ॥ २३ ॥
स्तरैः स्यात् पञ्चदशभिः पीठं जङ्घापि तावता ।
चतुःस्तरा भवेन्माला लशुनं तु स्तरद्वयम् ॥ २४ ॥
तस्या (प्य) र्धेन भरणं कुम्भं कुर्वीत तत्समम् ।
तस्य द्विगुणमुच्छ्रालं गण्डमेकस्तरं भवेत्⁴ ॥ २५ ॥
पट्टं द्विगुणमेतस्मात् कुर्यादर्धेन पट्टिकाम् ।
पट्टिकायाः प्रमाणेन कर्तव्या गिरिपत्रिका ॥ २६ ॥
वरण्डी त्रिस्तरा कार्या शूरसेनैरलङ्कृता ।
एकस्तरस्ततश्छेदः कण्ठस्तु द्विगुणस्ततः ॥ २७ ॥
पट्टिका गिरिपत्री च विधातव्ये स्तरं स्तरम् ।
⁶उभौ (स्तरौ) खिरिहिरं भवेच्छेदः स्तरं ततः ॥ २८ ॥
तथैव कण्ठस्तद्वच्च पट्टिकागिरिपत्रिके⁷ ।
वरण्डिका द्विस्तरा स्याच्छेषं पूर्ववदाचरेत् ॥ २९ ॥
उभौ स्तरौ खिरिहिरं छेदं कुर्वीत भागिकम् ।
कंण्ठश्च पत्रिका चैव गिरिपत्री⁹ च पूर्ववत् ॥ ३० ॥
१ द. ता । २ द. व्यो । ३ द. वर्त्तिं । ४ द. ततः । ५ द. वर्त्ती । ६ द. स्तरावुभौ खिरै° ।
७ द. वर्त्तिके । ८ द. कंठं च पत्रिकां । ९ द. त्रां ।