साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 428, कुल 506 में से
संदर्भ में पढ़ेंचतुर्थः परिच्छेदः । २१९
अत्र कविनिबद्धवक्तृप्रौढोक्तिसिद्धेन कामशरगणा कोटिसङ्ख्यत्व-
प्राप्या निखिलवियोगिमरणेन वस्तुना शराणां पञ्चता अगणितमुत्सृज्य
वियोगिनः श्रितेत्युत्प्रेक्षालङ्कारो व्यज्यते ।
'मल्लिकामुकुले चण्डि भाति गुञ्जन्मधुव्रतः ।
प्रयाणे पञ्चबाणस्य शङ्खमापूरयन्निव ॥'
अत्र कविनिबद्धवक्तृप्रौढोक्तिसिद्धेनोत्प्रेक्षालङ्कारेण कामस्यायमु-
न्मादकः कालः प्राप्तस्तत्कथं मानिनि मानं न मुञ्चसीति वस्तु
व्यज्यते ।
'महिलासहस्सभरिए तुह हिअए सुहअ सा अमामन्ती ।
अणुदिणमणण्णकम्मा अङ्गं तणुअं पि तणुएइ ॥'
अत्रामानन्तीति कविनिबद्धवक्तृप्रौढोक्तिसिद्धेन वास्तवेना-
पारेण तनोस्तनूकरणेऽपि तव हृदये न वर्तत इति विशेषोक्त्यलङ्कारो
व्यज्यते ।
न खलु कवेः कविनिबद्धस्येव रागाद्याविष्टता अतः कविनिबद्ध-
वक्तृप्रौढोक्तिः कविप्रौढोक्तेरधिकं सहृदयचमत्कारिणीति पृथगु-
क्तिसिद्धस्यालङ्कारस्योदाहरणमाह— मल्लिकेति । चण्डीति कोपनशीले । प्रयाणेऽभिनव-
तश्चाय इति शेषः । उन्मादकः प्रौढदर्पजननप्रवृद्धः । 'अलङ्कारेण वस्त्विति'-
वाक्येनान्वयः । उत्प्रेक्षालङ्कारस्वरूपं दर्शयन्नाह— मल्लिकामुकुल इति ।
रित्तम् ॥ कविनिबद्धप्रौढोक्तिसिद्धेन वस्तुनालङ्कारोदाहरणमाह— महिलेति ।
'महिलासहस्रभरिते तव हृदये सुभग सा अमान्ती । अणुदिनमनन्यकर्मा अङ्गं
तनुकमपि तनूकरोति' इति संस्कृतम् । अत्र दूतिकायाश्चातुर्यम् । अमान्ती अवकाश-
मलभमाना । विरहतापकृशतामाशङ्क्याह— अणुदिनमिति । हे कामुक ! विरहपीडिता-
पि निर्दये त्वयि कृताभिलाषाभूदिति भावः । अत्र कार्श्यस्याहेतुत्वेऽपि कारणो-
क्तत्वादाभासत्वम् । उक्तं 'हेतुफल' इत्यादिना । अत्राशङ्कते— नन्विति । नन्वत्र
इति शेषः । ननु तादृशत्वाविशेषेण तयोः पृथङ्निर्देशानौचित्यमित्यत
निर्दिशति । तदत्रोद्देश्यं विवक्षितमित्याशयेन सहृदयहृदयाह्लादकत्वस्य पृथग्भाव-
कृतत्वस्याप्यौचित्यादित्याशयेन तृतीयावृत्तिमादृत्य प्रागुक्तन्यायेन वस्तुप्रभेद-
णिद्भावस्यैवाप्यङ्गीकारादिति भावः । तदनेन कविप्रौढोक्तिसिद्धवस्तुना व्यङ्ग्य-
ङ्कारोदाहरणम् दर्शितमित्याशयेनाह—
. . . . . . . . . . . . . . . . . . . . . . . . . .
. . . . . . . . .