साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 427, कुल 506 में से
संदर्भ में पढ़ें२१८ साहित्यदर्पणे
अत्र कविप्रौढोक्तिसिद्धेनापह्नुत्यलंकारेण भविष्यद्राक्षसश्रीविनाश-
रूपं वस्तु व्यज्यते ।
‘धम्मिले नवमल्लिकासमुदयो हस्ते सिताम्भोरुहं
हारः कण्ठतटे पयोधरयुगे श्रीखण्डलेपो घनः ।
एकोऽपि त्रिकलिङ्गभूमितिलक त्वत्कीर्तिराशियर्यौ
नानामण्डनतां पुरंदरपुरीवामभ्रुवां विग्रहे ॥’
अत्र कविप्रौढोक्तिसिद्धेन रूपकालंकारेण भूमिष्ठोऽपि स्वर्गस्था-
मुपकारं करोषीति विभावनालंकारो व्यज्यते ।
‘शिखरिणि क्व नु नाम कियच्चिरं किमभिधानमसावकरोत्तपः ।
सुमुखि येन तवाधरपाटलं दंशति बिम्बफलं शुकशावकः ॥’
अत्रानेन कविनिबद्धस्य कस्यचित्कामिनः प्रौढोक्तिसिद्धेन वस्तु-
ना तवाधरः पुण्यातिशयलभ्य इति वस्तु प्रतीयते ।
‘सुभगे कोटिसंख्यत्वमुपेत्य मदनाशुगैः ।
वसन्ते पञ्चता त्यक्ता पञ्चतासीद्वियोगिनाम् ॥’
प्रकृतानामश्रुबिन्दूना स्थापनमपह्नुति । अत्र राक्षसस्त्रियोऽश्रुबिन्दूनामनीकत्वं
कविप्रौढोक्तिमात्रसिद्धत्वम् ॥ कविप्रौढोक्तिसिद्धालंकारव्यङ्ग्यमलङ्कारमाह — धम्मिले
इति । ‘धम्मिल्लः संयता कचा’ इत्यमरः । समुदयः समूह । श्रीखण्डलेपः चन्द-
नप्रलेपः । विग्रहे देहे । अत्र कीर्तिगंगयोर्धावल्यरूपसादृश्यमप्रसिद्धमपि कविप्रौढोक्ति-
मात्रसिद्धमिति तन्मूलकरूपकस्यापि तथात्वमिति भाव । स्वर्गस्थानामुपकारे स्वर्ग-
स्थितिरेव कारणं ता विनापि भवतीति विभावना । उपकारश्च यज्ञादिद्वारेण ॥ कविनि-
बद्धप्रौढोक्तिसिद्धवस्तुव्यङ्ग्यं वस्तुमाह — शिखरिणीति । अधरवत्पाटलं रक्तं शुकशाव-
कस्य तपश्चरणं प्रौढोक्तिमात्रसिद्धम् । यत्सादृश्येनोत्कृष्टं वस्तु पुण्यं विना न लभ्यते
तस्य सुतरामेव पुण्यातिशयलभ्यत्वमिति भाव ॥ कविनिबद्धवस्तुव्यङ्ग्यमलङ्कार-
माह — सुभगे इति । पञ्चता पञ्चसंख्यौपयोगित्वं मरणं च ॥ कविनिबद्धस्य
१. त्रिकेति । तैलङ्गदेशभूषणम् ॥
दशनेति । दशनं आस्वाद्यते । अनवच्छिन्नप्रबन्धतया न त्वौदरिकत-
येति तु रसज्ञोऽत्र तन्मातिभेदेन रसज्ञताप्यस्य तपःप्रभावादेवेति । शुकशावक इति
द्वित्वेन अनौचित्यं तपस्व्येति सहृदयाः ॥
क. २ ‘कविप्रौढोक्तिमात्रसिद्धम्’ इति पुस्तकान्तरे नास्ति.