साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 402, कुल 506 में से
संदर्भ में पढ़ेंतृतीयः परिच्छेदः। १९३
पुष्टिस्तु महाभारतादौ द्रष्टव्या ।
निरहंकाररूपत्वाद्वयावीरादिरेष नो ॥ २४९ ॥
दयावीरादौ हि नागानन्दादौ जीमूतवाहनादेरन्तरा मलयवत्याद्य-
नुरागादेरन्ते च विद्याधरचक्रवर्तित्वप्राप्तेर्दर्शनादहंकारोपशमो न दृ-
श्यते । शान्तस्तु सर्वाकारेणाहंकारप्रशमैकरूपत्वान्न तत्रान्तर्भावम-
र्हति । ततश्च नागानन्दादेः शान्तरसप्रधानत्वमपास्तम् । ननु
‘न यत्र दुःखं न सुखं न चिन्ता न द्वेषरागौ न च काचिदिच्छा ।
रसः स शान्तः कथितो मुनीन्द्रैः सर्वेषु भावेषु समप्रमाणः ॥’
इत्येवंरूपस्य शान्तस्य मोक्षावस्थायानेवात्मस्वरूपापत्तिलक्षणायां
प्रादुर्भावात्तत्र संचार्य्यादीनामभावात्कथं रसत्वमित्युच्यते-
युक्तवियुक्तदशायामवस्थितो यः शमः स एव यतः ।
रसतामेति तदस्मिन्संचार्यादेः स्थितिश्च न विरुद्धा ॥ २५०॥
निर्बीजीकृत-' इति पाठेऽपि बीजं वासना तच्छून्योकृतेत्यर्थः । करट. काक ॥
ननु शान्ते दयावत्तिनसम्भवेन दयावीरादिरेवायमित्यत आह—निरहंकाररू-
पत्वादिति । आदिना धर्मवीरदेवताविषयरतिप्रभृतीनां ग्रहणम् । एष शान्त-
रसः । तथा चाहंकारस्खलितो दयाविरेव दयावीरादेर्घटकः । तदितः शान्तरस
इति विशेषः । ततश्चेत्यादिनापोवाक्यम् च । नागानन्दे दयावीरादिप्रधाने ग्रन्थ-
विशेषे ॥ न यत्रेति । द्वेषो रिपूणामपचिकीर्षा । रागः सुहृदामुपचिकीर्षा । इच्छा
द्वेषविरहसुखतदुपायेच्छा । भावेषु पंथार्थेषु लोष्टकञ्चनादिभिभावादिषु सत्सु राग-
द्वेषराहित्येन समरूपिमं प्रमाणं प्रतीतिर्येन । ‘शमप्रधानः' इति पाठस्तु न मनो-
रमः, अर्थाप्तगतेः । तादृशदशायां व्यभिचारिभावादीनामसम्भवात् । शम एव
न्यायितया प्रधानं यत्र सः । आत्मस्वरूपापत्तिलक्षणाया परमात्मस्वरूपलभप्राप्ति-
रूपायाम् ॥ युक्तवियुक्तेति । विक्षेप्यं प्रत्याहृत्यैकाग्रमन्तर्ध्ये वस्तुनि मनो
निधाय वर्तमानश्चिन्तासन्तानवान् युक्तः । यस्य योगधर्ममहत्त्वेन मनसा निज-
स्मिन्वस्तुसाक्षात्कारो जायते । यश्च भूतेन्द्रियजयी प्रतिमाया रागविवृद्धिर्दृष्ट्वा-
पाथाभेन्द्रियनिरोधनादिरतस्तन् समापन्धिनो वियुक्तः । यस्य च योगजधर्म-
१. स एवेति । तादृशश्शम एव स विभावो रसता लभत इत्यर्थः ।
१ 'पुष्टि-' इति पुस्तके नास्ति २ 'एव दयावीरादिः शान्तरसोन्यान्तर- इत्यादिकं
ग-पुस्तके ३ 'नागानन्दादौ' इति नास्ति ग घ पुस्तयोः ४ 'शान्तरसो' ए च ५ 'आदि-'
शब्दो नास्ति क घ पुस्तयोः ६ 'सर्वथापि' ग ७ 'तत्र स नेमर्हितुमर्हति' ग. ८ 'नाग्रे-'
क घ ९ 'समप्रधानः' इत्येव पाठः १० 'पदार्थेषु' इति पुस्तकान्तरे ११ 'विमुक्तास्नादि'
नास्ति पुस्तकान्तरे १२ 'यथा-' इत्यादि 'अहंकार' इत्यन्तः पाठो नास्ति पुस्तकान्तरे
साहि० १७