समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 227, कुल 726 में से
संदर्भ में पढ़ें१६२ समराङ्गणसूत्रधारे
आरभ्य विस्तरात् कार्यस्तावद् यावन्नवाङ्गुलम् ।
पुष्करव्यासतो दण्डस्तस्य कार्यश्चतुर्गुणः ॥ ३८ ॥
फलकः पुष्करार्धेन तत्तुल्यश्चास्य मूलकः ।
स्थूलः स्याच्चतुरंशेन दण्डपुष्करविस्तरात् ॥ ३९ ॥
खातं च पुष्करस्यान्तस्तावद् गाम्भीर्यमिष्यते ।
प्रशस्तसारदारूत्थः कर्तव्योऽस्य प्रयोजनम् (?) ॥ ४० ॥
परिवेषणमन्यच्च पच्यमानानैघट्टकम् (?)।
कार्यः कङ्कतकः श्लक्ष्णः प्रशस्तमृदुदारुजः ॥ ४१ ॥
आरभ्य दैर्घ्येणाष्टभ्यः स्याद् यावद् द्वादशाङ्गुलम् ।
सार्धाङ्गुलं चतुर्भागं विस्तारेण च दैर्घ्यतः ॥ ४२ ॥
मध्ये च तस्य बाहल्यं विस्ताराष्टांशतो भवेत् ।
एकतः स्थूलविस्तारा भवेयुस्तस्य दन्तकाः ॥ ४३ ॥
अन्यतस्तु घनाः सूक्ष्मास्तीक्ष्णाः कार्यास्तथाग्रतः ।
मध्ये त्रिभागमुत्सृज्य दन्तका भागयोर्द्वयोः ॥ ४४ ॥
त्रिभिर्भागे हृते तेषां न शेषस्तान् विवर्जयेत् (?)।
गजदन्तमयः श्रेष्ठस्तथा शाखोटवृक्षजः ॥ ४५ ॥
मध्यमो दारुभिः शेषैर्जघन्योऽसारदारुजः ।
रूपकैः स्वस्तिकाद्यैर्वा स मध्ये स्यादलङ्कृतः ॥ ४६ ॥
यूकाद्यपनये केशविवेके चोपयुज्यते ।
अङ्गुलेनाधिके पादात् कार्ये दैर्घ्येण पादुके ॥ ४७ ॥
कृतायां पञ्चधा तस्यां कुर्याद् भागत्रयं पुरः ।
पश्चाद् भागद्वयं तत्र सङ्ग्रहोऽस्या विधीयते ॥ ४८ ॥
अङ्गुलत्रयमुत्सेधो विस्तारोऽङ्गुर्य्यनुसारतः ।
अङ्गुल्यङ्गुष्ठयोर्मध्यैभागे मत्स्याद्यलङ्कृतौ ॥ ४९ ॥
१ द. ख. ॰रः । २ क. ॰स्य यावद् गा० । ३ क. ॰न्नघण्ट० । ४ द. ख. ॰ङ्के० ।
५ द. ख. सद्व्यङ्गुलं । ६ ख. ॰ताम् । ७ द. प्रभानस्तु । ८ द. ॰द्युगनये । ९ द. पाण्डुके ।
१० क. ह्रीं । ११ द. ख. ॰ध्ये० ।