सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 546, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 546

द्रविडप्रासादलक्षणं नाम द्विषष्टितमोऽध्यायः । ४८९
तथैव भरणं कुर्यात् कुम्भोच्छाले¹ स्तरं स्तरम् ।
हीरकं भागिकं कुर्यात् पद्मं² सार्धस्तरं ततः ॥ १५९ ॥
पट्टिकार्धस्तरं कार्या वसन्तं च स्तरं ततः ।
कपोतं³ द्विस्तरं कुर्याद् वेदीमर्धस्तरं तथा ॥ १६० ॥
यथा छेदस्तथा मण्डो मकरश्च विधीयते ।
पट्टिकार्धस्तरं कार्या छेदोऽप्यर्धस्तरं भवेत् ॥ १६१ ॥
भागं कण्ठः पट्टिका च वेदी कार्या द्विभागिकी ।
छेदो भागेन कर्तव्यः कण्ठश्चान्यस्त्रिभागिकः ॥ १६२ ॥
पट्टिकां पद्मपत्रीं च विदधीत स्तरं स्तरम् ।
तुङ्गस्य ४चलनं कार्यं द्विभागिकमनन्तरम् ॥ १६३ ॥
घण्टा कार्या समुत्सेधा(त्) त्रयस्त्रिंशाद्द्विभागिकी ।
सर्वतोभद्रसंयुक्ता५ चन्द्रशालाविभूषिता ॥ १६४ ॥
कुर्वीत त्रिस्तरं पद्मं६ चित्रपत्रसमन्वितम् ।
तस्योपरि (भवेत्) कुम्भश्चतुर्दशविभागिकः ॥ १६५ ॥
ग्रीवा द्विभागिका७ कार्या कर्णश्चैव तथाविधः ।
बीजपूरं ततः कार्यं सा(शो)भासंयुक्तमर्धतः ॥ १६६ ॥
पद्मचक्रं ८त्रिशूलं वा विधातव्यं यथोचितम् ।
प्रोत्तुङ्गग्राससंयुक्तं १०++ मकरमेदकैः ॥ १६७ ॥
सोत्तुङ्गकूटके१२ कुर्याद्देवं१३ दिक्षु विदिक्षु च ।
भूमौ भूमौ विधातव्या शाला१४ साध्यलतोरणम् (?) ॥ १६८ ॥
कोणे कोणे च (१५+करां) भद्रे करिक्य(क)रानपि ।
++कूटैस्त्रिभिर्युक्तं चतुर्भिश्च जलान्तरैः ॥ १६९ ॥
कुर्वीत सर्वतोभद्रमेवंलक्षणलक्षितम् ।
एवं पद्मो महापद्मः स्वस्तिको वर्धमानकः ॥ १७० ॥
१ द. ल्ये । २ द. ट्टा । ३ द. त । ४ द. लवनं । ५ द. क्तो । ६ द. द्य । ७ द. स्य च° ।
८ द. की । ९ द. वि । १० द. युक्तं । ११ द. में । १२ द. कैः । १३ द. व । १४ द. शालां
साध्यालतोरणे । १५ मु. पु. 'मकराम्' इति स्यात् ।