सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 562, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 562

दिग्भद्रादिप्रासादलक्षणं नाम चतुष्षष्टितमोऽध्यायः । ५०१
१षोडशांशेन कुर्वीत +++ सलिलान्तरम् ।
सीमास्याद् (स्य ) दशभिर्भागैः प्रविभज्य विधीयते ॥ ७ ॥
२++ का गर्भपादैः षड् भित्तयः स्युर्द्विभागिकाः ।
( वर्धमानेनमथ ब्रूमो ? ) विस्ताराद् द्विगुणं हि तत् ॥ ८ ॥
द्वौ भागौ वेदिकाबन्धो जङ्घा ज्ञेया चतुष्पदा ।
( ३शान्तापत्रा ? ) कपोताली सार्धंभागं समुच्छ्रिता ॥ ९ ॥
सार्धभागसमुच्छ्राया ४ कार्या प्रथमभूमिका ।
द्वितीया भूमिका ज्ञेया सार्धभागत्रयोदया ५ ॥ १० ॥
तृतीया च विधेया स्यात् सार्धभागद्वयोच्छ्रिता ।
उच्छालकं ६ च जङ्घा च भूमिकार्धं ७ विधीयते ॥ ११ ॥
कूटं ( नै ? ) चार्धतो देयं कर्मशोभासमन्वितम् ।
घण्टा भागत्रयोत्सेधा बहुमिश्राश्रिभिर्युता ॥ १२ ॥
कलशं स्थापयेदूर्ध्वं भागद्वयसमुच्छ्रितम् ।
बीजपूरकसंयुक्तं वर्तुलं पल्लवावृतम् ॥ १३ ॥
१०शिखराधंस्य कुर्वीत सपादमुदयं तथा ।
इमं दिग्भद्रसंज्ञं ११ यः प्रासादं कारयेत् पुमान् ॥ १४ ॥
शतक्रतुफलं सोऽपि लभते नात्र संशयः ।
लक्ष्म श्रीवत्ससंज्ञस्यै १२ प्रासादस्याभिधीयते ॥ १५ ॥
चतुरश्रीकृते क्षेत्रे भक्ते पञ्चदशांशकैः ।
( अस्योच्छ्रायो सकारुह्यंशस्त्रं १३ क्षोणस्यादंशकैस्त्रिभिः ? ) ॥ १६ ॥
कर्णशालान्तरे कार्यौ द्वयंशौ प्रतिरथावुभौ ।
( तयोरुभयोः सार्ध सादं तु मार्गौ निवेशयेत् ? ) ॥ १७ ॥
भागमेकं प्रविष्टौ च शाला भागत्रयात्मिका ।
निर्गमः स्यात् पदार्धेन गर्भस्तु नवभागिकः ॥ १८ ॥
─────────────────────────────────────────
१ द. ॰शः कासेन कु॰ । २ द. कार्यो गर्भः पदैः षड् भित्तयः स्युर्द्विभागकाः । ३ मुद्रित पुस्तके
‘ शतपत्रा ’ इति स्यात् । ४ द. र्ध । ५ द. यो । ६ द. श । ७ द. कश्च । ८ द. र्धे । ९ द. त्र ।
१० द. शिखराद्धं स्य चोर्द्ध्वस्य चोर्द्ध्वेन सूरसेनं विधीयते । प्रासादगर्भ मानेन हीनमष्टांशकेन वा ॥
विस्तारमस्य कुर्वीत । इति अधिकः पठ्यते । ११ द. ज्ञे । १२ द. थ । १३ द. स्त्र्यं ।