समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 547, कुल 726 में से
संदर्भ में पढ़ें[Page header: ४८६ | समराङ्गणसूत्रधारे ]
सर्वतोभद्र इत्यं(त्ये)ते समारभ्यैकभूमिकान् ।
पञ्चभूमिकपर्यन्तं कार्याः साधारणक्रियाः² ॥ १७१ ॥
एतैर्विंशतिभागैश्च प्रासादाः पूर्वसूचिताः ।
पीठादारभ्य घण्टान्तं पञ्चैते लक्षणान्विताः ॥ १७२ ॥
षड्भूमिकादिको(कं) ब्रूमो यावद् द्वादशभूमिकम् ।
पञ्चभूमिकः ॥
अथ षड्भौममेकान्तं त्रिंशद्धस्तं प्रचक्ष्महे ॥ १७३ ॥
चत्वारिंशत्कराः सैकास्तस्योच्छ्रायो विधीयते ।
पीठं प्रकल्पयेत् तस्य सार्धहस्तद्वयोच्छ्रितम् ॥ १७४ ॥
जङ्घा समुच्छ्रये कार्या सार्धहस्तचतुष्टयम् ।
कूटप्रस्तारमस्याहुः सो(सा)र्धहस्तोच्छ्रितं बुधाः ॥ १७५ ॥
जङ्घा द्वितीया तु भवेत् तस्य हस्तचतुष्टयम् ।
द्वितीयकूटस्योत्सेधं सार्धहस्तं प्रकल्पयेत् ॥ १७६ ॥
³घण्टा तृतीया चतुरो हस्तास्तार्धाद्विवर्जिता( ? ) ।
तृतीयकूटप्रस्तारं कुर्याद् भूयोऽपि पूर्ववत् ॥ १७७ ॥
जङ्घा भवेच्चतुर्थी⁴ +(स सार्धा त्रे ?) करत्रयम् ।
पूर्वमानेन कुर्वीत कूटप्रस्तारमूर्ध्वतः ॥ १७८ ॥
हस्तत्रयं विधातव्या जङ्घोच्छ्रायेण पञ्चमी ।
कूटप्रस्तारकं कुर्यात् सार्धहस्तोच्छ्रितं ततः ॥ १७९ ॥
षष्ठ(ष्ठी) हस्तत्रयं जङ्घा पादहीनं विधीयते ।
प्राग्वत् प्रस्तारकूटं तु कपोतं त्रिकरोच्छ्रितम्⁵ ॥ १८० ॥
तस्योपरि भवेद् घण्टा हस्तपञ्चकमुच्छ्रिता ।
कर्तव्यं पद्ममुपरि सुविचित्रं षडङ्गुलम् ॥ १८१ ॥
कुर्याद् भागैकविंशत्या कुम्भमाङ्गरर्णैतम्(⁶भरणैर्युतम्) ।
षड्भूमिकोऽयमाख्यातः कथ्यते सप्तभूमिकः ॥ १८२ ॥
षड्भूमिकः ॥
१ द. त्येते । २ द. यः । ३ द. जंघा । ४ द. व्यं । ५ द. ता । ६ द. ङ्गु ।