साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 479, कुल 506 में से
संदर्भ में पढ़ें३९४ | साहित्यदर्पणे
क्वचिदनुपात्तयोर्द्वयोरपि सामर्थ्यादवगमः । यथा—
'न मे शमयिता कोऽपि भारस्येत्युर्वि मा शुचः ॥
नन्दस्य भवने कोऽपि बालोऽस्त्यद्भुतपौरुषः ॥'
अत्र योऽस्ति, स ते भारस्य शमयितेति बुध्यते ।
'यद्यद्विरहदुःखं मे तत्को वापहरिष्यति ॥'
इत्यत्रैको यच्छब्दः साकाङ्क्ष इति न वाच्यम् । तथाहि—द्वे-
त्यनेन केनचिद्रूपेण स्थितं सर्वात्मकं वस्तु विवक्षितम् । तदानुगुण्येन
तच्छब्देन परामर्शः । एवमन्येषामपि वाक्यगतत्वेनोदाहरणं बोध्यम्।
पदांशे दुःश्रवत्वं यथा—
'तद्गच्छ सिद्धयै कुरु देवकार्यम् ॥'
'धातुमत्तां गिरिर्धत्ते ॥'
शनीय इति ॥ द्वयोर्यत्तत्पदयोः । सामर्थ्यादाकाङ्क्षात् ॥ ननु यत्र द्वित्वं वर्तते
यत्पदद्वयं तत्र कथमेकतत्पदेन निराकाङ्क्षप्रतीतिः । तत्र तत्पदद्वयस्यैव यु-
योग्यत्वात् । यथा—'यं यं कामयते कामं तं तमाप्नोति लीलया' इति। इत्यत
आह—यद्यदिति । एक इति । उत्तरवाक्ये एकतत्पदप्रयोगोऽर्ह इति भावः।
सर्वात्मकमिति । विरहदुःखत्वेन सामान्येन सर्वं विरहदुःखमित्यर्थः ॥ तथ-
भूतस्य विरहदुःखत्वावच्छिन्नस्य । तथा च वीप्साया वक्तृतान्यर्यमेव निदानमिति
सामान्यरूपेण उपस्थापने वक्तृतातपर्ये सति न तत्पदे वीप्सा । तत्तद्विशेष-
उपस्थापने तात्पर्ये मति तत्पदे वीप्सा । क्वचित्तु तत्पदे एव वीप्सा, न तु
यत्पदे । यथा—'ते ते सत्पुरुषा परार्थघटकाः स्वार्थस्य बाधेन ये ।' एवमिति।
अन्येषामनुचितार्थत्वादीनाम् । तच्च मया दर्शितमेव ॥ 'दोषाः केचिद्भवन्त्येषां
- यद्यदिति । परमार्थन्तु यद्यदिति न पदद्वयम् । किंतु 'नित्यवीप्सयोः' इति सूत्रे-
ण यदो द्वित्वापन्नोऽनमादेशः । एव चादेशिनैकेन यत्पदेन तत्पदेन च शब्दान्तर-
रूपेण दुःसपरामर्शः । आदेशस्तु सावष्टेनान्वये तात्पर्यग्राहक इति यत्तदोर-
न सम्बन्धानोपपत्तौ न तत्पदेऽपि वीप्साद्योतको द्वित्वापन्न आदेशः । यत्र तु
तत्पदेऽपि वीप्सा तत्र न यत्पदेऽप्यादेशः । किं तुभाम्या रूपद्वयेन सर्वोपसङ्क्रान्ति-
स्तत्त्वन् ॥ - सिद्धयै इति । अत्र 'सिद्धयै' इति चतुर्थ्यन्तपदैकदेशः श्रुतिकटु ॥ अत्र 'पदेन-
मर्थान्तरलभ्य एव । अपेक्षते प्रत्ययमङ्गुलच्छेदै बीजाङ्कुर प्रागुदयादिवान्वम् ॥' इत्य-
वशिष्टा पादत्रयी ॥
१ 'प्रयोगात्' पुस्तकान्तरे