साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
DevanagariSanskritpublished506 पृष्ठ
पृष्ठ 8, कुल 506 में से
संदर्भ में पढ़ेंपृष्ठ 8
भूमिका । ९
पुरुषस्त्वमेव किल पञ्चविंशकः
स्फुटचूलिकार्थवचनैर्निगद्यसे ॥'
(हरविजये ६।१८)
'मैत्र्यादिचित्तपरिकर्मविदो विधाय
क्लेशप्रहाणमिह लब्धसबीजयोगाः ।
ख्यातिं च सत्त्वपुरुषान्यताऽधिगम्य
वाञ्छन्ति तामपि समाधिभृतो निरोद्धुम् ॥'
(शिशु. ४।५५)
स्तोत्रटीकाकारोप्येवम्—
'क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमतां
क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते ।
अतस्त्वां संप्रेक्ष्य क्रतुषु फलदानप्रतिभुवं
श्रुतौ श्रद्धां बद्ध्वा कृतपरिकरः कर्मसु जनः ॥'
शिवाद्वैतेऽपि ।
'किं फलितमस्य वेदा धीधितमेतस्य पञ्च सूक्तानि ।
स्मितमेतस्य शशाङ्कस्तस्य च रूपं मतप्रपञ्चः ॥'