समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 226, कुल 726 में से
संदर्भ में पढ़ेंशयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः । १६१
निर्दोषगात्रे पर्यङ्के पापस्वप्नो न दृश्यते ।
ग्रन्थिकोटरवत् कुर्यात् तस्मान्न शयनासनम् ॥ २६ ॥
आसनं शयनीयं च ग्रन्थिकोटरवजितम् ।
बहुपुत्रकरं प्राहुर्धर्मकामार्थसाधनम् ॥ २७ ॥
आरोहणे प्रचलति शयने कम्पने तथा ।
विदेशयानकलहौ ते क्रमेण प्रयच्छतः ॥ २८ ॥
सुश्लिष्टां तामतैः कुर्यान्निर्दोषीं वर्णशालिनीम् ।
दृढां स्थिरां च स्थपतिः पत्युः कामविवृद्धये ॥ २९ ॥
निष्कुटं कोलहक् क्रोडनयनं वत्सनाभकम् ।
कालकं बन्धकं चेति छिद्रसंक्षेप ईरितः ॥ ३० ॥
घटवत् सुषिरं मध्ये सङ्कटास्यं च निष्कुटम् ।
कोलाक्षं नीडमिच्छन्ति माषनिष्पावमात्रकम् ॥ ३१ ॥
अध्यर्धपर्वदीर्घं च विवर्णं विषमं तथा ।
तदिह क्रोडनयनं छिद्रमाहुर्महर्षयः ॥ ३२ ॥
भिन्नं पर्वमितं वामावर्तं स्याद् वत्सनाभकम् ।
कालकं कृष्णकान्ति स्याद् विनिर्भिन्नं तु बन्धकम् ॥ ३३ ॥
छिद्रं दारुसवर्णं यत् तन्नो शुभकरं तथा ।
निष्कुटेऽर्थक्षयः कोललोचने कुलविद्रवः ॥ ३४ ॥
शस्त्राद् भीः क्रोडनयने वत्सनाभे रुजो भयम् ।
कालके बन्धकाख्ये च कीटविद्धे च नो शुभम् ॥ ३५ ॥
सर्वत्र प्रचुरग्रन्थि दारु सर्वमनिष्टदम् ।
शय्यार्थे कथितैः क्लृप्तं दारुभिः शस्तमासनम् ॥ ३६ ॥
उपवेशसुखं मानं प्रशस्ताय प्रकल्पितम् ।
पुष्करः सूदहस्तश्च वृत्तोऽङ्गुलचतुष्टयात् ॥ ३७ ॥
१ क. °मा° । २ द. वा । ३ द. ख. °कं° । ४ द. ख. °य्यायां कम्पतेऽथवा । ५ द.
°ष्ठानामतः । ६ द. ख. °न्धु° । ७ द. °ख्यं नीलम° । ८ द. °न्धु° । ९ द. °के धुंधु° ।
१० द. °स्तस्य ।
वा. २१