समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 523, कुल 726 में से
संदर्भ में पढ़ें४६० समराङ्गणसूत्रधारे
जङ्घा षड्भागिकोत्सेधा भागोत्सेधा च मेखला ।
²++ भागत्रयोत्सेधे शिखरं प्रथमं तथा ॥ ३७॥
द्वितीयं तत्समं चोर्ध्वं तिलकस्योपरि स्थितम् ।
अधस्ता³++++++ छाद्यं तु भागिकम् ॥ ३८॥
शिखरं गर्भविस्तारं कर्तव्यं षट्पदोच्छ्रितम् ।
अर्धेन गर्भविस्तारा⁴ +++++स्तथा ॥ ३९॥
द्वितीयँशिखरस्योर्ध्वं (प्रागुल्भ्यान् ?) मूलमञ्जरी ।
इत्येष कथितः सम्यगन्तरिक्ष⁶ ++++ ॥ ४०॥
अन्तरिक्षप्रिया देवाः सर्वे वैमानिका यतः ।
अन्तरिक्षः ॥
भागैरष्टभिरत्रैव क्रियतेऽलिन्द⁸ +++ ॥ ४१॥
पुष्पाभासस्तदा ज्ञेयः प्रासादश्चारुदर्शनः ।
पुष्पाभासः ।
अथास्य क्रियते भद्रमलिन्दा¹⁰ +++++ ॥ ४२ ॥
¹¹+ विशालको नाम्नौप्रासादाज्जायते शुभः(?) ।
विशालकः ॥
अथास्य क्रियते भद्रयुक्तस्त्यै¹³ ++ वर्जितः ॥ ४३॥
तदा संकीर्णको नाम प्रासादः परिकीर्तितः ।
संकीर्णकः ॥
यदा संकीर्णकस्यैव नन्दिका स( म )भागिकी ॥ ४४ ॥
क्रियते निर्गमेणैव महानन्दस्तदा भवेत् ।
महानन्दः ॥
विस्तारेण समश्च स्यान्नन्दिकानिर्गमो यदा ॥ ४५ ॥
१ द. धः । २ द. कार्य । ३ द. ˚स्तात् शिखरात् कार्य मल्लछाद्यं तु भाषिकं । ४ द. तां ।
५ द. ग्रीवाण्डकलस । ६ द. यं । ७ द. क्षः सुरालयः । ८ द. ˚क्षाः प्रिय । ९ द. को यथा ।
१० द. श्चाग्रतो यदा । ११ 'विशालको नाम तदा प्रासादो जायते शुभः' इति स्यात् । इति मुद्रित
पुस्तके । द. तदा । १२ द. म । १३ द. श्व यदालिंदविवर्जितः । १४ द. न्द । १५ द. स्त ।