साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 470, कुल 506 में से
संदर्भ में पढ़ेंषष्ठः परिच्छेदः। ३६१
यथा मम प्रभावत्याम्—'वज्रनाभः—
(अस्य वक्षः क्षणेनैव निर्मथ्य गदयानया ।
लीलयोन्मूलयाम्येष भुवनद्वयमद्य वः ॥ )
प्रद्युम्नः—अरेरे असुरपसद, अलममुना बहुप्रलापेन । मम खलु
अद्य प्रचण्डभुजदण्डसमर्पितोरु-
कोदण्डनिर्गलितकाण्डसमूहपातैः ।
आस्ता समस्तदितिजक्षतजोक्षितेयं
क्षोणिः क्षणेन पिशिताशनलोभनीया ॥'
गण्डं प्रस्तुतसंबन्धि भिन्नार्थं सत्वरं वचः ॥ २६० ॥
यथा वेण्याम्—'राजा—
अध्यासितुं तव चिराज्जघनस्थलस्य
पर्याप्तमेव करभोरु ममोरुयुग्मम् ॥'
अनन्तरम् '(प्रविश्य) कञ्चुकी—देव, भग्नं भग्नं—' इत्यादि ।
अत्र रथकेतनभङ्गार्थे वचनमूरुभङ्गार्थे सबन्धे संबद्धम् ।
व्याख्यानं स्वरसोक्तस्यान्यथात्वसन्दितं भवेत् ।
यथा छलितरामे—'सीता—जाद, कालं क्खु उअज्झाएण
गन्तव्वम्, तर्हि सो राजा विणएण पणयिदव्वो । लवः—अथ किमा-
वाभ्या राजोपजीविभ्या भवितव्यम् । सीता—जाद, सो क्खु तुह्माणं
पिदा । लवः—किमादयो रघुपतिः पिता । सीता—( साशङ्कम् । ) मा
अण्णधा संकद्वम् । ण क्खु तुह्माणम्, सअलाए जेव पुढवीएत्ति ।'
धिष्येन वाच्यातिशयेनेतिः ॥ अस्य प्रद्युम्नस्य । वो देवानाम् ॥ गण्डमाह—
प्रस्तुतसबन्धि प्रस्तुतार्थसंबद्धम् ॥ पर्याप्तं समर्थम् ॥ सबन्धे प्रकृते ॥ अन्य-
न्दितमाह—व्याख्यानमिति । स्वरसोक्तस्य 'तवदस्य' इति शेषः ॥ जाद
इति । 'पुत्र, काल एष उपाध्यायेन गन्तव्यम्, तत्र स राजा विनयेन प्रणयि-
तव्यः ।' ( इति संस्कृतम् । ) 'पुत्र, स खलु युष्माकं पिता ।' इति संस्कृतम् ।
'मा अन्यथा शङ्कध्वम् । न खलु युष्माकम् । सकलाया एव पृथिव्या इति ।' इति
संस्कृतम् । अत्र सीतया पुत्रस्नेहान्तः श्रीरामे इत्यभिप्रायेणोक्तं वाक्यम् । 'वस्वर.'
- सन्धानितमिति । वस्तुतस्त्वर्थान्तरयोगानुगुण्यं स्वरसादुक्तिप्रत्युक्तिरूपं सङ्घटित-
मिति मन् तोषन्तान्यदन ।' इति ।
साहि० ३१