साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
DevanagariSanskritpublished506 पृष्ठ
पृष्ठ 460, कुल 506 में से
संदर्भ में पढ़ेंपृष्ठ 460
षष्ठः परिच्छेदः । ३४७
प्रतिज्ञाव्यवसायकः ।
यथा मम प्रभावत्याम् 'वज्रनाभः-
अस्य वक्षः क्षणेनैव निर्मथ्य गदयाऽनया ।
लीलयोन्मूलयाम्येष भुवनद्वयमद्य च ॥'
विसर्पो यत्समालब्धं कर्मानिष्टफलप्रदम् ॥ २०४ ॥
यथा वेण्याम्-
'एकस्यैवाविपाकोऽयम्-' इत्यादि ( ३१२ पृ. ) ।
कार्यदर्शनमुल्लेखः-
यथा शाकुन्तले-राजानं प्रति 'तापसौ-समिदाहरणाय प्रस्थि-
तावावाम् । इह चास्मद्गुरोः साधिदैवत इव शकुन्तलानुमालिनीतीर-
श्रमो दृश्यते । ने चेदन्य(था) कार्यातिपात', प्रविश्य गृह्यतामतिथि-
सत्कारः' इति ।
उत्तेजनमितीष्यते ।
स्वकार्यसिद्धयेऽन्यस्य प्रेरणाय कठोरवाक् ॥ २०५ ॥
यथा-
'इन्द्रजित्पदवीर्योऽसि नासि वह्निस्तथाऽसि ।
पिशिताशनरूपेण कुम्भीनसस्तनूजः ॥'