सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 522, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 522

श्रीकूटादिषट्त्रिंशत्प्रासादलक्षणं नाम षष्टितमोऽध्यायः । ४५९
प्रासादः श्रीमुखं ++ तदानीं स्यात् सुखावहः ।
श्रीमुखः ॥
यदा कूर्परमस्यैव चतुरश्रमधो भवेत् ॥ २८ ॥
तदा स्याच्छ्रीधरो नाम प्रासादो देवताश्रयः ।
श्रीधरः ॥
अस्यैव तु यदालिन्दः क्रियते भद्रवर्जितः ॥ २९ ॥
(रुचेः ?) भवेत् तदानीं वरदः प्रासादः शुभदायकः ।
वरदः ॥
विधीयते यदास्यैव भद्रमेकं विनिर्गतम् ॥ ३० ॥
निर्व्यूहैश्च तदा स स्यात् प्रासादः प्रियदर्शनः ।
प्रियदर्शनः ॥
विधीयते यदास्यैव नन्द्यावर्तो विनिर्गमः ॥ ३१ ॥
कुलमन्दस्तदा ज्ञेयः प्रासादः सुखकारकः ।
कुलनन्दनः ॥
इति श्रीकूटादिषट्कम् ।
अन्तरिक्षमथ ब्रूमस्तस्य द्वादशभागिकाः(?) ॥ ३२ ॥
षड्विंशत्या करैर्ज्येष्ठं मानायां दशभिर्भवेत्(?) ।
मध्यमे (मो) मध्यमनेन हस्तसंख्येयमीरिता ॥ ३३ ॥
पञ्चभागायतं भद्रं कर्णाः कार्या द्विभागिकाः ।
विस्तारस्तिलकानां स्यादन्तरं भद्रकर्णयोः ॥ ३४ ॥
निर्गमः सार्धभागः स्याद् भद्रस्य तिलकस्य च ।
गर्भः षोडशभागः स्याद् भागिकी भित्तिविस्तृतिः ॥ ३५ ॥
प्रदक्षिणा तु भागौ द्वौ बाह्यभित्तिः पदं भवेत् ।
कथितोऽयमथश्छन्दो ब्रूमश्छन्दमथोर्ध्वतः ॥ ३६ ॥
१ द. खो नाम । २ द. रुचेत्तदानीं । ३ द. हा । ४ द. त । ५ मुद्रित प्रतौ 'स स्याद्
द्वादशभागिकः' इति स्यात् ।; द. स्तस्या । ६ द. कः । ७ मुद्रित पु. 'ज्येष्ठः कनीयान्' इति
स्यात् । ८ द. कार्याः । ९ द. का । १० द. नां तु स्याद् ।