साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 469, कुल 506 में से
संदर्भ में पढ़ें३६० साहित्यदर्पणे
अत्र प्रश्नवाक्यमेवोत्तरत्वेन योजितम् । 'नटादित्रितयविषयमेवेदम्'
इति केश्चित् ।
प्रियाभैरप्रियैर्वाक्यैर्विलोभ्य च्छलना छलम् ।
यथा वेण्याम्—भीमार्जुनौ—
कर्ता द्यूतच्छलानां, जतुमयशरणोद्दीपनः, सोऽभिमानी
राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रम् ।
कृष्णाकेशोत्तरीयव्यपनयनपटुः, पाण्डवा यस्य दासाः
क्वास्ते दुर्योधनोऽसौ कथयत, न रुषा द्रष्टुमभ्यागतौ स्वः ॥
अन्ये त्वाहुश्छलं किंचित्कार्यमुद्दिश्य कस्यचित् ॥ २५८ ॥
उदीर्यते यद्वचनं वञ्चनाहास्यरोपकृत् ।
वाक्केलिर्हास्यसंबन्धो द्वित्रिप्रत्युक्तितो भवेत् ॥ २५९ ॥
द्वित्रीत्युपलक्षणम् । यथा—
'भिक्षो मांसनिषेवणं प्रकरुषे, किं तेन मद्यं विना
मद्यं चापि तव प्रियं, प्रियमहो वाराङ्गनाभिः सह ।
वेश्याप्यर्थरुचिः कुतस्तव धनं, द्यूतेन चौर्येण वा
चौर्यद्यूतपरिग्रहोऽपि भवतो, नष्टस्य कान्या गतिः ॥'
केचित्—'प्रक्रान्तवाक्यस्य साकाङ्क्षस्यैव निवृत्तिर्वाक्केलिः' इत्याहुः।
अन्ये च 'अनेकस्य प्रश्नस्यैकमुत्तरम् ।
अन्योन्यवाक्याधिक्योक्तिः स्पर्धयाधिवलं मतम् ।
'त्वया विगर्हिता मया दृष्टा' इत्युत्तरम् ॥ त्रिगतपदव्युत्पत्तिमाह—नटादीति।
आदिना नटीप्रतिनटयोर्ग्रहणम् । इदं त्रिगतम् ॥ छलमाह—प्रियाभैरिति ।
प्रियतुल्यैरित्यर्थः । छलना वञ्चना ॥ जतुमयशरणोद्दीपनः जतुमयगृह...
अङ्गराजस्य कर्णस्य । कृष्णा द्रौपदी तस्या केशोत्तरीययोर्ग्रहणे पटुः । सं
भवाव । 'आवाम्' इति शेषः ॥ वाक्केलिमाह—वाक्केलिरिति । द्वे च तिस्र...
प्रत्युक्तयस्ताभ्यः । समासप्रत्ययानाम नित्यत्वादत्र डप्रत्ययाभावः । अनेकप्रश्न...
म्मुत्तरमिति वाक्केलिरित्याहुर्गलन्वयः ॥ अधिवलमाह—अन्योन्येति । पर...
- द्वित्रीति । तथा चाह दशरूपककार —'श्रुतिसाम्यादनेकार्थयोजनं त्रिचतु...
न्तं वा विचित्राभिः प्रत्युक्ते भूरिधोच्यते ॥' इति ॥